एकविंशोsध्यायः ।
एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.
यवनाद्यैर्विस्तरतः कथिता योगास्तु नाभसा नाम्ना ।
अष्टादशशतगुणितास्तेषां द्वात्रिंशदिह वक्ष्ये ॥१॥
नौच्छत्रकूटकार्मुकश्रृङ्गाटकवज्रदामनीपाशाः ।
वीणासरोजमुसला वापीहलशरसमुद्रचक्राणि ॥२॥
माला सर्पार्धेन्दू यवकेदारौ गदाविहगयूपाः ।
युगशकटशूलदण्डा रज्जुः शक्तिस्तथा नलो गोलः ॥३॥
सचराचरस्य जगतो योगैरेभिः प्रकीर्त्यते प्रसवः ।
आश्रयजातान् प्राहुर्माणिन्धा मुसलरज्जुनलयोगान् ॥४॥
गोलयुगशूलपाशा वीणाकेदारदामनीसंज्ञाः ।
सप्तैते संख्याख्याः पूर्वाचार्यैः समुद्दिष्टाः ॥५॥
द्वे चार्धयोगसंज्ञे भुजङ्गमाले पराशरेणोक्ते ।
आकृतिजाता विंशतिरपरैः कथिताश्च सावित्रे ॥६॥
आश्रययोगे जाता अमिश्रिते सौख्यलाभगुणयुक्ता: ।
अन्योन्यमिश्रिताश्चेद्विगतफलाः स्युस्तदा योगाः ॥७॥
नन्दन्ति स्वैर्भाग्यैर्नृपलब्धधना नृपप्रियाः ख्याताः ।
प्रायेण सौख्ययुक्ताश्चाकृतियोगेषु ये जाताः ॥८॥
परभाग्यलब्धसौख्या धनभाग्यैरेव जीवितास्तेषाम् ।
संख्यासंज्ञे जाता ये पुरुषाः सर्वतो विकलाः ॥९॥
क्वचित् स्वभाग्यैः क्वचिदेवमेवं क्वचित्पराद्भूपतितः फलं च ।
क्वचित्सुखं दुःखमतीव कष्टं समार्धयोगे पुरुषो लभेत ॥१०॥
होरादिकण्टकेभ्यः सप्तर्क्षगतैः क्रमेण योगाः स्युः ।
नौच्छत्रकूटकार्मुकनिर्देशाः पूर्वयवनेन्द्रैः ॥११॥
लग्नादिकण्टकेभ्यश्चतुर्गृहावस्थितैर्ग्रहैर्योगाः ।
यूपशरशक्तिदण्डाः सत्याचार्यप्रिया नित्यम् ॥१२॥
सप्तर्क्षगैर्ग्रहेन्द्रैः केन्द्रादन्यत्र कीर्तितोsर्धशशी ।
केन्द्रप्रत्यासन्नैर्भवनद्वयगैर्गदा नाम ॥१३॥
लग्नास्तगतैः सौम्यैः पापैः सुखकर्मगैर्भवति वज्रम् ।
विपरीतैर्यवयोगो मिश्रैः पद्मं बहिःस्थितैर्वाsपि ॥१४॥
होरास्तगतैः शकटं चतुर्थदशमाश्रितैर्भवेद्विहगः ।
उदयान्त्यगैस्त्रिकोणे हल इति श्रृङ्गाटकं सलग्ने तत् ॥१५॥
राश्यन्तरितैर्लग्नात् षट्भवनगतैर्भवेच्चक्रम् ।
अर्थात्तथैव यातैश्चक्राकारो भवेज्जलधिः ॥१६॥
इत्याकृतिजा एते विंशतिसंख्या मया समुद्दिष्टाः ।
आश्रयजातान् वक्ष्ये यथामतं वृद्धगार्ग्यस्य ॥१७॥
उभयस्थिरचरसंस्थैः सर्वैर्नलमुसलरज्जवः क्रमशः ।
केन्द्रेषु सौम्यपापैर्माला सर्पश्च दलयोगौ ॥१८॥
एकभवनादिसंस्थैः संख्याख्याः स्युर्यथाक्रमं योगाः ।
गोलयुगशूलसंज्ञाः केदारः पाशदामनीवीणाः ॥१९॥
एतेषां फलयोगं कथयामि यथाक्रमं मुनिभिरुक्तम् ।
सर्वदशास्वपि फलदाः सकला एते बुधैश्चिन्त्याः ॥२०॥
सलिलोपजीवविभवा बह्वायाख्यातकीर्तयो दृष्टाः ।
कृपणा बलिनो लुब्धा नौसम्भूताश्चलाः पुरुषाः ॥२१॥
आनृतिककितनबन्धनपाला निष्किञ्चनाः शठाः क्रूराः ।
कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥२२॥
स्वजनाश्रयो दयावान् दाता नृपवल्लभः प्रकृष्टमतिः ।
प्रथमेsन्त्ये वयसि नरः सुखभाग्ययुतः सितातपत्रःस्यात् ॥२३॥
आनृतिकगुप्तिपालाश्चोराः कितवाश्च कानने निरताः ।
कार्मुकयोगे जाता भाग्यविहीना वयोमध्ये ॥२४॥
सुभगाः सेनापतयः कान्तशरीरा नृपप्रिया बलिनः ।
मणिकनकभूषणयुता भवन्ति योगेsर्धचन्द्राख्ये ॥२५॥
आद्यन्तवयसि सुखिताः शूराः सुभगा विरोगदेहाश्च ।
भाग्यविहीना वज्रे जाताः स्वजनैर्विरुद्धाश्च ॥२६॥
व्रतनियममङ्गलपरा वयसो मध्ये सुखार्थसंयुक्ताः ।
दातारः स्थिरवित्ता यवयोगभवाः सदा पुरुषाः ॥२७॥
स्फीतयशसो गुणाढ्याः स्थिरायुषो विपुलकीर्तयः कान्ताः ।
शुभयशसः पृथिवीशाः कमलभवा मानवा नित्यम् ॥२८॥
निधिकरणे निपुणधियः स्थिरार्थसुखसंयुताः सुरूपाश्च ।
नयनसुखसम्प्रहृष्टा वापीयोगे नरा जाताः ॥२९॥
रोगार्त्ताः कुललत्रा मूर्खाः शकटानुजीविनो निःस्वाः ।
स्वजनैर्मित्रैर्हीनाः शकटे जाता भवन्ति नराः ॥३०॥
भ्रमणरुचयो निकृष्टा दूताः सुरतानुजीविनो धृष्टाः ।
कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥३१॥
सततं मानार्थपरा यज्वानः शास्त्रयोगकुशलश्च ।
धनकनकरत्नसम्पत्संयुक्ता मानवा गदायान्तु ॥३२॥
प्रियकलहसमरसाहससुखिनो नृपतेः प्रियाः सुभगकान्ताः ।
आढ्या युवतिद्वेष्याः श्रृङ्गाटकसंभवा मनुजाः ॥३३॥
बह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगाः ।
बन्धुसुहृत्सन्त्यक्ताः प्रेष्याहलसंज्ञिते पुरुषाः ॥३४॥
प्रणताशेषनराधिपकिरीटरत्नप्रभाच्छुरितपादः ।
भवति नरेन्द्रो मनुजचक्रे यो जायते योगे ॥३५॥
बहुधनरत्नाः क्षितिपा भोगार्थयुता जनप्रियाश्चापि ।
उदधिसमुत्थाः पुरुषाः स्थिरचित्ताः सत्ववन्तश्च ॥३६॥
आत्मनि रक्षानिरतस्त्यागयुतो वित्तसौख्यसम्पन्नः ।
व्रतनियमसत्यनिरतो यूपे जातो विशिष्टश्च ॥३७॥
इषुकरणदस्युबन्धनमृगयावनसेवनेतिसोन्मादाः ।
हिंस्राः कुशिल्पनिरताः शरयोगे सम्प्रसूताः स्युः ॥३८॥
धनरहितविकलदुःखितनीचालसपेलवायुषः पुरुषाः ।
सङ्ग्रामयुद्धनिपुणाः शक्त्यां जाताः स्थिराः सुभगाः ॥३९॥
हतपुत्रदारनिःस्वाः सर्वजनैर्न्यक्कृताः स्वजनबाह्याः ।
दुःखितनीचाः प्रेष्या दण्डप्रभवा नराः सततम् ॥४०॥
नित्यं सुखप्रधाना वाहनवस्त्रार्थभोगसम्पन्नाः ।
कान्ताः सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥४१॥
विषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्व ।
परभुक्ताः पानरताः सर्पे जाता भवन्ति नराः ॥४२॥
अटनप्रियाः सुरूपाः परदेशेष्वर्थभागिनो मनुजाः ।
क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥४३॥
मानधनज्ञानयुताः कर्मोद्युक्ता नृपप्रियाः ख्याताः ।
स्थिरचित्ता मुसलोत्था भवन्ति शूराः सदा पुरुषाः ॥४४॥
ऊनातिरिक्तदेहा धनसंचयभागिनोsतिनिपुणाश्च ।
बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते ॥४५॥
दारिद्र्यालस्ययुता विद्याज्ञामानवर्जिता मलिनाः ।
नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥४६॥
पाषण्डभागिनो वा धनरहिता वा बहिष्कृता लोके ।
सुतमानधर्मरहिता युगयोगे मानवा जाताः ॥४७॥
तीक्ष्णालसधनरहिता हिंस्राः सुबहिष्कृता महाशूराः ।
सङ्रामलब्धशब्दाः शूले रौद्राः प्रजायन्ते ॥४८॥
सुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिताः ।
केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ॥४९॥
पाशे बन्धनभाजः कार्योद्युक्ताः प्रपञ्चकाराश्च ।
बहुभाषिणो विशीला बहुभृत्याः सम्प्रसूताः स्युः ॥५०॥
दामिन्यामुपकारी पशुगणयुक्तो धनेश्वरो मूढः ।
बहुसुतरत्नसमृद्धो धीरो विद्वान् प्रजातः स्यात् ॥५१॥
मित्रान्विताः सुवचसः शास्त्रपरा गेयवाद्यनिरताश्च ।
सुखभाजो बहुभृत्या वीणायां कीर्तिता मनुजाः ॥५२॥
इति कल्याणवर्मविरचितायां सारावल्यां नाभसयोगो नामैकविंशोsध्यायः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP