भ्रान्तिमान् अलंकारः - लक्षण १
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
सद्दशे धर्मिणि तादात्म्येन धर्म्यन्तरप्रकारकोऽनाहार्यो निश्चय: सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्ति: । सा च पशुपक्ष्यादिगता यस्मिन्वाक्संदर्भेऽनूद्यते स भ्रान्तिमान् ॥
अत्र च भ्रान्तिमात्रमलंकार: । भ्रान्तिमानलंकार इति व्यवहार-स्त्वौपचारिक: । तथा चाहु -
प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिक: ॥’ इति ।
लक्षणे मीलित-सामान्य-तद्गुण-वारणाय धर्मिग्रहणद्वयम् । रूपकवित्ति-वारणायानाहार्य इति कविभिन्नगत इति वा । संशयवारणाय निश्चय इति । इदं रजतमिति रड्रविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानि-र्वर्तित इत्यर्थ: । रड्रे रजतमिति बुद्धेर्लौकिकतया न कविप्रतिभानिर्वर्तितत्वम् ।
‘ अकरुणह्लदय प्रियतम मुञ्चामि त्वामित: परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥’
इत्यत्र नायिकासंदेशहरस्योक्तौ व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति । न चात्रोन्मादस्य प्राधान्यात्सकलालंकारसाधारणे-नोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम् । तस्यापि पार्यन्तिकवि-प्रलम्भोपस्कारकत्वात् । यद्बा संदेशहरात्संदेशं श्रुतवतो नायकम्य स्वमित्रं प्रति यदेदं वाक्यं ‘ अकरुणह्लदय-’ इत्यादि, तदास्मिन्नेव पद्ये सेति पदव्यड्रयाया: स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसड्रापत्ते: सादृश्य-प्रयोज्यत्वमावश्यकम् । लक्षणे चात्रैकत्वं विवक्षितम् । अन्यथा वक्ष्य-
माणानेकग्रहीतृकानेकप्रकारकैकविशेष्यकभ्रान्तिसमुदायात्मन्युल्लेखेऽति-प्रसड्रापत्ते: । अत एवैकवचनमीप सार्थकम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP