सहोक्ति अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


नन्वेवं सति सहोक्तेनिर्विषयत्वं स्यात्‍ । सहोक्त्यन्तरस्याप्यभेदाध्यवसा-नरूपातिशयेन कवलीकारादिति चेत्‍, न । अभेदाध्यवसानमूलायां हि सहोक्तावभेदाध्यवसानेन सहोक्तिरुपस्कियत इति न गुणेन प्रधानस्य तिर-स्कार: । अपि तु प्रधानेन गुणस्येत्युक्तदिशा सावकाशैव सहोक्ति: । गुण-
प्रधानभावश्च निराग्रहै: सूक्ष्मदृशावधानीय: । किं च परस्पराभेदाध्यव-सानमात्रमतिशय एव; नातिशयोक्ति: । तस्य श्लेषादावपि सत्त्वात्‍ । सा तूपमानेनोपमेयस्य निगरणम्‍ । एवं च ‘ वर्षन्ति, उन्मीलन्तो निमीलन्त: ’ इत्यादिष्वेकेनापरनिगरणाभावान्नातिशयोक्तिगन्धोऽपि । अतिशयमात्रं तु प्रायश: साधारणधर्मांशे बहूनामलंकाराणामुपस्कारकम्‍ । नहि ‘ शोभते चन्द्रवन्मुखं ’ इत्यादौ चन्द्रमुखशोभयोभयोर्वस्तुतो भिन्नयोरभेदाध्यवसानमन्त-
रेणोपमा:समुल्लसति । तस्मात्‍ ‘ कार्यकारणपौर्वापर्यविपर्ययमूल: सहोक्तेरेक: प्रकार: ’ इति सर्वस्वकारादीनामुक्तिराग्रहमूलैव । अभेदाध्यवसानमूलस्तु प्रकारो भवंतु नाम सहोक्तेर्विषय: । यदि तु दीपके तुल्ययोगितायां चोपमा-नोपमेययो: प्राधान्येन क्तियादिरूपधर्मान्वय: , इह तु गुणप्रधानभावेनैवेति विशेष: सन्नपि विच्छित्तिविशेषानाधायकतया नालंकारान्तरताप्रयोजक:, अपि तु तदवान्तरभेदताया: इति विभाव्यते, निरस्यते च प्राचीनमुख-दाक्षिण्यं तदा निविशतामियमप्युक्तालंकारेष्वेव । किंचिद्वैलक्षण्यमात्रेणैवा-लंकारभेदे वचनभड्रीनामानन्त्यादलंकारानन्त्यप्रसड्रादिति । सत्यम्‍ ,
गुणप्रधानभावालिड्रितस्य सहभावस्यालंकारान्तराद्विच्छित्तिविशेषमनु-भवन्त:प्राचीना एव सहोक्ते: पृथगलंकारतायां प्रमाणम्‍ । अन्यथा एवं जातीयोपप्लवेन बहु व्याकुलीस्यात्‍ । नैव प्रमाणीकुर्महे वयं मृषा मुकुलितविलोचनान्प्राच:, निवेश्यतां चेयमलंकारान्तरभवनोदरं वराकी इति तु प्रभुतैव केवला । न सह्लदयत्वम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP