सहोक्ति अलंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एवं क्रियाया: साधारणधर्मत्वे इयमुदाह्लता । गुणस्य तथात्वे यथा-
‘ मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाधरबिम्बमासीत्‍ किं चाभवन्मृगकिशोरदृशो  नितम्ब: सर्वाधिको गुरुरयं सह मन्मथेन ॥ ’
अत्र यद्यपि क्तियापि गुणेन सह समानधर्मतामनुभवति तथापि तस्या नान्तरीयकत्वेनासुन्दरत्वाद्‍गुणस्यैव पर्यवसाने समग्रभरसहिष्णुत्वम्‍ । शोणत्वाऽऽसक्तत्वाभ्यामधिकभारत्वोपदेशकर्तृत्वाभ्यां च भिन्नयोरप्युप-मेयोपमानगतयोर्निरुक्तगुणयो: श्लेषेण पिण्डीकरणात्सहभावोपपत्ति: । एवं श्लेषाभावेऽपि केवलाध्यवसानेन बोध्यम्‍ ।
यत्रैकमेवोपमेयं विलक्षणसहोक्त्यालम्बनं सा मालासादृश्यान्माला-सहोक्ति: । वैलक्षण्यं च सहोक्ते: स्वसमानाधिकरणसहोक्त्यन्तरापेक्षया
बोध्यम्‍ । ‘ केशैर्वधूनां ’ इत्यत्र केशै: सह कोषै: सह प्राणै: सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि कर्षणैक्यात्सहोक्तेरभेद: । सति वा यथाकथंचिद्भेदे न वैलक्षण्यम्‍ , धर्मैक्यात्‍ । धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्ष-णात्‍ । ‘ उन्मीलन्तो निमीलन्त: ’ इत्यत्र च धर्मवैलक्षण्येऽप्युन्मीलनधर्मो-त्थापितसहोक्तिघटकोपमानानां पद्मपत्रादीनामेव निमीलनधर्मोत्थापिता-यामपि सहोक्तौ घटकत्वान्न मालारूपत्वम्‍ । ‘ भाग्येन सह रिपूणां-’ इति तूदाहरणमेव ।
यथा वा-
‘ उन्मूलित: सह मदेन बलाद्वलारे-रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव पाणौ धृतो गिरिधरेण गिरि: पुनातु ॥ ’
अत्र नीलातपत्रमणिदण्डरुचो गिरिधारणोत्तरकालिकत्वादुत्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिर्निदर्शनानुप्राणिता च । पूर्वार्धगते तु प्रकारद्वयेनापि संभवत: ।

इति रसगंगाधरे सहोक्तिप्रकरणम्‍ ।


N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP