श्लेष अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्राशी:प्रकरणे तुष्टिजननसमर्थत्वेन लक्ष्मी-भगवन्नाभिकमलयोरु-भयोरपि प्रकृतत्वात्प्रकृतमात्राश्रोतोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभड्र: । विशेष्ययोरश्र्लिष्टत्वेऽप्ययं संभवति । यथात्रैव ‘ पायादाद्यं कमलमथवा योगमायास्वरूपम्‍ ’ इति तुरीयचरणनिर्माणे ।
अयमेवाभड्रात्मको यथा-
‘ करकलितचक्रघटनो नित्यं पीताम्बरस्तमोऽराति: । निजसेविजाडयनाशनचतुरो हरिरस्तु भूतये भवताम्‍ ॥ ’
विशेष्ययोरश्लिष्टत्वे यथा ‘ जाडयहरणो विष्णु: सूर्यश्च व: पातु ’ इति तस्यैव शेषे कृते ।
अर्थश्लेषो यथा
‘ अर्जुनस्य गुरुर्मायामनुज: पुमान्‍ । गुञ्जापुञ्जधर: पायादपायादिह कोऽपि व: ॥ ’
एवमेते त्रयोऽपि प्रकृतविषया एव भेदा: ।
‘ हरिकरसड्रादधिकं रमणीयाप्यतुलरागसंवलिता । सुन्दरि तवाननाग्रे कमलाभा विगलितप्रतिभा ॥ ’
अयमप्रकृतमात्रविषय: । प्रकृतस्याननस्य श्लेषाविषयत्वात्‍ । कमला-भेति विशेष्यांशे, अधिकमिति विशेषणांशे च सभड्र: , अन्यत्राभड्र: ।
अप्रकृतयोर्विशेष्ययोरश्लिष्टत्वे यथात्रैव ‘ कमलाया: कमलस्य च शोभ गलिता तवाननस्याग्रे ’ इत्युत्तरार्धनिर्माणे ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP