विरोधमूलालंकाराः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


उदाहरण-
‘ कुसुमानि शरा मृणालजालान्यपि कालायसकर्कशान्यभूवन्‍ । सुदृशो दहनायते स्म राका भवनाकाशमथाभवत्पयोधि: ॥ ’
अत्र पुर: स्फुरन्नपि जात्यादीनां विरोधो विरहिणीदु:खजनकत्व-विमर्शनान्निवर्तते ।
‘ त्वयि दृष्टे त्वया दृष्टे भवन्ति जगतीतले । महान्तोऽप्यणवो राजन्नणवश्च महत्तरा: ॥ ’
खलानामुक्तयो हन्त कोमला: शीतला अपि । ह्लदयानीह साधूनां छिन्दन्त्यथ दहन्ति च ॥ ’
‘ विचारिते महिमनि त्वदीये नित्यनिर्मले । परमात्मन्गगनमप्याधत्ते परमाणुताम्‍ ॥ ’
‘ हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च । यून: स्मरपराधीनान्निर्दया हन्त योषित: ॥  ’
‘ कान्तारे विलपन्तीनां त्वदरातिमृगीदृशाम्‍ । देवनानि समाकर्ण्य हरिद्भिरपि चुक्षुभे ॥ ’
इत्यादि स्वयमूह्यम्‍ ।
अत्र जात्यादिरिति धर्ममात्रं विवक्षितम्‍, उपलक्षणपरत्वात्‍ । तेन ‘ य: किल बालकोऽपि पुराणपुरुष: ’ , विशुद्धमूर्तिरपि नीलाम्बुदनिभ: ’ , जगद्धित-कृदपि जगदहितकृत्‍ ’ , ‘ अगोद्वारकोऽपि नागोद्धारक:’, इत्यादौ सखण्डो-पाधेरभावस्य च परिग्रह : । वस्तुतो जात्यादिभेदानामह्लद्यत्वाच्छुद्वत्वश्लेष-पूलत्वाभ्यां द्विविधो ज्ञेय: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP