श्लेष अलंकारः - लक्षण ७
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यच्चाप्युच्यते “-‘ अयमतिजरठा : ’ - इत्यादिसमासोक्ताविव गूढश्लेषोस्तु ” इति, तदपि गर्भस्रावेण गलितम् । श्लिष्टविशेषणायां, समासोक्तावपि व्यक्त्यैवाप्रकृतार्थप्रतीतिस्वीकारात् । अत एव ध्वनिकृता ‘ गुणीभूत-
व्यड्रयभेद: समासोक्ति: ’ इत्युक्तम् । ‘ समासोक्त्या श्लेषो बाध्यते ’ इत्युद्भट-प्रभृतिभिश्च । बाधो हि श्लेषस्य तत्राप्रवृत्तिमात्रम् । श्लिष्टशब्दप्रयोगस्तु तत्रोभयार्थतामात्रेणोपपादनीय इति न किंचिदेतत् ।
वयं तु ब्रूम:-अनेकार्थथले ह्यप्रकृताभिधाने शक्तेरुक्तिसंभवोऽ-प्यस्ति । योगरूढिस्थले तु सापि दूरापास्ता । यथा-
‘ चाञ्चल्ययोगि नयनं तव जलजानां श्रियं हरतु । विपिनेऽतिच्चञ्चलानामपि च मृगाणां कथं नु तां हरति ॥ ’
अत्र नैवाश्चर्यंकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणा-धिकेन तव लोचनेन शोभायास्तिरस्कार:, आश्चर्यकारी तु हरिणानां
तद्गुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोग-मर्यादया-मूर्खपुत्राणां धनहरणं नेतृभिश्चौरै: सुशकं न तु गवेष-काणामिति जलज-नयन-मृग-शब्देभ्य: प्रतीयमानोऽर्थ: कथं विना व्यञ्जना-व्यापारमुपपादयितुं शक्यते ?। यतो योगशक्ते रूढया दृढनिगडानियन्त्रिता-ताया नास्ति स्वातन्त्र्यम् । अत एव पड्कजादिपदेभ्य: पड्कजनिकर्तृत्वेन कुमुदशैवलदिबोधो लक्षणयैव । तादृशशक्तिज्ञानानां पद्मत्वप्रकारकबोध-
स्यैव कार्यतावच्छेदकत्वादित्युक्म नैयायिकै: । अत एव च ‘ ईशानो भूत-भव्यस्य स एवाद्य स उ श्व: ’ इति वेदान्तवाक्ये किमैश्वर्यविशिष्ट: कश्चि-ज्जीव: प्रतिपाद्य ईश्वरो वेति संशये प्राप्ते ‘ शब्दादेव प्रमित: ’ इति सूत्रित-मुत्तरमीमांसाकारैर्व्यासचरणै: । तस्मात्प्रागुक्तपद्येऽप्रकृतचोरव्यवहारो न शक्तिवेद्य: , अपि तु व्यक्तिवेद्य एव । मुख्यार्थबाधाद्यभावाल्लक्ष्योऽपि न
शक्यो वक्तुम् । तात्पर्यार्थबाधस्तु तात्पर्यार्थबोधोत्तरबोध्य: । स एव
तु कथ्म स्यादिति व्यञ्जनैव शरणीकरणीया । नहि चोरव्यवहारोऽत्र वक्तुर्विवक्षित इति ज्ञाने श्रोतु: कश्चिदुपायोऽस्ति ऋते सह्लदयतो-न्मिषितादस्माव्द्यापारात् ।
इदं पुनरिहावधेयम्-‘ रागावृतो वल्गुकराभिमृष्टं श्यामामुखं चुम्बति चारु चन्द्र: ’ इत्यादौ तावत्स मासोक्तिरिति निर्विवादम् । चन्द्रपदस्थाने राजेति कृते तु शब्दशक्तिमूलो ध्वनिरिति च । तदत्रोभयत्रापि श्लिष्टविशेषण-माहात्म्यादप्रकृतव्यवहारस्य प्रतीयमानस्य तुल्यत्वात्कथमेकत्र गुणी-भावोऽन्यत्र प्राधान्यं च स्यात् । प्रकृतस्य प्राधान्यादप्रकृतस्य तु तदुप-
स्कारकत्वेनोभयत्रापि गुणभावौचित्यात् । नहि विशेष्यस्य श्लिष्टतामात्रेण व्यड्रयस्य प्राधान्यम्, अश्लिष्टत्वे चाप्राधान्यं शक्यं संपादयितुम् । नाय-कत्वप्रतीतिरपि क्कचिदर्थशक्तिमूलेन व्यञ्जनेन, क्कचिच्छब्दशक्तिमूलेन तुल्यैव । यैरपि समासोक्तौ प्रकृतधर्मिणि नायकत्वादे: प्रत्ययो नाभ्युपेयते, अपि तु नायकादिव्यवहारस्यैव, ध्वनै चाभ्युपेयते, तेषामपि व्यड्रयस्यै-कत्र गुणत्वमन्यत्र प्राधान्यं च कस्य हेतो: स्यात् ? । प्रकृताप्रकृतयोरौ-पम्यं गम्यमुच्यतामभेदो वा, सर्वथैव तस्य प्रकृतोपस्कारकत्वाद्गुणीभाव एवोचितो न प्राधान्यम् । अन्यथा समासोक्तावपि व्यड्रयस्य प्राधान्या-पत्ते: । तस्माच्छ्ळिष्टश्लिष्टविशेष्या समासोक्तिरेवेयम् । अपराड्ररूपगुणीभूत-व्यड्रयभेद इत्यपि शक्यते वक्तुं यदि प्राञ्चो न कुप्यन्ति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP