मयूखे

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


मयूखे - मासपक्षतिथीनां च निमित्तानां च सर्वश: । उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत्‌ ॥
सिंहस्थपद्धतौ - “अब्दायनर्तुमासाश्च पक्षतिथ्यृक्षवारकम्‌ ।
योगश्च करणं चेति संकल्पे काल इष्यते” निर्णयसिन्धौ - स्मरेत्सर्वत्र कर्मादौ चांद्रं संवत्सरं तथा ।
नान्यं यस्माद्वत्सरादौ प्रवृत्तिस्तस्य कीर्तिता ।
अत्र चांद्रसंवत्सरपदं  मासादेरप्युप्लक्षणम्‌ - तदाह तत्रैव त्रिकाण्डमंडन :--- श्रीतस्मार्तक्रिया: सर्वा: क्रुर्याच्चांद्रमसर्तुषु इति ।
तेन संकल्पे चांद्रऋतुमासादीनां ग्रहणं भवति ।
अयं च संकल्प: पुण्यकर्मसु श्रौतस्मार्तादिकर्मस्वावश्यक: धर्मस्य हेतुभूतत्वात्‌ ।
न लौकिकद्दष्टार्थेषु शौचभोजनशयनादिषु इत्याचाररत्ने ।


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP