उत्प्रेक्षा अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र जगज्जयसंभावनायामतिप्रसड्रवारणाय रमणीयतद्धर्मनिमित्तक-मिति । स्मितस्य संभावनोत्थापकत्वे‍ऽपि जगद्विजितरूपविषयविषयि-साधारणत्वाभावान्न दोष: । एतेन-
‘ प्राय: पतेद्दयौ: शकलीभवेद्‍ ग्लौ: सहाचलैरम्बुधिभि: स्खलेद्नौ: । नूनं ज्वलिष्यन्ति दिश: समस्ता यद्‍ द्रौपदी रोदिति हा हतेति ॥’
अत्रापि रोदनकारणीभूतकेशग्रहणादिजन्यपापनिमित्तोत्थापुतायां स्वर्ग-पतनसंभावनायां नातिप्रसड्र: । प्राय: स्थाणुनानेन भवितव्यम्‍, नूनं पुरुषेणानेन भाव्यम्‍, दूरस्थोऽयं देवदत्त इवाभाति, इत्यादौ निश्चलत्व-चञ्चलत्वादिसाधारणधर्मनिमित्तायां संभावनायामतिप्रसड्र: स्यात्‍ , अतो रमणीयत्वं धर्मगतमुपात्तम्‍ । रूपकवित्तावतिप्रसड्रवारणाय संभावन-
मिति । अत्र तादात्म्येन संसर्गेण धर्म्युत्प्रेक्षाया: संसर्गान्तरेण धर्मोत्प्रेक्षायाश्च संग्रहायैकोक्त्या लक्षणद्वयं विवक्षितम्‍ ।
सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च । इव, नूनम, मन्ये, जाने, अवेमि, ऊहे, तर्कयामि, शड्के, उत्प्रेक्षे, इत्यादिभि: क्यडाचारक्किवा-दिभि: प्रतिपादकै: सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा । यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम६, तत्र प्रतीयमाना । यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम्‍, तत्र संभावनामात्रमेव, नोत्प्रेक्षा ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP