अप्रस्तुतप्रशंसालंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र सामान्यार्थेन प्रस्तुतो विशेषो गम्यते । उपमाप्यस्या आनुगुण्येन स्थिता ।
विशेषेण सामान्यं यथा-
‘ पाण्डित्यं परिह्लत्य यस्य हि कृते बन्दित्वमालम्बितं दुष्प्रापं मनसापि यो गुरुतरै: क्लेशै: पदं प्रापित: । रूढस्तत्र स चे न्निगीर्य सकलां पूर्वोपकारावलीं दुष्ट: प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥ ’
अत्र दुष्टेषु कृत उपकार: परिणामे न सुख्म जनयतीति प्रस्तुतं विशे-षेण सामान्यं गम्यते ।
यथा वा-
‘ हारं वक्षसि केनापि दत्तमज्ञेन मर्कट: । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमामनम् ॥ ’
अत्र मर्कटवृत्तान्तेनाप्रस्तुतेन । प्रस्तुतमनभिज्ञेषु रमणीयवस्तुसमर्पणं नाशाय भवतीति सामान्यं गम्यते । एवं पञ्चप्रकारेयमप्रस्तुतप्रशंसा प्राचा-मनुसारेण निरूपिता ।
वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति । यत्रा-त्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकारो निगदित एव । यत्र च स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येक: । यथा जलक्तीडाप्रकरणे
भ्रमरकमलिन्यादिषु पुर:स्थितेषु, नायके च स्वनायिकायामननुरक्ते पार्श्व-वर्तिनि, नायिकासख्या: कस्याश्चिदुक्तौ ‘ मलिनेऽपि रागपूर्णाम-’ इत्या- दिप्रागुदाह्लते पद्ये । अथात्र कथमप्रस्तुतप्रशंसा ? । वाच्यार्थम्य प्रस्तुतत्वे-नैतल्लक्षणानालीढत्वादिति चेत् । न । अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयी-भूतार्थातिरिक्तोऽर्थो विवक्षित: । स च क्कचिदत्यन्ताप्रस्तुत:, क्कचित्प्रस्तुत-श्चेति न कोऽपि दोष: । न च ध्वनिमात्रस्याप्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम् । अत एव तत्र सादृश्याद्यन्यतमप्रकारेणेति विशेषणमुपात्तमिति विभावनीयम् ।
एतेन ‘ द्वयो: प्रस्तुतत्वे प्रस्तुताड्कुरनामान्योऽलंकार: ’ इति कुवलयानन्दा-द्युक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरताकल्पने वाग्-भड्रीनामानन्त्यादलंकारानन्त्यप्रसड्र इत्यसकृदावेदितत्वात् । इदं तु बोध्यम्-अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितया अभिधया प्रतीयमाना-र्थस्य बलादाकृष्टत्वेन ध्वनित्वं न निर्बाधम् । द्वयो: प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव । एवं सादृश्यमूलप्रकारे द्वैतम् । कार्यकारणभाव-सामान्य-विशेषभावमूलास्तु चत्वार: प्रकारा गुणीभूतव्यड्रयस्यैव भेदा: । अभि-धादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनित्वप्रयोजकत्वात् । अथ
‘ आपेदिरेऽम्बरपथ्म परित: पतड्रा भृड्रा रसालमुकुलनि समाश्रयन्त । संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ ’
N/A
References : N/A
Last Updated : January 17, 2018
TOP