विरोधमूलालंकाराः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाप्यसंगतम् । निपातानां शाब्दिकनये शक्तेरस्वीकारादिति चेत्, न । निरूढलक्षणाया
इव निरूढद्योतनाया अपि शक्तिसमकक्षत्वात् । अथ जात्योर्द्रव्ययोश्च विरोधालंकारो न भवितुमीष्टे । ‘ कुसुमानि शराश्चन्द्रो वाडवो दु:खिते ह्लदि ’ इत्यादावारोपमूलस्य रूपकस्यैवोल्लासात् । यदि च सत्यप्यारोपे विरोधाभास उच्यते, उच्यतां तर्हि ‘ मुखं चन्द्र: ’ इत्यत्रापि स एव । न च रूपकविषयस्य सर्वस्यापि विरोधेनाक्रान्तत्वान्निर्विषयत्वापत्त्या स्वविषये रूपकं विरोधस्य गुणादौ सावकाशस्यापवाद इति वाच्यम् । ‘ कुसुमानि शरा: ’ ,‘ मृणालवलयादि दवदहनराशि: ’ , ‘ चन्द्रो वाडव: ’ , ‘ शंकरचूडा-पगा कालिन्दी’ इत्यादौ त्वदभीष्टविरोधस्यासिद्धिप्रसड्रादिति चेत्, सत्यम् ।
इह हि अलंकारवर्गे यो यत्र सह्लदयचमत्कृतिपथमवतरति स एव तत्रालंकार इति निर्विवादम् । एवं च रूपके ‘ मुखं चन्द्र: ’ इत्यादौ यद्यप्यस्ति विरोध-स्तथापि न स तत्र प्रतिपिपादयिषित: । अपि तु चन्द्रनिष्ठाह्लादकत्वादि-सकलगुणानां मुखे प्रतिपत्त्यर्थं चन्द्राभेद एवेति स चमत्कारी, न विरोध: । प्रत्युत सन्नपि विरोधो विवक्षितार्थाननुगुणत्वानुदूषित इति नालंकार:,विद्यमानताया अकिंचित्करत्वात् । ‘ कुसुमानि शरा: ’ इत्यादौ तु विरहिण्या-दीनामवस्थाया अत्यद्भुतत्वस्य विवक्षितत्वात्तदानुगुण्यायान्तर्गर्भितोऽ-प्यार्थो विरोध: समुल्लसतीति स एवालंकार: । न चैवमपि रूपकस्थले विरोधोऽविवक्षितत्वान्मा नामाभूदलंकार:, विरोधस्थले तु ‘ कुसुमानि
शरा: ’ इत्यादौ विरोधोत्थापनार्थमभेदस्यावश्यं विवक्षणीयत्वादूपकापत्ति-रिति वाच्यम् । विरोधविवक्षानालिड्रितत्वस्य रूपकलक्षणे निवेश्यत्वात् ।
यद्वा अभेदस्यात्र विरोधोत्थापनार्थमुपात्तस्याचमत्कारित्वादूपकालंकार-त्वमयुक्तम् । तत्तदलंकारलक्षणेषु अलंकारसामान्यलक्षणे वा चमत्कारित्व स्योक्तत्वात् । यदि तु विरहिण्याद्यवस्थाया अत्यद्भुतत्वादि न विवक्षितम-प्यर्थश्च न गर्भीकृत:, किं तु पीडाजनकत्व-श्यामत्वाद्यतिशयमात्रं विव-क्ष्यते, तदात्र रूपकमेव । यदि वा नगरविशेषस्थितेरद्भुतत्वविवक्ष्या यत्र हि नारीणां मुखं चन्द्र इत्युच्यते, तदा विरोधाभास एवेति ध्येयम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP