व्यतिरेक अलंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
‘ महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयाम: । भवान्सहस्त्रै: समुपास्यमान: कथं समानस्त्रिदशाधिपेन ॥ ’
अत्रार्थी । त्रिर्दश त्रिदशास्त्रिंशत्, तेषामधिप: । ‘ संख्ययाव्ययासन्ना-दूराधिकसंख्या: संख्येये ’ इति बहुव्रीहौ, ‘ बहुव्रीहौ संख्येये-’ इति डचि
च तत्पुरुष: । वृत्तौ गतार्थत्वात्सुचो न प्रयोग: । त्रयो वा दश वा इति बहुव्रीहिर्वा । ‘ भवान्सदा रक्षितगोत्रपक्ष: समानकक्ष: कथमस्य युक्त: ’ इति , ‘ कथं निरस्ताखिलगोत्रपक्ष: समानकक्षस्तव युज्यते स: ’ इति वा कृते एकतरानुपादानम् ।
इदं तु बोध्यम्-इहोभयानुपादानभेदत्रयं दुरुपपादम् । वैधर्भानुपा-दाने हि किमाश्रय: श्लेष: स्यात् ? न च यत्र द्विजसुरालयमातरिश्वादि-
शब्दवेद्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्लेषो व्यतिरेकोत्थापकस्तत्रैत-दुदाहरणं सूपपादमिति वाच्यम् । तत्र स्वशब्दवेद्यस्यैव वैधर्भ्यस्य संभवात् । इत्थं च चतुर्विंशतिर्भेदा इति प्राचाभुक्तिर्विपुलोदाहरणाभि-ज्ञैर्यथाकथंचिदुपपादनीया । किं चोपमाप्रभेदा: सर्व एवात्र संभवन्तीत्यलं चतुर्विंशतिभेदगणनया ।
नन्वस्यालंकारस्य वैधर्म्यमूलस्योपभाप्रतिकूलत्वमेवोचितम्, न तूपमा-गर्भत्वम् । तस्या: साधम्यर्मूलकत्वात् । अस्य च तन्निषेधरूपेणैव प्रवृत्ते: ।
न चेष्टापत्ति: । सिद्धान्तभड्रप्रसड्रात् । सत्यम् । यद्रुणपुरस्कारेण यस्य यत्-सादृश्यनिषेध उत्कर्षपर्यवसायी तस्य तद्नुणपुरस्कारेण तत्सादृश्यस्याप्रतिष्ठा-नेऽपि गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारत्वात् । यदि च तत्सादृश्यसामान्य-
निषेधो विवक्षित: स्यात् गुणविशेषपुरस्कारोऽनर्थक: स्यात् । धनेनाय-मस्मादधिक इत्युक्ते विद्यया रूपेण कुलेन च सम इति सर्व जनीनप्रत्ययात् । एवं च प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोत्थापितेनोत्कर्षेण हत-प्रभमिव बदीकृतमिव न चमत्कारविशेषमाधातुं प्रभवतीति प्राचामाशय: ।
अत्र चालंकारे क्कचिच्छाब्दसादृश्यनिषेधाक्षिप्ताबुपमेयोत्कर्षोपमानाप-कर्षौ, क्कचिच्च शाब्देनोपमेयोत्कर्षेणाक्षिप्ताबुपमानापकर्ष-सादृश्याभावौ, क्कचित्तादृशेनोपमानापकर्षेणाक्षिप्ताबुपमेयोत्कर्ष-तदभावौ तथा । तत्राद्य:प्राचीनरीत्या सभेद उदाह्लत: । द्वितीयतृतीयावपि प्रायशस्तावद्भेदावेव । तत्र दिड्भात्रमुदाह्लियते-
‘ निशाकरादालि कलड्कपड्किलाद्नुणाधिकं निर्मलमाननं ते । अनल्पमाधुर्यकिरोऽधरादिमा गिरोऽधरा गुप्तरसा: कवीनाम् ॥ ’
अत्र पूर्वार्धे उपमेयोत्कर्ष: शाब्द: । उपमानापकर्ष्प-सादृश्याभावावा-क्षिप्तौ । द्वितीयार्थे उपमानापकर्ष: शाब्द: । उपमेयोत्कर्ष-सादृश्याभावा-वाक्षिप्तौ । एवं क्कचिहूयोस्त्रयाणां वा शाब्दत्वं संभवदपि नातीव ह्लद्य-मिति नोदाह्लतम् । क्कचिच्च त्रयमप्याक्षिप्रमेव ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP