भ्रान्तिमान् अलंकारः - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
‘ शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै-स्तत्रासोल्लासलीला: किसलयमनसा पाणय: कीरदष्टा: । तल्लोपायालपन्त्य: पिकनिनदधिया ताडिता: काकलोकै-रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥ ’ इति ।
तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमय-
सिद्धम् , येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । दोषान्तरमूला तु सा नालंकार इत्यनुपदमेव निरूपितम् । अपि च धर्मिणि कलशरूप-कानुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुद्वेजकमेव स-ह्लदयानाम् । नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलंकारान्तरं शोभते । यथा ‘ मुखकमलं तव चन्द्रवत्प्रतीम: ’ इति प्रागेव निवेदनात् । प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । ‘ तत्रासोलासलीला: किसलयमनसा पाणय: कीरदष्टा: ’ इत्यत्र विधेयाविमर्शाद्विधेयान्तरमा-काड्क्षितम् । कीरैर्दष्टा इति तु भाव्यम् । जाता इत्यध्याहारेऽपि विवक्षित-
स्याविधेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत । एवं ‘ तल्लोपायालपन्त्य: पिकनिनदधिया ताडिता: काकलोकै: ’ इत्यत्र न तावत्पिकनिनदास्ताडन-योग्या: काकानाम्, येन तद्धिया आलपन्त्यस्तैस्ताडयेरन् । नापि पिकनि-नदभ्रम आलपन्तीषु संभवति । संभवन्वा न सादृश्यमूल: । पिकनिकर-धियेति तु भाव्यम् । अथ तदालापेषु पिकनिनदबुद्धेरपि तासु पिक-बुघ्द्युत्पादनद्वारा संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया पिकनिनदधीप्रयोज्यकाककर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेवेति
N/A
References : N/A
Last Updated : January 17, 2018
TOP