श्लेष अलंकारः - लक्षण ८

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


सोऽयं श्लेष: सभड्रोऽभड्रश्चार्थालंकार एवेत्यौद्भटा: । उभावप्येतौ शब्दा-लंकारौ, शब्दस्य परिवृत्त्यसहत्वादन्ययव्यतिरेकाभ्यां तदाश्रितत्बावधार-णात्‍ । तृतीयस्त्वर्थालंकार:, अर्थमात्राश्रितत्वात्‍ । इति मम्मटभट्टा: । अन्वयव्यतिरेकाभ्यां हि हेतुत्वावगमो घटं प्रति दण्डादेरिवास्तु, न त्वा-श्रयत्वावगम: । स तु पुनस्तद्‍वृत्तित्वज्ञानाधीन: । इह हि सभड्रश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन, अभड्रस्य चार्थद्वयवृत्तित्वमेकवृन्तगत-फलद्वयवच्च स्फुतमेवेत्येकस्य शब्दालंकारत्वमपरस्यार्थालंकारत्वम्‍ । यद्यपि द्वितीयस्यापि ‘ प्रतिप्रवृत्तिनिमित्तं शब्दभेद: ’ इति नये शब्दद्वयवृत्तित्वाच्छ-
ब्दादलंकारत्वमुचितम्‍, तथापि शक्ततावच्छेदकानुपूर्व्यभेदादभेदाध्यवसा-नाच्छब्दद्वयवृत्तित्वज्ञानं दु:शकम्‍ । अन्यथा ‘ प्रत्यर्थ्म शब्दनिव्वेश: ’ इति नये पराभिमतोऽर्थश्लेषोऽपि शब्दालंकार एव स्यात्‍ । इत्यलंकारसर्वस्व-कारादय: ।
अयं चोपमेव स्वतन्त्रो‍ऽपि तत्र तत्र सकलालंकारानुग्राहकतया स्थित: सरस्वत्या नवं सौभाग्यमावहन्नानाविधेषु लक्ष्येषु सह्लदयैर्विभावनीय इति ।

इति रसगंगाधरे श्लेषप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP