इन्द्राणीसप्तशती - पञ्चमं पाङ्क्तं शतकम्
‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते.
॥प्रथमो मयूरसारिणीपादः ॥
प्रेमवासभूमिरच्छभावस्थानमानमज्जनाघहा मे ।
इन्द्रसुन्दरी मुखाब्जभासी मन्दहास आपदं धुनोतु ॥४०१॥
वीक्षितैः कृपान्वितैर्हरन्ती पातकानि मङ्गलं भणन्ती ।
जम्भभेदिजीवितेश्वरी मे जन्मदेशमुज्ज्वलं करोतु ॥४०२॥
अम्बरं च देवतानतभ्रूरम्ब ते तनुद्वयं यदुक्तम् ।
आदिमा तयोर्वृषाकपिं तं देव्यजीजनत्परा जयन्तम् ॥४०३॥
एतमेव देवि लोकबन्धुं सूरयो वृषाकपिं भणन्ति ।
वर्षहेतुदीधितिर्वृषायं कं पिबन् करैः कपिर्निरुक्तः ॥४०४॥
केचिदिन्द्रनारि चन्द्ररेखाशेखरं वृषाकपिं गदन्ति ।
पण्डिताः परे तु शेषशय्याशायिनं वृषाकपिं तमाहुः ॥४०५॥
ब्रह्मणस्पतिं तु वैद्युताग्नेरंशजं मरुद्गणेषु मुख्यम् ।
विश्वराज्ञि विघ्नराजमेके विश्रुतं वृषाकपिं वदन्ति ॥४०६॥
भास्करश्च शङ्क्रश्च मातर्माधवश्च मन्त्रनायकश्च ।
आत्मजेषु ते न सन्ति नान्तर्व्यापकान्तरिक्षविग्रहायाः ॥४०७॥
वासवोऽपि देवि देवतात्मा वल्लभस्तव च्छलाङ्गनायाः ।
आत्मजात एव कीर्तनीयो देवतापथेन देहवत्याः ॥४०८॥
साशवस्युदीरितासि धीरैर्देहिनी विहायसेन्द्रसूस्त्वम् ।
लिङ्गभेदतोऽनुरूपतस्तत्कीर्तनं शवो हि शक्तिवाचि ॥४०९॥
नादितिर्विभिद्यते शवस्यास्सर्वदेव मातरं विदुर्याम् ।
सा मरुत्प्रसूरभाणि पृश्निः सापि भिद्यते ततो न देव्याः ॥४१०॥
शक्तिरेव सा न्यगादि पृश्निश्शक्तिरेव साऽदितिर्न्यभाणि ।
शक्तिरेव साऽभ्यधायि भद्रा शक्तिरेव सा शवस्यवादि ॥४११॥
विज्जनः प्रकृष्टशक्तिभागं शब्दमेव पृश्निमाह धेनुम् ।
या परैर्बुधैरभाणि गौरी मानवेष्टभाषयैव नारी ॥४१२॥
व्यापकत्वकल्पितं विशालं देशमेव शक्तिभागमाहुः ।
बुद्धिशालिनोऽदितिं सवित्रीं या परैर्विचक्षणैः स्मृता द्यौः ॥४१३॥
नित्यमोदरूपशक्तिभागं पण्डिताः प्रकीर्तयन्ति भद्राम् ।
उक्तिभेदचातुरीप्रलुब्धाः सूरयः परे शिवां जुगुर्याम् ॥४१४॥
वीर्यरूपभाग एव गण्यः पण्डितैः शवस्यभाणि शक्तेः ।
ओजसो न सोऽतिरिच्य तेंशो भिद्यते ततो न वज्रमुग्रम् ॥४१५॥
वज्रमेव भाषया परेषामुच्यते प्रचण्डचण्डिकेति ।
यद्विभूतिलेशचुम्बितात्मा जीयते न केनचित्पृथिव्याम् ॥४१६॥
सर्वतो गतिश्शचीति शक्तिः कीर्त्यते बुधैरुदारकीर्तिः ।
सर्वभागवाचकं पदं तत् पावनं पुरातनं प्रियं नः ॥४१७॥
यश्शचीति नामकीर्तयेन्ना पुष्करेण ते शरीरवत्याः ।
दिव्यसुन्दरी तनोरुताहो तं पराभवेन्न देवि पापम् ॥४१८॥
अम्बरं वरं तवाम्ब कायं यस्सदा विलोकयन्नौपास्ते ।
लोकजालचक्रवर्तिजाये तं पराभवेन्न देवि पापम् ॥४१९॥
पूर्णिमासुधांशुबिम्बवक्त्रं फुर्विंआरिजातपत्रनेत्रम् ।
शुभ्रतानिधानमन्दहासं कालमेघकल्पकेशपाशम् ॥४२०॥
रत्न्दर्पणाभमञ्जुगण्डं चम्पकप्रसूनचारुनासम् ।
कुन्दकुड्मलाभकान्तदन्तं कल्पपर्विंआभदन्तचेलम् ॥४२१॥
सद्वराभयप्रदायिहस्तं सर्वदेववन्द्यपादकञ्जम् ।
दिव्यरत्नभूषणैरनर्घैर्भूषितं कनत्सुवर्णवर्णम् ॥४२२॥
दिव्यशुक्ल्वस्त्रयुग्मधारि स्वर्गसार्वभोमनेत्रहारि ।
यः स्मरेद्वराङ्गनावपुस्ते तं पराभवेन्न देवि पापम् ॥४२३॥
भारतक्षितेरिदं जनन्याश्शोकजन्यबाष्पवारि हर्तुम् ।
देहि शक्तिमाश्रिताय मह्यं पाहि धर्ममिन्द्रचित्तनाथे ॥४२४॥
सद्वसिष्ठसन्ततेरिमाभिस्सत्कवेर्मयूरसारिणीभिः ।
सम्मदं प्रयातु शक्रचेतस्सम्प्रमोहिनीसरोजनेत्र ॥४२५॥
॥द्वितीयो मनोरमापादः ॥
हसितमाततायिपातकप्रमथनप्रसिद्धविक्रमम् ।
अमरभूमिपालयोषितो मम करोतु भूरिमङ्गलम् ॥४२६॥
करुणया प्रचोदिता क्रियाद्भरतभूमिमक्षयश्रियम् ।
चरणकञ्जराजदिन्दिरा सुरनरेश्वरस्य सुन्दरी ॥४२७॥
न भवनं न वा जगत्पृथङ्निवसनाय ते सुरार्चते ।
यदखिलानि विष्टपानि ते वपुषि सर्वमन्दिराणि च ॥४२८॥
मतिदविष्ठसीमभासुरं तव शरीरमेव पुष्करम् ।
परमपूरुषस्य वल्लभे भुवनमेकमुच्यते बुधैः ॥४२९॥
तरणयस्सुधांशवस्तथा सह भुवा ग्रहाः सहस्रशः ।
अयि जगन्ति विस्तृतानि ते वपुषि पुष्करे जगत्यजे ॥४३०॥
बहुभिरुष्णभानुभिक्र्ततात् बहुभिरिन्दुभिर्वशीकृतात् ।
वियति लोकजालधात्रि ते शतगुणं बलं प्रशिश्यते ॥४३१॥
न विभुरेककस्य भास्वतो विभवमेव ना प्रभाषितुम् ।
किमुत ते दधासि योदरे द्युतिमतां शतानि तादृशाम् ॥४३२॥
इह विहायसा शरीरिणीमतिसमीपवासिनीमपि ।
न खलु कोऽपि लोकितुं प्रभुर्भगवतीं परामयुक्तधीः ॥४३३॥
तदिदमुच्यते जनो जगद्वपुरमेयमादिदेवि ते ।
जनयते यतोऽखिलं दृशोर्विषयभूतमेतदाततम् ॥४३४॥
बहुलतारकागणैर्युतं किमपि खं तवेह वर्ष्मणि ।
शचि विभज्य भाषयैकया सुकवयो महोजगद्विदुः ॥४३५॥
इदमिनेन्दुभूविलक्षणैर्दिनकरैस्सुधाकरैर्ग्रहैः ।
बहुजगद्भिरन्वितं महोजगदशेषधात्रि नैककम् ॥४३६॥
अजरमव्ययं सनातनं मुनिजनैकवेद्यवैभवम् ।
न भवतीं विना तपोजगत्पृथगशेषनाथनायिके ॥४३७॥
सकलदृश्यमूलकारणं तव च संश्रयो निराश्रयः ।
जननि सत्यलोक संज्ञया परमपूरुषोऽभिधीयते ॥४३८॥
अयि पुरातनर्षिभाषया गगनमेतदाप ईरिताः ।
अथ यदासुवीर्यमुज्झितं भगवतस्त्वमेव तत्परे ॥४३९॥
शचि विराड्भवत्यभाषत श्रुतिरपीदमेव नाम ते ।
विततविश्वविग्रहात्मनि प्रथितमेतदाह्मयं परम् ॥४४०॥
उपनिषद्गिरा विराड्वधूः पुरुष एष भाषयान्यया ।
उभयथापि साधु तत्पदं भवति ते न संशयास्पदम् ॥४४१॥
न वनिता न वा पुमान् भवेज्जगति योऽन्तरश्शरीरिणाम् ।
तनुषु लिङ्गभेददर्शनात् तनुमतश्च लिङ्गमुच्यते ॥४४२॥
अखिलनाथवीर्यधारणान्न्गनभूमिरङ्गनामता ।
सकललोकबीजभृत्त्वतो गगनदेश एष पूरुषः ॥४४३॥
स्फुटविभक्तगात्रलक्ष्मणां नियतवादिनामदर्शनात् ।
न पुरुषो वियद्यथा वयं न वनिता वियद्यथैव नः ॥४४४॥
अभिविमानतोऽथ वा शची विबुधराजयोर्विलक्षणात् ।
वरविलसिनी वियत्तनुस्सदविकारमुत्तमः पुमान् ॥४४५॥
हृदयमल्पमप्यदो जनन्यनवमं विशालपुष्करात् ।
विमलदेहदुर्गमध्यगं सकलराज्ञि सौधमस्तु ते ॥४४६॥
विकसितं निजांशुवीचिभिक्र्तदयमालयं विशाम्ब मे ।
विकचमुष्णभानुभानुभिर्दशशतच्छदं यथा रमा ॥४४७॥
हृदयसाधुसौधशायिनीं नयनरम्यहर्म्यचारिणीम् ।
भुवनराजचित्तमोहिनीं नमत तां परां विलासिनीम् ॥४४८॥
तव परे मरीचिवीचयस्तनुगुहां प्रविश्य विश्रुते ।
भरतभूमिरक्षणोद्यतं गणपतिं क्रियासुरुज्ज्वलम् ॥४४९॥
गणपतेर्मनोरमा इमास्सुगुणवेदिनां मनोरमाः ।
अवहिता शृणोतु सादरं सुरमहीपतेर्मनोरमाः ॥४५०॥
॥तृतीयो मणिरागपादः ॥
ज्योतिषां नृपतिः सकलानां शान्तिमेव सदाभिदधानः ।
निर्मलो हरतात्सुरराज्ञीमन्दहासलवो मम पापम् ॥४५१॥
दुष्टलोकदविष्ठपदाब्जा शिष्टशोकनिवारणदक्षा ।
नाकलोकमहीपतिरामा भारतस्य धुनोत्वसुखानि ॥४५२॥
देवमौलिमणीकिरणेभ्यो विक्रमं स्वयमेव ददाना ।
देवराजवधूपदपद्मश्रीस्तनोतु सदा मम भद्रम् ॥४५३॥
देवि ते वदनं बहुकान्तं साक्षि तत्र पुरन्दरचेतः ।
अम्ब ते चरणावतिकान्तावत्र साक्षि मनः स्मरतां नः ॥४५४॥
भासुरं सुरसंहतिवन्द्यं सुन्दरं हरिलोचनहारि ।
पावनं नतपापविदारि स्वर्गराज्ञि पदं तव सेवे ॥४५५॥
जङ्घिके जयतस्तव मातः स४ एव रुचां यदधीनः ।
वासवस्य दृशां च सहस्रं यद्विलोकनलोभविनम्रम् ॥४५६॥
सक्थिनी तव वासवकान्ते रामणीयकसारनिशान्ते ।
वन्दते विनयेन ममेयं वन्दिनस्तव पावनि वाणी ॥४५७॥
इन्द्रनारि कटिस्तव पृथ्वीमण्डलस्यतुला महनीये ।
मध्यमो नभसः प्रतिमानं भोगिनां भुवनस्य च नाभिः ॥४५८॥
धीरतां कुरुते विगतासुं सा सुपर्वपतेर्निशिताग्रा ।
सा तवाम्ब मनोभवशस्त्री रोमराजिरघं मम हन्तु ॥४५९॥
रोमराजिभुजङ्गशिशुस्ते देवि देवपतेर्हृदयस्य ।
दंशनेन करोत्ययि मोहं जीविताय चिराय विचित्रम् ॥४६०॥
पूर्णहेमघटविव शक्रावाहितां दधतावयि शक्तिम् ।
विश्वपोषणकर्मणि दक्षावम्ब दुग्धधरौ जयतस्ते ॥४६१॥
लोकमातरुरोरुहपूर्णस्वर्णकुम्भगता तव शक्तिः ।
लोकपालनकर्मणि वीर्यं देवि वज्रधरस्य बिभर्ति ॥४६२॥
अक्षयामृतपूर्णघटौ ते शक्रपत्नि कुचै तव पीत्वा ।
लोकबाधकभीकररक्षो धूनने प्रबभूव जयन्तः ॥४६३॥
हस्तयोस्तव मार्दवमिन्द्रो भाषतां सुषमामपि देवः ।
दातृतामनयोर्मुनिवर्गो वर्णयत्यजरे पटुतां च ॥४६४॥
पुष्पमाल्यमृदोरपि बाहोः शक्तिरुग्रतमाशरनाशे ।
दृश्यते जगतामधिपे ते भाषतां तव कस्तनुतत्त्वम् ॥४६५॥
कम्बुकण्ठि तवेश्वरि कण्ठस्तारहारवितानविराजी ।
देवराड्भुजलोचनपथ्यो देवि मे भणताद्बहुभद्रम् ॥४६६॥
आननस्य गभस्तिनिधेस्ते रामणीयकमद्भुतमीष्टे ।
अप्यमर्त्यनुताखिलसिद्धेर्वासवस्य वशीकरणाय ॥४६७॥
न प्रसन्नमलं रविबिम्बिं चन्द्रबिम्बमतीव न भाति ।
सुप्रसन्नमहोज्ज्वलमास्यं केन पावनि ते तुलयामः ॥४६८॥
लोचने तव लोकसवित्रि ज्योतिषः शवसश्च निधाने ।
वक्तुमब्जसमे ननु लज्जे धोरणीमनुसृत्य कवीनाम् ॥४६९॥
आयतोज्ज्वलपक्ष्मलनेत्रा चम्पकप्रसवोपमनासा ।
रत्नदर्पणरम्यकपोला श्रीलिपिद्युतिसुन्दरकर्णा ॥४७०॥
अष्टमीशशिभासुरभाला विष्टपत्रयचालकलीला ।
स्मेरचारुमुखी सुरभर्तुः प्रेयसी विदधातु शिवं मे ॥४७१॥
मन्दहासलवेषु वलक्षा मेचका चिकुरप्रकरेषु ।
शोणतामधरे दधती सा रक्षतु प्रकृतिस्त्रिगुणा नः ॥४७२॥
सर्वलोकवधूजनमध्ये यां श्रुतिस्सुभगामभिधत्ते ।
या दिवो जगतो रुचिसारस्तां नमामि पुरन्दररामाम् ॥४७३॥
स्वर्गभूपतिलोचनभाग्यश्रीश्शरीरवती जलजाक्षी ।
भारतस्य करोतु समर्थं रक्षणे नरसिंहतनूजम् ॥४७४॥
लोकमातुरिमे रमणीयाः पाकशासनचित्तरमण्याः ।
अर्पिताः पदयोर्विजयन्तां सत्कवेः कृतयो मणिरागाः ॥४७५॥
॥चतुर्थो मेघवितानपादः ॥
अमरक्षितिपालकचेतो मदनं सदनं शुचितायाः ।
स्मितमादिवधूवदनोत्त्थं हरतादखिलं कलुषं मे ॥४७६॥
सुतरामधनामतिखिन्नामधुना बहुलं विलपन्तीम् ।
परिपातु जगत्त्रयनेत्री भरतक्षितिमिन्द्रपुरन्ध्री ॥४७७॥
स्थलमेतदमर्त्यनृपालप्रमदे तव मेघवितानम् ।
अयि यत्र परिस्फुसीशे तटिदुज्ज्वलवेषधरा त्वम् ॥४७८॥
तटिता तव भौतिकतन्वा जितमम्बुधरे विलसन्त्या ।
उपमा भुवि या ललितानां युवचित्तहृतां वनितानाम् ॥४७९॥
स्फुरितं तव लोचनहारि स्तनितं तव धीरगभीरम् ।
रमणीयतया मिलिता ते शचि भीकरता चपलायाः ॥४८०॥
चपले शचि विस्फुरसीन्द्रं घनजालपतिं मदयन्ती ।
दितिजातमवग्रहसंज्ञं जनदुःखकरं दमयन्ती ॥४८१॥
प्रभुमभ्रपतिं रमयन्ती दुरितं नमतां शमयन्ती ।
हरितां तिमिराणि हरन्ती पवमानपथे विलसन्ती ॥४८२॥
अलघुस्तनितं विदधाना बलमुग्रतमं च दधाना ।
हृदयावरकं मम मायापटलं तटिदाशु धुनोतु ॥४८३॥
सुरपार्थवजीवितनाथे निखिले गगने प्रवहन्त्याः ।
तटितस्तव वीचिषु काचिच्चपला लसतीह पयोदे ॥४८४॥
विबुधप्रणुते धनिकानां भवनेषु भवन्त्ययि दीपाः ।
पटुयन्त्रबलादुदितानां तव देवि लवाः किरणानाम् ॥४८५॥
व्यजनानि च चालयसि त्वं बत सर्वजगन्नऋपजाये ।
विबुधोऽभिदधात्वथवा को महतां चरितस्य रहस्यम् ॥४८६॥
इह चालित ईड्यमनीषैरयि यन्त्रविशेषविधिज्ञैः ।
बहुलाद्भुतकार्यकलापस्तटितस्तव मातरधीनः ॥४८७॥
अचरस्तरुगुल्मलतादिः सकलश्च चरो भुवि जन्तुः ।
अनिति प्रमदे सुरभर्तुस्तटितस्तव देवि बलेन ॥४८८॥
मनुते निखिलोऽपि भवत्या मनुजोऽनिति वक्तिशृणोति ।
अवलोकयते च भणामः किमु ते जगदम्ब विभूतिम् ॥४८९॥
अतिसूक्ष्मपवित्रसुषुम्णापथतस्तनुषु प्रयतानाम् ।
कुलकुण्डकृशानुशिखा त्वं ज्वलसि त्रिदशालयनाथे ॥४९०॥
इतरो न सुरक्षितिपालात्कुलकुण्डगतो ज्वलनोऽयम् ।
इतरेन्द्रविलासिनि न त्वत्कुलकुण्डकृशानुशिखेयम् ॥४९१॥
कुलकुण्डकृशानुशिखायाः किरणैः शिरसि स्थित एषः ।
द्रवतीन्दुरनारतमेतद्वपुरात्ममयं विदधानः ॥४९२॥
मदकृद्बहुलामृतधारापरिपूतमिदं मम कायम् ।
विदधासि भजन्मनुजाप्ते कुलकुण्डधनंजयदीप्ते ॥४९३॥
शिरसीह सतः सितभानोरमृतेन वपुर्मदमेति ।
हृदि भात इनस्य च भासा मतिमेतु परां शचि चेतः ॥४९४॥
मम योगमदेन न तृप्तिनिजदेशदशाव्यथितस्य ।
अवगन्तुमुपायममोघं शचि भासय मे हृदि भानुम् ॥४९५॥
विदितः प्रमदस्य विधातुः शशिनो जनयित्रि विलासः ।
अहमुत्सुक ईश्वरि भानोर्विभवस्य च वेत्तुमियत्ताम् ॥४९६॥
वरुणस्य दिशि प्रवहन्ती मदमम्ब करोषि महान्तम् ।
दिशि वज्रभृतः प्रवहन्ती कुरु बुद्धिमकुण्ठितसिद्धिम् ॥४९७॥
अमलामधिरुह्य सुषुम्णां प्रवहस्यधुनाम्ब मदाय ।
अमृतामधिरुह्य च किञ्चित्प्रिवहेश्वरि बुद्धिबलाय ॥४९८॥
भरतक्षितिक्षणकर्मण्यभिधाय मनोज्ञमुपायम् ।
अथ देवि विधाय च शक्तं कुरु मां कृतिनं शचि भक्तम् ॥४९९॥
नरसिंहसुतेन कवीनां विभुना रचितैः कमनीयैः ।
परितृप्यतु मेघवितानैर्मरुतामधिपस्य पुरन्ध्री ॥५००॥
॥पञ्चमं पाङ्क्तं शतकं समाप्तम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP