विरोधमूलालंकाराः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
ननु ‘ सुप्तोऽपि प्रबुद्ध: ’ इत्यादौ यथैकेनार्थेन विरोधस्योत्थापनमपरेण च निवृत्ति:, एवम् ‘ गड्रायां घोष: ’, ‘ मञ्चा: क्रोशन्ति ’ ,‘ कुन्ता: प्रविशन्ति ’ इत्यादावपि शक्येन तस्योत्थानं लक्ष्येण च निवृत्तिरिति विरोधाभास-प्रसड्र: । न च दृष्टान्ते विरोधोत्थापक-निवर्तकयोरर्थयो: शक्त्यैवोप-स्थिति:, दार्ष्टान्तिके तु पृथग्वृत्त्येति वैलक्षण्यभिति वाच्यम् । सत्यपि वैलक्षण्ये त्वदुक्तविरोधामासलक्षणातिप्रसड्रस्यानिवारणात् । नहि
लक्षणे विरोधोत्थापक-निवर्तकयोरेकवृत्तिवेद्यत्वमेकजातीयवृत्तिवेद्यत्वं वा विवक्षितम् । तथा सति ‘ कुसुमानि शरा: ’ इत्यादौ प्राचीनरीत्याऽव्याप्ति-प्रसड्रादिति चेत्, विरोधस्यात्र प्रतिभानेऽपि कविसंरम्भागोचरत्वेना-चमत्कारित्वात् ।
अयं च विरोधालंकार: कुवलयानन्दकृता उत्प्रेक्षाशिरस्कोऽप्युदाह्लत: ।
यथा-
‘ प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत ॥ ’ इति ।
विरोधप्रतीत्यनन्तरं यत्रार्थान्तरप्रतिपत्या विरोधस्य समाधानं तत्र विरोधाभास इष्यते । यथा-‘रिपुराजिरसभावभञ्जनोऽप्यरिपुराजिरस-भावभञ्जन: ’ इत्यादौ । इह तूत्प्रेक्षया विरोधसमाधानात्मिकया मुखस्थि-तया विरोधस्योत्थानमेव भग्नमिति कथमनुत्तिष्ठन्नेव विरोधश्चमत्कार-मूलमलंकारभावं वहेत् ।
इति रसगंगाधरे विरोधप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP