उपमेयोपमा अलंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
‘ अहं लताया: सदृशीत्यखर्वं गौराड्रि गर्व न कदापि याया: । गवेषणेनालमिहापरेषामेषापि तुल्या तव तावदस्ति ॥’
अत्रान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्र-याया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापते: । न चात्रान्योन्य-प्रतियोगिकत्वमुपमायां न प्रतीयते, लतादिस्मबन्धिसादृश्याश्रयत्वस्यैवा-
स्मत्पदार्थेऽन्वयादिति वाच्यम् । ‘ मुखस्य सदृशश्चन्द्रश्चन्द्रस्य सदृशं मुखम् ’
इत्युपमेयोपमायामव्याप्ते: । न ह्मयं लताया इत्यत्रोपमेयोपमा भवितुमर्हति । गर्वमात्रनिरासपरत्वेनोत्तरार्धोपमायास्तृतीयसदृशव्यवच्छेदाप्रतिपते: । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं फलमित्ये-तदर्थकं गवेषणेनेत्युत्तरार्धं संगच्छते । तृतीयसब्रह्मचारिव्यवच्छेदो ह्युपमे-योपमाजीवितमित्यालंकारिकसिद्धान्त: । अन्यथा ‘ भुवस्तलमिव व्योम
कुर्वन्व्योमेव भूतलम् । इत्यत्राप्युपमेयोपमात्वनिवारणप्रयासवैयर्थ्यापत्ते: । न च तृतीयसदृशव्यवच्छेदफलकत्वमुपमाविशेषणं वाच्यम्, विशेषणा-न्तरवैयर्थ्यापत्ते: । विशेषणव्यावर्त्यानामाधुनिकविशेषणेनैव वारणात् । अन्योन्यप्रतितयोगिकत्वविशिष्टा उपमा एकवृत्तिमात्रवेद्येत्यप्ययुक्तमेव ।
‘ खमिव जलं जलमिव खम् ’ इत्यादौ खजलयो: सादृश्यान्वये प्रतियोगि-
त्वस्य संसर्गत्वेन वृत्त्यविषयत्वात् । वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद्य इत्यभ्युपगभात् । अन्यथा प्रकारतापत्ते: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP