उत्प्रेक्षा अलंकारः - लक्षण १४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यथा वा-
‘ विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मी: । कपोलपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिशमुत्तराख्याम् ॥’
इहापि विषयविषयिधर्मविशेषणयोरलकालकयो: श्रवणवैश्रवणयोश्च श्लेषेणाभेदे धर्मस्य साधारण्यम ।
यथा व-
‘ नासल्ययोगो वचनेषु कीर्तै तथार्जुन: कर्मणि चापि धर्म: । चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्रा: ॥’
अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्व-रूपो विषयिधर्म: श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुण-पुण्यपरमेश्वराणामभेदसंपादनद्वारा विषयसाधारणीकृत: ।
‘ स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम् । मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षते ॥’
अत्र वल्लभेक्षणस्य मनस्युत्प्रेक्षायां तन्निमित्तमन्त: प्रदेशाद्वहिरागमन-मपेक्ष्यम् । तच्च बहि:प्रदेशसंबन्धरूपं माणिक्यमात्रवृत्ति मनसो न संभवतीति माणिक्यापहनुत्या मनोगातं क्तियते । बिम्बप्रतिबिम्बभावस्तु ‘ कलिन्दजानीरभरेऽधर्मग्रा ’ इत्यत्रैव निरूपित: ।
‘ माधुर्यपरमसीमा सारस्वतजलधिमथनसंभूता । पिबतामनल्पसुखदा वसुधायां ननु सुधा कविता ॥’
अत्र कवितायां माधुर्यपानयोर्मुख्ययोरसंभवादास्वादश्रवणयोरमुख-
योरुपचारेण मुख्याभ्यां साधारणीकरणम् । लक्षणया शक्याभेदेन लक्ष्यबोधनात् ।
अभेदाध्यवसायमात्रं यथा प्रागुदाह्लतायां हेतूत्प्रेक्षायाम् । ‘ व्यागु-ञ्जन्मधुकरपुञ्जमञ्जुगीताम् ’ इत्यत्र शाखानीचत्व-कंधरानमनयोरभेदा-ध्यवसाय एव त्रपाहेतूत्प्रेक्षानिमित्ततयोपात्तस्य कंधरानमनस्य नीचशाख-नतकंधरोभयसाधारणे बीजम् ।
एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतु: फलं वोत्प्रेक्ष्यते सोऽनेन प्रकारेण साधारणीकृतो निमित्तमित्यसकृदावेदितम् ।
एवं क्कचिदुपात्तो धर्मो विषयविषयिसाधारण्याभावादसुन्दरत्वाद्वा स्वयमुत्प्रेक्षणं साक्षादुत्थापयितुमसमर्थोऽपि तदुत्थापनक्षमधर्मान्तरोत्था-पनेनानुकूल्यविधानादुपयुज्यते । यथा ‘ द्यौरञ्जनकालीभि: ’ इति प्रागुदाह्लते पद्ये दिवो जलदालीसमावृतत्वरूपो धर्म उपात्तो जगतो निर्लोचनवर्ग-सर्गत्वोत्प्रेक्षायां वैयधिकरण्यादप्रयोजकोऽपि स्वप्रयोज्यनिबिडान्धकार-प्रयुक्तचाक्षुषज्ञानसामान्यशून्यत्वस्य तथाविधोत्प्रेक्षानिमित्तस्योत्थापनेन ।
विषयोऽप्युपात्तो निरूपित एव । क्कचिदयमपह्नुतोऽपि भवति । यथा-
‘ जगदन्तरममृतमयैरंशुभिरापूरयन्नयं नितराम् । उदयति वदनव्याजात्किमु राजा हरिणशावनयनाया: ॥’
इति रसगंगाधर उत्प्रेक्षाप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP