समासोक्ति अलंकारः - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
‘ निशामुखं चुम्बति चन्द्र एष: इत्यादौ निशाचन्द्रशब्दयोरश्लिष्टत्वान्मुख-चुम्बनमात्रस्य च पुत्रादिसाधारण्येन कथ्म तावन्नियनायकाक्षेपकत्वम् , कथं वाऽऽक्षिप्तस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वय:, न भेदेन चुम्बनादौ । तथात्वे च तयोर्नायकताताटस्थ्ये रसानुद्वोधापत्ते: । तस्मात् ‘ निशामुखं चुम्बति चन्द्रिकैषा ’, ‘ अहर्मुखं चुम्बति चण्डभानु: ’ इत्यादा-
वप्रतीयमानं नायकत्वं प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्रकृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते । एवं च निशाशशिनोर्नाय-कत्वसिद्धि: श्र्लिष्टविशेषणै:, व्यञ्जनव्यापारेणैवाप्रकृतार्थबोधनम्, शक्ते: प्रकरणादिना नियन्त्रणात् । तदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्यार्थ-तादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते । गुणीभूतव्यड्रयभेदश्चायमिति तु रमणीय: पन्था: ।
अलंकारसर्वस्वकारस्तु-‘ विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रस्तु-तावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वाच्च व्यवहारसमारोप:, न तु रूपसमारोप: । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतरूपरूपित्वाद्रूपकमेव स्यात् ’ इत्याह । तदेतदुक्तिमात्ररमणीयम् । अप्रकृतव्यवहार: प्रकृतकर्तरि नायकादिकस्वकर्तृविशेषित आरोप्यते तदविशेषितो वा ? नाद्य: । एवं च
सति चन्द्रादेर्नायकव्यवहाराश्रयत्वेन नायकसाम्यं सिध्येत् । तच्च श्लेषादि-भित्तिकाभेदाध्यवसायेन व्यवहाराभेदं प्रतिपिपादयिषत: कवेरनभिप्रेत-मेव । अभिप्रेतं तु नायकत्वम् । तच्च नायकस्य व्यवहारविशेषणत्वे न सिध्यति । किं च ‘ निशामुखं चुम्बति चन्द्र: ’ इत्यत्र चन्द्रे नायकव्यव-हारसमारोप एव, न नायकत्वारोप: । एवमेव निशायामपि न नायिका-त्वारोप: , तुल्यन्यायत्वात् । एवं च मुखचुम्बनमात्रस्य नायिकानिर्मुक्त-स्यासुन्दरत्वान्नायकासाधारणव्यवहारत्वायोगाच्च किमारोपेण ? यदि च
निशायां स्त्रीलिड्रव्यड्रयं नायिकात्वमिति निरीक्ष्यते तदा चन्द्रगतपुंलिड्र-व्यड्रयं नायकत्वमपि निरीक्ष्यताम् । न द्वितीय: । नायकसंबन्धित्वेना-ज्ञातस्य मुखचुम्बनमात्रस्याह्लद्यत्वात् । ‘ तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ’ इति निदर्शनातो वैलक्षण्यायास्मदु क्तवैधर्म्यस्यैवास्थेयत्वाच्च । शिष्टमनुपदमेव वक्ष्याम: ।
यतु सर्वस्वकाराज्ञानुवर्तिना कुवलयानन्दकृता सपूर्वपक्षसिद्धान्तमु-क्तम्- “ अत्र च विशेषणसाम्यात्सारूप्याद्वा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रकृते विशेष्ये तत्समारोपार्थंम् । सर्वथैव प्रस्तुतानन्वयिन: कविसंरम्भ-गोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुता-हेतु: । न तु रूपक इव प्रस्तुते अप्रस्तुतसमारोपोऽस्ति । ‘ मुखं चन्द्र: ’ इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रशब्दसमभिव्याहारवत् ‘ रक्तश्चुम्बति चन्द्रमा: ’ इत्यादौ समासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वा-चकपदसमभिव्याहारस्याभावात् । न चेह ‘ निरीक्ष्य विद्युन्नयनै: पयोदो
मुखं निशायामभिसारिकाया: ’ इत्यत्र निरीक्षणानुगुणनयनोपादानं यथा पयोदस्य द्रष्ट्टपुरुषत्वस्य गमकं तथा किंचिज्जारत्वस्यास्ति । न वा ‘ त्वय्या-गते किमिति वेपत एष सिन्धुस्त्वं सेतुमन्थकृदत: किमसौ बिभेति ’ इत्यत्र सेतुमन्थकृत्त्वं विष्णो: कार्य यथा राज्ञो विष्णुत्वस्य तथा किंचिदस्ति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP