अप्रस्तुतप्रशंसालंकारः - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यथा वा-
‘ तावत्कोकिल दिवसान्यापय विरसान्वनान्तरे निवसन् । यावन्मिलदलिमाल: कोऽपि रसाल: समुल्लसति ॥ ’
अत्र वृक्षपक्षिणो: संबोधनानुपपत्त्या प्रतीयमानांशतादात्म्यमपेक्ष्यते । ‘ मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ ’ अत्र त्यागानौचित्यहेतुत्वेन कमलिन्या: स्तुतिरूपं विशेषणमुपात्तम् । तच्च न संभवति । नहि भ्रमरे श्यामत्वादिर्दोष:, कमलिन्या: शोणत्वा-दिर्वा गुण:, येन स्तुति: स्यात् । अतो वाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्ष्यते । पूर्वत्रांशेन, इह तु साकल्येनेति
विशेष: । क्कचिच्च प्रतीयमानमपि किंचिदंशे वाच्यतादात्म्यम्, वाच्यं च किंचिदंशे प्रतीयमानतादात्म्यमपेक्षते । यथा-
‘ सरजस्कां पाण्डुवर्णां कण्टकप्रकराड्किताम् । केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप: ॥ ’
अत्र यथा सरजस्कत्वं वाच्यप्रतीयमानयोरपि सेवनानौचित्ये निमित्तम्, न तथा पाण्डुवर्णत्वकण्टकितत्वे । यत: पाण्डुवर्णत्वं केतक्यां न दोष:, प्रत्युत गुण एवेति पाण्डुरत्वांशे केतक्या नायिकातादात्म्यम-
पेक्ष्यते । नायिकायां च कण्टकितत्वांशे केतकीतादात्म्यम् । पुलकितत्वस्य कामिनीत्यागाननुगुणत्वात्प्रत्युत तत्सेवनानुणत्वात् ।
कार्येण कारणं गम्यं यथा-
‘ किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल क्तीडाकुण्डलितभ्रु शोणनयने दोर्मण्डलं पश्यति । नानाभूषणरत्नजालजटिलास्तकालमेवाभव-न्विन्ध्यक्ष्माधर-गन्धमादनगुहासंबन्धिनो भूरुहा: ॥ ’
N/A
References : N/A
Last Updated : January 17, 2018
TOP