भ्रान्तिमान् अलंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
चेत्, नैवम् । तथाप्रतीतेरसिद्धे: । ‘ चोरबुद्धया हत: साधु: ’ इत्यादौ चोरबुद्धिहननयो: सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्युत्पत्ते: । एवं ‘ दान्तिबुद्धया हत: शूरैर्वराहो वनगोचर: ’ इत्यत्रापि विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेर्वराहवृत्तिहननहेतुभावावगम: । त्वदुक्तरीत्या दन्तबु-द्धयेतिकृते बोधकदर्थनैव । किं च पिकानां हि कूजितादिशब्दैरेव शब्दौ वर्ण्यते, न तु निनदादिशब्दै: सिंहदुन्दुभ्यादिशब्दप्रयोगयोग्यै: । तथा प्रथमद्वितीयचरणस्थयो: स्तनपाण्योर्यथाकथंचिव्द्यवहितमपि जातान्वयमपि
त्वदरिमृगदृशामिति षष्टयन्तमन्वेतुं शक्नुयात् , न तु तृतीयचरणस्थे आल-पन्त्य इत्यस्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात् । विभक्तिविपरिणतावपि प्रक्तमभड्रासंष्ठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्न निर्मितमेव । दीक्षितैस्तु भ्रान्त्यलंकारांशमात्रमादायोदाह्लतमिति दिक् ।
यत्त्वलंकारसर्वस्वकृता लक्षितम् , ‘ सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ’ इति, तन्न । प्रागुक्ते संशयालंकारे वक्ष्यमाणायामुत्प्रेक्षायां चातिप्रसड्रात् । प्रतीतिपदस्य निश्चयपरत्वे रूपकवित्तावतिप्रसड्रात् । विषयतावच्छेदकान-वगाहित्वेन निश्चयो विशेषणीय इति चेत्, विशेष्यताम् । तथाप्यतिशयो-क्तिवित्तावतिप्रसक्तिरवारितैव । अनाहार्यत्वेन निश्चयविशेषणत्वे पुनरस्म-दुक्त एव पर्यवसिति: , मतुबर्थासंगतिश्च । तत्र ‘ कनकद्रवकान्तिकान्तया ’
इत्यत्र सीतातडितोर्बिम्बप्रतिबिम्बभाव: । युतत्वमिलितत्वयोश्च शुद्ध-सामान्यरूपता ।
‘रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । धाराधरधिया धीरं नृत्यन्ति स्म शिखावला: ॥’
अत्र स्निग्धत्वश्यामत्वयोरनुगामित्वम् ।
इति रसगड्राधरे भ्रान्तिमत्प्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP