अप्रस्तुतप्रशंसालंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र विन्ध्यारण्यतरुभूषणेनारिपलायनं गम्यते । यदि तु वक्ष्यमाण-रीत्या पर्यायोक्तालंकारस्यायं विषय इत्युच्यते, तदेदं विविक्तभुदाहरणम्-
‘ नितरां परुषा सरोजमाला न मृणालनि विचारपेशलनि । यदि कोमलता तवाड्रकानामथ का नाम कथापि पल्लवानाम् ॥ ’
अत्र पल्लवादितिरस्कारेण कार्येण तदड्रानां सौकुमार्यातिशय: कारणम् । कार्यकारणभावश्चेह ज्ञानयो: । तेन पारुष्यस्य मृणालगतत्वेन ज्ञायमानस्य स्वरूपतस्तदड्रसौकुमार्याजन्यत्वेऽपि न क्षति: ।
कारणेन कार्यं गम्यं यथा-
‘ सृष्टि: सृष्टिकृता पुरा किल परित्रातुं जगन्मण्डलं त्वं चण्डातप निर्दयं दहसि यज्ज्वालाजटालै: करै: ।
संरम्भारुणलोचनो रणमुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितो दिल्लीधरावल्लभ: ॥ ’
अत्र राजवर्णनाड्रत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तद-ननुगुणत्वादप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकसूर्यमण्डलभेदनं गम्यते । यदि चात्र कारणं यथाकथंचित्प्रस्तुतमेवेत्युच्यते, तदेदमुदा-हरणम्-
‘ आनम्य वल्गुवचनैर्विनिवारितेऽपि रोषात्प्रयातुमुदिते मयि दूरदेशम् । बाला कराडुलिनिदेशवशंवदेन क्तीडाबिडालशिशुनाशु रुरोध मार्गम् ॥ ’
अत्र प्रवासाद्न्निवृत्तोऽस्मीति प्रस्तुतमप्रस्तुतेन कारणेन गम्यते ।
सामान्ये विशेषो यथा-
‘ कृतमपि महोपकारं पय इव पीत्वा निरातड्क: । प्रत्युत हन्तुं यतते काकोदरसोदर: खलो जगति ॥ ’
N/A
References : N/A
Last Updated : January 17, 2018
TOP