सहोक्ति अलंकारः - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्रोन्मीलननिमीलनयो: पद्मपत्राद्याश्रयभेदेन भिन्नयोरपि प्रकटत्वाप्रक-टत्वाद्येकोपाध्यवच्छिन्नतयाऽभिन्नीकृतयोरुपादानमित्यस्त्येकक्तियासंबन्ध: । अत एव न श्लेष: । तस्य प्रतिपाद्यतावच्छेदकभेद एव स्वीकारात् ।
एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभाव: । प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति ।
सहादिशब्दप्रयोगाभावेऽप्येषा संभवति । ’ वृद्धो यूना- ’ इति निर्देशेन तृतीयाया: साम्राज्यात् । परं त्विवादिशब्दरहितोत्प्रेक्षादिवद्नम्या । अप्रधान-
भावस्तु शाब्द एव । ननु कथमप्रधानभाव: शाब्द इत्युच्यते ? यावता आर्थ: क्तियाद्यन्वयितारूप: स स्यात् पदार्थान्तररूपो वा । उभयथप्यस्य वाचकशब्दाभावादशाब्दत्वमेवेति चेत् न । अस्ति तावत्सखण्डमखण्डं वा प्रधानत्वम् । यद्वशात् अयमस्मिन्नगरे प्रधानो मुख्य इत्यादयो
व्यवहारा आपामरमुल्लसन्ति । तदभावरूपे चाप्रधानत्वे ‘ सहयुक्ते-ऽप्रधाने ’ इति शास्त्रेण तृतीयाया: शक्ते: र्बोधनात्तस्य कथमशाब्दत्वम् । न च सहार्थेन युक्ते वस्तुतोऽप्रधाने तृतीयेति तस्यार्थ; न त्वप्रधानेऽर्थे वाच्ये इति । यथा च नोक्तार्थसिद्धिरिति वाच्यम् । एवं चाप्रधानग्रहणवैयर्थ्या-पत्ते: । ‘ पुत्रेण सहागत: पिता ’ इत्यादौ पित्रादिभ्योऽन्तरड्रत्वात्प्रथमो-
त्पत्तेरे वौचित्यात् । ‘ पुत्रेण सह पितुरागमनम् ’ इत्यादौ कारकविभक्ते: प्राबल्याच्च । अन्यथा ‘ षष्ठी शेषे ’ इत्यत्रापि विशेषणग्रहणापत्ते: । तस्माद्यथा
‘ हेतौ तृतीया ’ इत्यादिशास्त्रं हेतुशक्तिग्राहकमेवं ‘ सहयुक्तेऽप्रधाने ’ इत्य-प्रधानशक्तिग्राहकम् । यथैव तत्र प्रकृत्यर्थस्याभेदेन विभक्त्यर्थेऽन्वयस्त-थेहापि शक्यो वक्तुम् । धर्मिशक्तावपि कर्मत्वादीनामिवाप्राधान्यस्यापि शाब्दत्वमव्याहतमेव । षष्ठीस्थले तु विशेषणशब्दाभावान्नैवमिति स्फुटमेव
वैलक्षण्यम् । एतेन ‘ अप्रधानग्रहणं शक्यमकर्तुम् ’ इति वदन्तो मनोरमा-कारा: परास्ता: । उक्तप्रकारेण सार्थक्यसिद्धौ मुनिवचनस्य वैयर्थ्यकल्पना-या अन्याय्यत्वात् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP