उपमेयोपमा अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथेयमुदाह्लियते-
‘ कौमुदीव भवती विभआति मे कातराक्षि भवतीव कौमुदी । अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम्‍ ॥ ’

इयं च तावहिऊविधा-उक्तधर्मा व्यक्तधर्मा च । उक्तधर्मा तावद-नुगाम्यादिभि: प्रागुक्तैर्धर्मैरनेकधा ।

अनुगामी धर्मो यथा-
‘ निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादो‍ऽर्थ: । शिव इव गुरुर्गरीयान्गुरुरिव सोऽयं सदाशिवोऽपि तथा ॥ ’

बिम्बप्रतिबिम्बभावमापन्नो यथा-
‘ रमणीयस्तबकयुता विलसितवक्षोजयुगलशालिन्य: । लतिका इव ता वनिता वनिता इव रेजिरे लतिका: ॥ ’

अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटित: स्तबकस्तनरूप: परस्परं बिम्बप्रतिबिम्बभावापन्नो धर्म: ।
उपचरितो यथा-
‘ कुलिशीमव कठिनमसतां ह्लदयं जानीहि ह्लदयमिव कुलिशम्‍ । प्रकृति : सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ॥’
केवलशब्दात्मको यथा-
‘ अविरतचिन्तो लोके वृक इव पिशुनो‍ऽत्र पिशुन इव च वृक: । भारतमिव सच्चितं सच्चितमिवाथ भारतं सकृपम्‍ ॥’
व्यक्तधर्मो यथा-
‘ वारिधिराकाशसमो वारिधिसदृशस्तथाकाश: । सेतुरिव स्वर्गड्रा स्वर्गड्रेवान्तरा सेतु: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP