व्यतिरेक अलंकारः - लक्षण ७
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यत्त्वलंकारसर्वस्वकार उपमानादुपमेयस्य न्यूनत्वेऽपि व्यतिरेकमाह । वैलक्षण्यमात्रस्यैव व्यतिरेकत्वात् । उदाजहार च-
‘ क्षीण: क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ’
यच्च तव्द्याख्याता विमर्शिनीकार: सपूर्वपक्षसिद्धान्तं वाचख्यौ; तथा-हि-‘ नन्वत्रोपमानादुपमेयस्य न्यूनत्वं व्यतिरेक इति न युक्तम् । तस्य हि वास्तवत्वेनाह्लद्यत्वात् । यौवनस्य चास्थिरत्वे प्रतिपाद्ये चन्द्रापेक्षयाधिकगु-णत्वमेव विवक्षितम्-यदेतच्चन्द्रवद्यातं सन्न पुनरायातीति । यतोऽत्र चन्द्र-वद्नतं सद्यौवन्म अदि पुनरागच्छेत्तत्प्रियं प्रति चिरमीर्ष्याद्यनुबन्धो युज्येत । इदं पुनर्हतयौवनं यातं सत्पुनर्नागच्छतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तर-तयैव प्रियेण सह जनु: सफलयितव्यम् । धिगीर्ष्याम् । त्यज प्रियं प्रति
मन्युम् । कुरु प्रसादम् । इति प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेन विवक्षितमिति न्यूनत्वमपि व्यतिरेक: । रसपोषकतया चास्यापि ह्लद्यत्वम् ’ इति । तदुभयमप्यसत् । अस्मिन्हि प्रियहितकारिण्या वचने चन्द्रादप्यधिकगुणत्वमेव विवक्षितम्, न न्यूनगुणत्वम् । चन्द्रो हि पुन:पुनरागमनेन लोके सुलभ: । अत एव न तादृशमाहात्म्यशाली । इदं च पुनर्यौवनमपुनरागमनेनातिदुर्लभतरत्वाद-त्युत्कृष्टमिति मानादिभिरन्तरायै: शठजनश्लाघनीयैर्विदग्धया भवत्या मुधा गमयितुमसांप्रतमिति तावदुपात्तगुणकृतमुत्कृष्टत्वं स्फुटमेव । सकलसुख-
N/A
References : N/A
Last Updated : January 17, 2018
TOP