समासोक्ति अलंकारः - लक्षण ९

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इत्यत्रोपमारूपकयो: साधकस्य बाधकस्य चाभावात्संकरालंकारस्वीकर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव । तदस्वीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा, विशेषणसमासस्फूर्तौ तथा-विधमेव रूपकमिति प्रथमयोजनयैवाप्रकृतार्थावगतेर्द्वितीययोजनाया:
‘ परिफुल्लाब्जानीव नयनानि ’ इत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु ‘ शरद्वर्षासखी बभौ ’ इति चतुर्थचरणं निर्मीयते तदा तु शरन्मात्र-वृत्तेर्वर्षासखीत्वस्योपादानादब्जचन्द्रिकाहंसप्रधानस्योपमितसमासस्याव-श्यकत्वात्प्रथमप्रादुर्भूतया नयनहासहाराक्षिप्तकामिनीरूपोपमानिकया अत एवैकदेशविवर्तिन्योपमयैव निर्वाह इति निवेदितमपि सह्लदयप्रीतये पुनर्निवेदितम्‍ ।
‘ अथोपगूढे शरदा शशाड्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽड्रनानां नष्ट:परि भ्रष्टपयोधराणाम्‍ ॥ ’
इति कस्यचित्पद्ये प्रावृष एकदेशविवर्तिरूपकेणाड्रनात्वसिद्धिरिति नोत्तरा-र्धगतार्थान्तरन्यासानुपपति: । प्रथमचरणे तूपगूहनसाम्यादस्तु नाम समासोक्ति: ।
यत्तु कुवलयानन्दे “ सारूप्यादपि समासोक्तिर्ट्टश्यते । यथा-
‘ पुरा यत्र स्त्रोत: पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभाव: क्षितिरुहाम्‍ । बहोर्ट्टष्टं कालादपरमिव मन्ये वनमिदं निवेश: शैलानां तदिदमिति बुद्धिं द्रढयति ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP