उपमेयोपमा अलंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यदप्यलंकारसर्वस्वकृतोक्तम् ‘ द्वयो: पर्यायेण तस्मिन्नुपमेयोपमा । तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्श: । पर्यायो यौगपद्याभाव: । अत एवात्र वाक्यभेद: ’ इति, तन्न । अत्र द्वयोरिति व्यर्थम् । एकस्योपमानोपमेयात्म-कत्वे ‘ गगनं गगनाकारम् ’ इत्यादौ वाक्यभेदाभावेन पर्यायाभावादेवाग्र-सक्ते: । यदि च स्फुटत्वार्थमुपमानोपमेयत्वयोग्यतासंपादकलिड्रवचन-भेदराहित्यप्रतिपत्यर्थ्म कविसमयप्रसिद्धिस्फोरणार्थं वा द्वयोरिति ग्रहणं स्यात्, अथापि प्रागुदीरिते ‘ अहं लताया: सदृशीत्यखर्वम् ’ इति पद्ये प्रतिपाद्यायामुपमायामतिव्याप्ते: ।
‘ तद्वल्गुना युगपदुन्मिषितेन ताव- त्सद्य: परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्त-श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥’
इति कालिदासपद्ये प्रतिपाद्यायाभुपमानोमयेपयोर्युगपदुपमेयोपमान-भावायामुपमेयोपमायां वाक्यभेदाभावादव्याप्तेश्र्व । न चात्रापातत: शब्दैक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम् । तथापि-
‘ सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्य: । यामिनयन्ति दिनानि च सुखदु:खवशीकृते मनसि ॥ ’
इति कस्यचित्कवे: पद्ये परस्परोपमायामतिव्याप्ते: । चेयमुपमेयोपमेति शक्यते वक्तुम्, सुखसभये दु:खदोऽपि सुखयति, दु:खसमये च सुखदो-
ऽपि दु:खयति इत्येतावन्मात्रस्यार्थस्य विवक्षितत्वात्तृतीयसदृशव्यवच्छे-दाप्रतिपत्ते: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP