व्यतिरेक अलंकारः - लक्षण ८

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


निदानत्वाद्यनुपात्तगुणकृतोऽप्युक्तर्षोऽत्र वाक्यार्थपरिपोषाय सह्लदयह्लदय-सरणिमवतरति । अन्यथा किमित्यस्य कदर्ययौवनस्य कृते मया मानाद्वि-रंस्यते, यातु नाम यौवनमिति प्रतिकूलेनार्थेन प्रकृतार्थस्यापुष्टतापत्ते: । किं च यत्र कापि शाब्द उपमेयस्यापकर्षस्तत्रापि स तस्य वाक्यार्थपर्य-वसायितयोत्कर्षात्मना परिणमति । यथा-
‘ द्रोहो निरागसां लोके हीनो हालाहलादपि । अयं इन्ति कुलं साग्रं भोक्तारं केवलं तु स: ॥ ’
अत्र हीन इत्यपकर्षो दारुणताधिक्यरूपोत्कर्षात्मना परिणमति ।
एवम्‍
‘ इन्दुस्तु परमोत्कृष्टो य: क्षीणो वर्धते मुहु: । धिगिदं यौवनं तन्वि क्षीणं न पुनरेति यत्‍ ॥ ’
इत्यादाद्युपात्तस्यापुनरावर्तित्वस्य तद्धर्मस्य मानप्रतिकूलतया द्वेषेणैव धिक्कारादिकथनम्‍ , न तु वास्तवापकर्षेण, दुर्लभत्वस्य प्रियसमागमोल्लास-कत्वस्य चोत्कर्षस्य स्फुटत्वात्‍ ।
यदपि कुवलयानन्दकृतालंकारसर्वस्वोक्तार्थानुवादकेन न्यूनतायामुदाह्लतम्‍ -
“-‘ रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यै: प्रियाया गुणै-
रत्वामायान्ति शिलीमुखा: स्मरधनुर्मुक्ता: सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयो:
सर्वं तुल्यमशोक केवलमहं धात्रा सशोक: कृत: ॥ ’
अत्र सशोकत्वेनाशोकापेक्षयापकर्ष: पर्यवस्यति ” इति, तदपि चिन्त्यम्‍ । रत्याद्यनुकूलतया कुतश्चिदड्राद्भूषणापसारणं यथा शोभाविशेषाय भवति , एवं प्रकृते उपमालंकारदूरीकरणमात्रमेव रसानुगुणतया रमणीयम्‍ , न व्यतिरेक: । अत एवासमालंकारं प्राञ्चो न मन्यन्ते । अन्यथा तवा-लंकारान्तरतया तत्स्वीकारापत्ते: ।
यथा-
‘ भुवनत्रितयेऽपि मानवै: परिपूर्णे विबुधैश्च दानवै: । न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम्‍ ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP