संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
षट्त्रिंशोsध्यायः ।

षट्त्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


रश्मिप्रधानमेतद्यस्माच्छास्त्रं वदन्ति माणिन्धाः ।
तस्मात्प्रयत्नतोsहं कथयामि यथामतं तेषाम् ॥१॥
स्वोच्चस्थे दश सूर्ये नव चन्द्रे पञ्च भूमितनये च ।
पञ्चेन्दुजे सुरेड्ये सप्ताष्टौ भार्गवे शनौ पञ्च ॥२॥
एवं महेन्द्रशास्त्रे मणिन्धमयबादरायणप्रोक्ते ।
सप्त प्रत्येकस्था निर्दिष्टा रश्मयो ग्रहेन्द्राणाम् ॥३॥
अभिमुखरश्मिर्नीचाद्भ्रष्टः स्वोच्चात्पराङ्मुखो ज्ञेयः ।
अन्तरगतेsनुपातो यथा तथा संप्रवक्ष्यामि ॥५॥
न्यूने मण्डलशोध्यश्चक्रात्षद्भवनतो यदाभ्यधिकः ।
आत्मीयरश्मिगुणितात्षड्भक्ताद्रश्मयस्तस्मात् ॥६॥
मित्रद्वादशभागे द्विगुणास्त्रिगुणाः स्वके च दीधितयः ।
वक्रे पुनस्तथोच्चे स्वराशिगे तद्भवत्येव ॥७॥
द्विगुणाः स्युर्दीधितयो वक्रस्थेsप्येवमेव स्युः ।
वैरिद्वादशभागे नीचे च भवन्ति षोडशांशोनाः ॥८॥
अस्तं गतो विरश्मिः शनिसितवर्जं ग्रहो ज्ञेयः ।
वक्रान्तस्थे द्विगुणा वक्रत्यागेsष्टभागहीनाश्च ।
एवं रश्मिविधानं पूर्वाचार्यैः समुद्दिष्टम् ॥९॥
एकादि पञ्च यावद्रश्मिभिरतिदुःखिताः कुलविहीनाः ।
परतन्त्रका दरिद्रा नीचरताः संभवन्ति नराः ॥१०॥
परतो दशकं यावद्भृतकादीनां विदेशगमनरताः ।
जायन्तेsत्र मनुष्याः सौभाग्यपरिच्युता मलिनाः ॥११॥
ऊर्ध्वं पञ्चदशाप्तिर्यावत्तावद्बहुश्रुताः सुजनाः ।
धर्माभिरताः सुमुखाः कुलस्य तुल्याः प्रजायन्ते ॥१२॥
पूजाः सुभगा धीराः कृतिनो भूपास्तु शरकृतिर्यावत् ।
कीर्तिकराश्च मनुष्या यथाक्रमं स्वजनसम्पूज्याः ॥१३॥
पूज्याः सुभगा धीराः कृतिनो भूपास्तु शरकृतिर्यावत् ।
परतो भवन्ति मनुजाः संसाधितसकलकरणीयाः ॥१४॥
अत उत्तरेण चण्डा नृपाश्रिता नृपतिलब्धधनसौख्याः ।
त्रिंशद्यावत्सचिवाः पूज्याश्च भवन्ति भूपानाम् ॥१५॥
एकत्रिंशद्भिस्तु प्रवराः ख्याता महीभुजामिष्टाः ।
द्वात्रिंशद्भिः पुरुषाः पञ्चाशद्ग्रामपतयः स्युः ॥१६॥
ग्रामसहस्राधिपतिं त्रिंशच्यधिका करोति रश्मीनाम् ।
त्रिसहस्रग्रामाणां पुरुषं सूतौ चतुस्त्रिंशत् ॥१७॥
परतो मण्डलभाजो बहुकोशपरिग्रहा महासत्वाः ।
प्रख्यातकान्तियशसो भवन्ति सुभगाश्च लोकानाम् ॥१८॥
त्रिंशत्षड्भिः सहिता रश्मीनां यस्य जन्मसमये स्यात् ।
सार्धं भुनक्ति लक्षं स ग्रामाणां पुमान्नियतम् ॥१९॥
त्रिंशन्मण्डलसहिता रश्मीनां सम्भवे भवेद्येषाम् ।
लक्षत्रितयपतित्वं ग्रामाणां जायते तेषाम् ॥२०॥
त्रिंशत्सनवा गावो जन्मनि येषां ग्रहोत्थिताः सन्ति ।
ते तोषितसकलजना भवन्ति पृथ्वीश्वराः पुरुषाः ॥२१॥
दशजलधिगुणाया रश्मिसंख्या नराणां
दिशति पृथुलभूमेः पालकत्वं च तेषाम् ।
हतरिपुवनिताभिर्गीयतेsतीव कीर्तिः
करुणरुदितगर्भैरुद्यदाक्रोशशब्दैः ॥२२॥
शशिजलनिधिसंख्यै रश्मिभिः श्रूतये यो
जलनिधिरशनायाः पार्थिवः स्यात्स भूमेः ।
द्विजलधिरशनायाः पक्षवेदाख्यसंख्यै -
स्त्रिजलधिरशनाया वह्निवेदैस्तथैव ॥२३॥
वेदाब्धिसंख्यैश्च मयूखजालैर्जाता नरेन्द्राः खलु सार्वभौमाः ।
सौम्याः सुरब्राह्मणभक्तिशीला दीर्घायुषः सत्वयुता भवन्ति ॥२४॥
परतः परतः किरणैर्द्वीपान्तरपालका निरुपसर्गाः ।
सर्वनमस्याः सुभगा महेन्द्रतुल्यप्रतापाश्च ॥२५॥
चत्वारिंशद्युक्ता पञ्चादिभिरत्र यस्य सूतौ स्यात् ।
ज्ञेयं तस्यारिष्टं सर्वक्षितिपालकं मुक्त्वा ॥२६॥
भुवनभरसहिष्णोः सर्वतः क्षीणशत्रो -
स्त्रिदशपतिमहिग्नः सर्वलोकस्तुतस्य ।
विदधति विहगानां रश्मयोsतीव दीप्ता -
स्तुरगकृतिसमानाश्चक्रवर्तित्वमेव ॥२७॥
अभिमुखकरप्रवाहाः फलं प्रयच्छन्ति पुष्टतरमाशु ।
तद्विपरीतं पुंसां पराङ्मुखास्तु ग्रहेन्द्राणाम् ॥२८॥
जन्मसमये ग्रहाणां रश्मीनां संक्षये क्षयो भवति ।
वृद्धेर्वर्धिष्णूनामधमोत्तमता क्रमेणैव ॥२९॥
इति कल्याणवर्मविरचितायां सारावल्यां रश्मिचिन्ता नाम षट्त्रिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP