समासोक्ति अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ समासोक्ति:-
यत्र प्रस्तुतधर्मिको व्यवहार: साधारणविशेषणमात्रोपस्थापि-ताप्रस्तुतधर्मिंकव्यवहाराभेदेन भासते सा समासोक्ति: ॥
साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतधर्मिकव्यवहाराभिन्नत्वेन भासमानप्रकृतधर्मिकव्यवहारत्वमिति चैकोक्ति: । शब्दशक्तिमूलध्वनि-वारणाय मात्रेति । तत्र विशेष्यस्यापि श्लिष्टतया प्रकृतेतरधर्म्युपस्थापन-द्वारा तादृशधर्मिकव्यवहारोपस्थापकत्वात्‍ । एवमपि
‘ आबध्नास्यलकान्निरस्यसितमां चोलं रसाकाड्क्षया-लड्कायावशतां तनोषि कुरुषे जड्घललाटक्षतम्‍ । प्रत्यड्रं परिमर्दनिर्दयमहो चेत: समालम्बसे वामानां विषये नृपेन्द्र भवत: प्रागल्भ्यमत्यद्भुतम्‍ ॥ ’
इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्लेषेऽतिव्याप्तेर्वारणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषणतयोपात्ते । व्यवहारविशेषणत्वेन तयोरुपा-दाने तु साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रक्रुतश्रृड्रारवृत्तान्ताभिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसड्र: । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्नतयोर्द्वयोरपि वृत्तान्तयो: प्रस्तुतत्वमिति कथमति-प्रसड्र इति वाच्यम्‍ । न स्यादतिप्रसड्र:, यदि वर्णनमात्र्म प्रस्तुतं स्यात्‍ । तत्सड्‍ग्रामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसड्र: ।
‘ मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ ’
इत्याद्यप्रस्तुतप्रशंसायामप्रकृतव्यवहार: साक्षादुपात्तवाद्विशेष्येणाप्यु-पस्थापित एवेति न तत्रातिव्याप्ति: ।
यदि तु जलक्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयं समासोक्ति: ।
तत्र तावत्‍-
‘ विबोधयन्करस्पर्शे: पद्मिनीं मुद्रिताननाम्‍ । परिपूर्णानुरागेण प्रातर्जयति भास्कर: ॥ ’
इत्यत्र किरणस्पर्शकरणक-मुकुलितपद्मिनीकर्मक-विकासानुकूलव्यापारव-दभिन्नो भास्करो जयतीति वाक्यार्थ: शक्त्यैव तावत्प्रतीयते । हस्तस्पर्श-करणकनायिकाविशेषकर्मकानुनयानुकूलव्यापारवदभिन्न इत्यादिश्चा-परोऽर्थ उभयत्रानुषक्तया तयैव शक्त्या , शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सह्लदया एव प्रमाणम्‍ । एवं च द्वाविमौ वाक्यार्थौ सव्ये-तरगोविषाणवदत्यन्तासंसृष्टौ यदि स्यातां तदा भगवतो भास्करस्य
कामुकत्वं कमलिन्या नायिकात्वं च सफलप्रतीतिसिद्धं विरुद्धं स्यात्‍ । द्विप्रधानत्वेन वाक्यभेदश्चापद्येत । यदि चापरोऽर्थ: प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य इत्येकत्र द्वयमिति विष-यताशाली बोध: स्यात्‍, न तु पूर्वोक्तानुपपत्तिपरिहार: । यदि च श्लेष-
मूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपाद्यते तथा-प्यश्लिष्टपदोपस्थितो भगवान्नायकत्वानाघ्रात एव । पद्मिनीशब्दस्थाने नलि-नीशब्दोपादाने सापि नायिकात्वेन कथं नाम प्रतीतिपथमियात्‍ ? । तस्मा-द्विशेषणसाम्यमहिम्रा प्रतीतो‍ऽप्रकृतवाक्यार्थ; स्वानुगुणं नायिकादिमर्थमा-क्षिप्य तेन परिपूर्णविशिष्टशरीर: सन्‍ प्रकृतवाक्यार्थे स्वावयवतादात्म्या-पन्नतदवयवोऽभेदेनावतिष्ठते । स च परिणाम इव प्रकृतात्मनैव कार्यो-पयोगी, स्वात्मना च रसाद्युपयोगी । अत्र चाप्रकृतार्थस्य पृथक्शब्दानु-
पादानादूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यम्‍ , पदार्थरूपकात्तु स्फुटमेव । आक्षिप्तार्थघटितत्वाच्च वाक्यार्थश्लेषात्‍ । एवं चात्र शक्त्याक्षेपाभ्यां सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरंतनानामाशय: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP