उत्प्रेक्षा अलंकारः - लक्षण ८
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र गुणाभावस्य ।
‘ जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम् । वदनेन्दुरुचामिहाप्रचारादिव तन्वड्रि नितान्तकान्तिकान्तम् । ’
इह द्वितीयार्धे क्तियाभावस्य । प्रथमार्थे तु जात्यवच्छिन्नस्य जात्यवच्छिन्नाभावस्य वा स्वरूपोत्प्रेक्षैव ।
‘ न नगा: काननगा यद्रुदतीषु त्वदरिभूपसुदतीषु । शकलीभवन्ति शतधा शड्के श्रवणेन्द्रियाभावात् ॥’
इह श्रोत्रत्वस्य जातिगुणक्रियाभ्योऽतिरिक्तस्य विवेके क्तियमाणे आकाशस्वरूपतया तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा । निमित्तं क्तियाभाव । एवं हेतूत्प्रेक्षादिक् ।
अथ फलोत्प्रेक्षा-
‘ दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती । वक्षोजतायै किभु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपड् क्तिरेषा ॥ ’
अत्र वक्षोजत्वमवयववृत्ति । जातिस्तळूप्रत्ययार्थ: । त्वतलो: प्रकृतिप्रवृत्ति-निमित्ते भावे विधानात् । स एव चात्र तपश्चरणक्रियाया: साहजिक-
जलावस्थानाभिन्नतयाध्यवसिताया: फलत्वेनोत्प्रेक्ष्यते । न चात्र प्राप्ति-क्रियामन्तरेण जाते: शुद्धाया अफलत्वात्क्रियाया एव फलत्वमिति वाच्यम् । प्राप्ते: संसर्गतया तद्द्वारैव जात्यादे: फलत्वोपपत्ते: । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्ते: । अत एव-‘ब्राह्मण्याय तपस्तेपे विश्वामित्र: सुदारुणम् ’ इत्यादय: प्रयोगा: ।
गुणफलोत्प्रेक्षा यथा-
‘ वियोगवह्लिकुण्डेऽस्मिन् ह्लदये ते वियोगिनि । प्रियसड्रसुखायेव मुक्ताहारस्तपस्यति ॥’
क्तियाफलोत्प्रेक्षा यथा-
‘ हालाहलकालानलकाकोदरसंगतिं करोति विधु: । अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि [ गत: ] ॥ ’
अत्र विरहिवाक्येऽभ्यसनक्तियायास्तुमुना फलत्वं लभ्यते । एवं लक्ष्यानुसारेण यथासंभवमन्यदप्युदाहार्यम् ।
इह जात्यादयो हि भेदा: प्राचामनुरोधादुदाह्लता: । वस्तुतस्तु नैषां
चमत्कारे वैलक्षण्यमस्तीत्यनुदाहार्यतैव । चमत्कारवैलक्षण्यं पुनर्हेतुफल-स्वरूपात्मकानां त्रयाणां प्रकाराणामेवेति । प्रागुदाह्लतेष्वेव पद्येषु वाचका-नामिवादीनां त्यागे प्रतीयमाना, अर्थसामर्थ्यावसेयत्वात् । न तु व्यड्रयेति भ्रमितव्यम्, तस्या: प्रकृते प्रसड्राभावात् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP