संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
चतुस्त्रिंशोsध्यायः

चतुस्त्रिंशोsध्यायः

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


रविदृष्टे प्राग्लग्ने विक्रान्तास्त्रीषु रोषणः क्रूरः ।
पितृपक्षलब्धविभवो नरेन्द्रसेवी भवेज्जातः ॥१॥
स्त्रीणां वश्यः सुभगो दाक्षिण्यमहोदधिः प्रचुरकोशः ।
चन्द्रेक्षिते विलग्ने मार्दवजलपण्यवान्भवति ॥२॥
साहससङ्ग्रामरुचिश्चण्डस्फुटबान्धवोsतिधर्मरतः ।
उदये कुजसन्दृष्टे भवति नरः स्थूलशेफश्च ॥३॥
बुधदृष्टे प्राग्लग्ने शिल्पकलाविद्यया समभिपूर्णः ।
भवति नरो विपुलमतिः कीर्तिकरो मानसंयुक्तः ॥४॥
इज्याव्रतनियमपरा नृपपूज्याः ख्यातकीर्तयो मनुजाः ।
लग्ने सुरगुरुदृष्टे सज्जनगुर्वतिथिसंयुक्ताः ॥५॥
वेश्यास्त्रीजनबहुलास्तरुणाः सम्पन्नभोगधनसौख्याः ।
शुक्रेक्षिते विलग्ने भवन्ति मनुजाः सुरूपाश्च ॥६॥
भाराध्वरोगतप्ताः क्रुद्धा वृद्धास्त्रिया युता विसुखाः ।
मन्देक्षिते विलग्ने मलिना मूर्खाश्च जायन्ते ॥७॥
पश्यन्ग्रहः स्वलग्नं सर्वं विदधाति सौख्यमर्थं च ।
प्रायो नृपप्रियत्वं पापः पापं शुभं च शुभः ॥८॥
एकेनापि न दृष्टं समस्तगुनवर्जितं लग्नम् ।
स्वगृहस्वभागसहितं जनयति खलु केवलं नित्यम् ॥९॥
द्व्यादिग्रहसन्दृष्टं प्रायेण सुखार्थदं भवति लग्नम् ।
एकेनापि शुभेन च न तु पापैरिष्यते सद्भिः ॥१०॥
सर्वैर्गगनभ्रमणैर्द्दृष्टे लग्ने भवेन्महीपालः ।
बलिभिः समस्तसौख्यो विगतभयो दीर्घजीवी च ॥११॥
लग्ने त्रयो विगतशोकविवर्द्धितानां
कुर्वन्ति जन्मशुभदाः पृथ्वीपतीनाम् ।
पापास्तु रोगभयशोकपरिप्लुतानां
बह्वाशिनांण सकललोकतिरस्कृतानाम् ॥१२॥
लग्नात्षष्ठमदाष्टमे यदि शुभाः पापैर्न युक्तेक्षिताः
मन्त्री दण्डपतिः क्षितरेधिपतिः स्त्रीणां बहूनां पतिः ।
दीर्घायुर्गवर्जितो गतभयो लग्नाधियोगे भवेत्
सच्छीलो यवनाधिराजकथितो जातः पुमान्सौख्यभाक् ॥१३॥
स्वगृहोच्चसौम्यवर्गे ग्रहः फलं पुष्टमेव विदधाति ।
नीचर्क्षरिपुगृहस्थो विगतफलः कीर्तितो मुनिभिः ॥१४॥
॥ इति लग्नचिन्ता ॥
रविरविजभूमितनयाः कुटुम्बसंस्था विलोकनाद्वाsपि ।
कुर्वन्ति धनविनाशं क्षीणेन्द्रुनिरीक्षिता विशेषेण ॥१५॥
रविभौमौ धनसंस्थौ त्वग्दोषदरिद्रताकरौ कथितौ ।
मन्दः कुरुते शुद्धो महार्थयुक्तं बुधेक्षितस्तत्र ॥१६॥
रविरपि विधनं जनयति यमेक्षितः शस्यतेsन्यदृष्टश्च ।
सौम्याः कुटुम्बराशौ बहुप्रकारं धनं दद्युः ॥१७॥
बुधदृष्टस्त्रिदशगुरुः कुटुम्बराशौ च निःस्वतां कुरुते ।
सोमतनयोsपि शशिना निरीक्षितो हन्ति सर्वधनम् ॥१८॥
चन्द्रोsपि धनस्थाने क्षीणोsपि बुधेक्षितः सदा कुरुते ।
पूर्वार्जितार्थनाशं निरोधमपि चान्यवित्तस्य ॥१९॥
शुक्रः कुटुम्बभवने चन्द्रेण निरीक्षितः प्रधनदाता ।
सौम्यग्रहेण दृष्टः स एव धनदः सदा ज्ञेयः ॥२०॥
॥ इति धनचिन्ता ॥
पापभवनं तृतीयं समस्तपापैर्युतं सहजहन्तृ ।
विपरीतमितः श्रेष्ठं संख्यां तेषां प्रवक्ष्यामि ॥२१॥
यावन्तो नवभागा यदागताः सहजराशौ तु ।
तत्संख्यां कुर्वन्ति च दृष्टास्त्वन्यैस्तथा बहवः ॥२२॥
तत्र स्थितो रविसुतः कुजेन दृष्टो विनाशयति जातान् ।
शुक्रो गुरुसंदृष्टः पुष्णाति सदैव दायादान् ॥२३॥
सौम्यो भास्करदृष्टः सुहृदां परिसंक्षयं सदा कुरुते ।
भावाध्याये कथितं शेषं परिकल्पयेदत्र ॥२४॥
॥ इति सहजचिन्ता ॥
सुतभवनं शुभयुक्तं शुभदृष्टं वा शुभर्क्षमिह येषाम् ।
तेषां प्रसवः पुंसां भवत्यवश्यं न विपरीते ॥२५॥
एकतमे गुरुवर्गे शुभराशोवौरसो भवेत्पुत्रः ।
लग्नाच्चन्द्रादथवा बलयोगाद्वीक्षितेsपि वा सौम्यैः ॥२६॥
संस्ख्या नवांशतुल्या सौम्यांशे तावती सदा दृष्टा ।
शुभदृष्टे तद्विगुणा क्लिष्टा पापांशकेsथवा दृष्टे ॥२७॥
सौरर्क्षे सौरगणो बुधदृष्टो गुरुकुजार्कदृग्घीनः ।
क्षेत्रजपुत्रं जनयति बौधोsपि गणो रविजदृष्टः ॥२८॥
मान्दं सुतर्क्षमिन्दुर्निरीक्षिते यदि शनैश्चरेण युतम् ।
दत्तकपुत्रोत्पत्तिः क्रीतस्य बुधेन चैवं स्यात् ॥२९॥
सप्तमभागे कौजे सौरयुते पञ्चमे सदा भवने ।
कृत्रिमपुत्रं विन्द्याच्छेषग्रहदर्शनान्मुक्ते ॥३०॥
वर्गे पञ्चमराशौ सौरे सूर्येण वाsत्र संयुक्ते ।
लोहितदृष्टे वाच्यो जातस्य सुतोद्यमप्रसवः ॥३१॥
चन्द्रे भौमांशगते धीस्थे मन्दावलोकिते भवति ॥
गूढोत्पन्नः पुत्रः शेषग्रहदर्शनं याते ॥३२॥
तस्मिन्नेव च भौमे शनिवर्गस्थे निरीक्षिते रविणा ।
पुरुष्यस्य भवति पुत्रोपविद्ध इति करुणमुनिवचनात् ॥३३॥
शनिवर्गस्थे चन्द्रे शनियुक्ते पञ्चमे सदा भवने ।
शुक्ररविभ्यां दृष्टे पुत्रः पौनर्भवो भवति ॥३४॥
चूडायदार्कसक्ता कला च तस्यैव पञ्चमे गेहे ।
रविदृष्टेsप्यथ सहिते कानीनः संभवति पुत्रः ॥३५॥
वर्गे रविचन्द्रमसोः सुतगेहे चन्द्रसूर्यसंयुक्ते ।
शुक्रेण दृष्टिमात्रे पुत्रः कथितः सहोढश्च ॥३६॥
पापैर्बलिभिर्युक्ते पापर्क्षे पञ्चमे सदा राशौ ।
जातोsपुत्रः पुरुषः सौम्यग्रहदर्शनातीते ॥३७॥
शुक्रनवांशे तस्मिन्शुक्रेण निरीक्षिते त्पपत्यानि ।
दासीप्रभवानि वदेच्चन्द्रादपि केचिदाचार्याः ॥३८॥
सितशशिवर्गे धीस्थे ताभ्यां दृष्टेsथवापि संयुक्ते ।
प्रायेण कन्यकाः स्युः समराशिगणेsपि चान्यथा पुत्राः ॥३९॥
लग्नाद्दशमे चन्द्रे सप्तमसंस्थे भृगोः पुत्रे ।
पापैः पातालस्थैर्वंशच्छेता भवेज्जातः ॥४०॥
भौमः पञ्चमभवने जातं जातं विनाशयति पुत्रम् ।
दृष्टे गुरुणा प्रथमं सितेन न च सर्वसंदृष्टः ॥४१॥
धनजनसुखहीनः पञ्चमस्थैश्च पापै -
र्भवति विकल एव क्ष्मासुते तत्र जातः ।
दिवसकरसुते च व्याधिभिस्तप्तदेहः
सुरगुरुबुधशुक्रैः सौख्यसंपद्धनाढ्यः ॥४२॥
॥ इति पुत्रचिन्ता ॥
रिपुभावे क्षितिसूनुर्मन्देन निरीक्षितो दिशति शत्रून् ।
शुभयुक्तः शुभदृष्टः शत्रुभयं चैव नात्यन्तम् ॥४३॥
क्षेत्रे ग्रहेन्द्रतुल्यां संख्यां तेषां विनिर्दिशेत्प्राज्ञः ।
भावाध्यायेsभिहितं विस्तरतश्चिन्तयेच्छेषम् ॥४४॥
॥ इति शत्रुचिन्ता ॥
शुक्रेन्दुजीवशशिजैः सकलैस्त्रिभिश्च
द्वाभ्यां कलत्रभवने च तथैककेन ।
एषां गहेsपि च गणेsपि विलोकिते वा
सन्ति स्त्रियो भवनवर्गखगस्वाभावाः ॥४५॥
एवं क्रूरैर्नाशो लग्नाच्चन्द्राद्भवेच्च बलयोगात् ।
शशिरविजयोः कलत्रे भार्या पुंसां पुनर्भूः स्यात् ॥४६॥
भवनाधिपांशतुल्या भवन्ति नार्यो निरीक्षणाद्वाsपि ।
एकैव रविकुजांशे गुरुबुधयोश्चापि जामित्रे ॥४७॥
प्रायेण चन्द्रसितयोर्वर्गे युक्तेsथवापि जामित्रे ।
दृष्टे वा बहुपत्न्यो भवन्ति शुक्रे विशेषेण ॥४८॥
गुरुशुक्रयोः स्ववर्णा रविकुजशशिभानुजैर्भवन्त्यूनाः ॥
शुक्रे वेश्याप्रायश्चन्द्रेsपि वदन्ति केतुमालाख्याः ॥४९॥
भौमे कलत्रसंस्थे नित्यं वियुतो भवेत्तदा पुरुषः ।
म्रियते वा शनिदृष्टे योषिदवश्यं न दृष्टेन्यैः ॥५०॥
द्यूने कुजभार्गवयोर्जातः पुरुषो भवेद्विकलदारः ।
धीधर्मस्थितयोर्वा परिकल्प्यं पण्डितैरेवम् ॥५१॥
लग्नाद्व्ययरिपुगतयोः शशाङ्कभान्वोर्वदन्ति पुरुषस्य ।
प्रभवं समस्तमुनयः क्रमेण पत्न्या सहैकतनयस्य ॥५२॥
लग्नस्थे रवितनये गण्डान्ते भार्गवे कलत्रगते ।
वन्ध्यापतिस्तदा स्याद्यदि न सुतर्क्षं सुभैर्युक्तम् ॥५३॥
लग्नव्ययदशमस्थैः पापैः क्षीणे निशाकरे धीस्थे ।
स्त्रीहीनो भवति नरः पुत्रैश्च विवर्जितो नूनम् ॥५४॥
यमभूमिजयोर्वर्गे द्यूनस्थे तदवलोकिते शुक्रे ।
जातो भवत्यवश्यं पत्न्या सह पुंश्चलः पुरुषः ॥५५॥
बुधभार्गवयोरस्ते स्त्रीहीनो जायते ह्यपुत्रश्च ।
दृष्टे शुभैश्च वाच्याः परिणतमयसः सदा प्रमदाः ॥५६॥
भार्गववाक्पतिसौम्यैः प्रमदाभवने शशाङ्कयुक्तैश्च ।
एकैकेन हि तेषां पुरुषस्य विभूतयो बहुलाः ॥५७॥
॥ इति कलत्रचिन्ता ॥
रविदृष्टे युक्ते वाsप्यायक्षेत्रे भवेत्सदा नृपतेः ।
भवति धनं युद्धाद्यैश्चोरघनचतुष्पदाद्यैश्च ॥५८॥
स्त्रीजनहस्तिप्रायं शशाङ्कवर्गे शशीक्षिते युक्ते ।
क्षीणे क्षयोsथ पूर्णे वृद्धिः स्यादायगे वृत्तेः ॥५९॥
हेमप्रवालभूषणमाणिक्यधनं कुजे भवेदेवम् ।
साह्सगमनागमनैः पावकशस्त्रैश्च वक्तव्यम् ॥६०॥
आये बुधेsपि वर्गे दृष्टे युक्तेsथवा भवेन्नित्यम् ।
शिल्पादिलेख्यकाव्यैर्युक्तिप्रायं तथा सुतराम् ॥६१॥
नगरजनयोगभोगैः ऋतुभिश्च तथा विशिष्टपुण्यैश्च ।
हेमप्रायं वित्तं जीवे पितरङ्गमाकीर्णम् ॥६२॥
वेश्यास्त्रीसंयोगैर्गमनागमनैर्धनं भवति पुंसाम् ।
आये सितेsपि चैव मुक्तारजतादि भूयिष्ठम् ॥६३॥
नगरपुरवृन्दयोगैः स्थावरकर्मक्रियाभिरपि वित्तम् ।
लोहखरवृंदबहुलं रविजेsपि तथाsस्य वर्गे च ॥६४॥
एवं फलनिर्देशः सौम्यैर्दृष्टे विशेषतो वाच्यः ।
क्रूरैश्च समुपघातो मिश्रैर्मिश्रस्तदा पुंसाम् ॥६५॥
सर्वग्रहयुतदृष्टे बहुप्रकारेण निर्दिशेद्वित्तम् ।
बलवान्यस्तत्र भवेदतिरिक्तं सम्प्रयच्छति च ॥६६॥
मित्रस्वगृहगतोर्धं स्वोच्चे पूर्णं तथास्तगः किञ्चित् ।
शत्रुगृहस्थश्चरणं ददाति विहगस्तदाये तु ॥६७॥
आजन्मतो नराणां भवति धनं निश्चितं यवनवृद्धैः ।
क्षितिपतिमाण्डलिकानामपरिमितं प्राह लोकाक्षः ॥६८॥
॥ इत्यायचिन्ता ॥
भानौ क्षीणे चेन्दौ व्ययभवने भूपतिर्हरति वित्तम् ।
भौमे बुधसंदृष्टो बहुप्रकारो भवेन्नाशः ॥६९॥
गुरुचन्द्रदानवेज्या व्ययभवने वित्तपोषणं कुर्युः ।
भूमितनयेन दृष्टा भावाध्यायोक्तमन्यच्च ॥७०॥
॥ इति व्ययचिन्ता ॥
लग्ने बुधद्रेक्काणे शशिना दृष्टे चतुष्टयस्थाने ।
जातो नृपतिकुलेष्वपि शिल्पी स्यान्निश्चितं मुनिभिः ॥७१॥
नीचे सौरनवांशे शुक्रेsन्त्ये रविशशाङ्कयोर्मदने ।
मन्देन विलोकितयोर्माता दासी महाकुलेsपि स्यात् ॥७२॥
सूर्याद्द्वितीयराशौ भास्करतनये खमध्यगे चन्द्रे ।
भौमे सप्तमभवने विकलोsस्मिन्सर्वदा जातः ॥७३॥
मध्ये पापग्रहयोश्चन्द्रे मदनस्थितेsर्कजे जन्तोः ।
श्वासक्षयविद्रधिना गुल्मप्लीहातिपीडितस्सुभगः ॥७४॥
सूर्यांशे यदि चन्द्रश्चन्द्रांशे भास्करो यदि श्लेष्मी ।
सममेकराशिगतयोर्दुर्बलदेहः सदा पुरुषः ॥७५॥
निधनधनारिव्ययगा रविचन्द्रकुजार्कजा नियतम् ।
नयनविघातं कुर्युर्बलवद्ग्रहदोषसंभूतम् ॥७६॥
धर्मायसहजसुतगाः पापाः सौम्यैर्न वीक्षिता जन्तोः ।
श्रवणविनाशं कुर्युः सप्तमसंस्थाश्च दन्तानाम् ॥७७॥
उदये दिनकरपुत्रे त्रिकोणभवने कुजे च सोन्मादः ।
क्षीणे शशिनि ससौरे याते वा व्ययगृहे जातः ॥७८॥
इति कल्याणवर्मविरचितायां सारावल्यां लोकयात्रा नाम चतुस्त्रिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP