युद्धकाण्डम् - काव्य ३०१ ते ३५०
युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
उवाच रक्षो रा जस्तं, ‘ वनादानीय सुंदरीम्
किमर्थं प्रतिदास्यामि मनुष्यस्य भयादहम् ? ॥३०१॥
द्विधा भज्येय म प्येव न नमेयं तु कस्यचित्
एष मे सहजो दोषः स्वभावो दुरतिक्रम. ॥३०२॥
कृपणो मनु ज स्तं तु रणे शास्त्रामृगाश्रयम्
वधिष्यामि प्रतिज्ञेयं सत्या विश्वजितो मम. ’ ॥३०३॥
व्रीडितः स्वाल य मगात्क्रुद्धे रक्षसि माल्यवान्
लंकायास्तु तदा गुप्तिं कारयामास रावः. ॥३०४॥
पूर्वद्वारे प रा सह्यं प्रहस्तं वाहिनीपतिम्
लंकाया दक्षिणद्वारे महापार्श्वमहोदरौ ॥३०५॥
ज्येष्ठं च पश्चि म द्वारे स्थापयामास नंदनम्
व्यादिदेशोत्तरद्वारे रावणः शुकसारणौ. ॥३०६॥
राजराजानु ज स्तस्मिन्त्स्वयं च कृतनिश्चयः
कथयामास लंकाया गुप्तिं ज्ञात्वा बिभीषणः. ॥३०७॥
अमात्यास्तस्य य त्नेन लंका गत्वा विरूपिणः
पन्सानलसंपातिप्रभृत्याख्याः समागताः. ॥३०८॥
तैः संविधानं ज वनैलकाया यन्निवेदितम्
तत्सर्वं विनिवेद्याथ कुंभकर्णानुजोऽब्रवीत्. ॥३०९॥
‘ अयुते द्वे ह य स्थानां गजारोहास्तथाऽयुतम्
अयुतं च रथारूढाः साग्रा कोटिश्च रक्षसाम्. ॥३१०॥
एकैकस्यात्र रा जेंद्र ! युद्धार्थं रक्षसः प्रभो !
परीवारः सहस्राणां सहस्रमुपतिष्ठति. ॥३११॥
कर्तव्यो नात्र म न्युस्त्वां कोपयेऽहं न भीषये,
समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे. ’ ॥३१२॥
ततोऽब्रवीत्स श्री रामो, ‘ नीलो वानरपुंगवः
प्रहस्तं प्रतियोद्धा स्याद्बानरैर्बहुभिर्वृतः. ॥३१३॥
अंगदः कपि रा जस्य पुत्र एष महाबलः
दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ. ॥३१४॥
हनूमान् पश्चि म द्वारे निष्पीड्येंद्रजितं स्वयम्
प्रविशत्वप्रमेयात्मा कपिभिर्बहुभिर्वृतः. ॥३१५॥
यः सदाशावि ज यकृत् प्रजापीडक उद्धतः
तस्याहं राक्षसेंद्रस्य स्वयमेव वधे धृतः. ॥३१६॥
वानरेंद्रः स्व य मयं जांबवाम्श्च महायशाः
राक्षसेंद्रानुजश्चैष गुल्मे भवतु मध्यभे. ॥३१७॥
वयं सदा न रा काराःसप्त योत्स्यामहे परान्
न कार्यं मानुषं रूपमृक्षैः कपिभिराहवे. ’ ॥३१८॥
एवमुक्त्वा स म तिमान्ससुग्रीवबिभीषणः
आरुरोह सुवेलाद्रिं लक्ष्मणेन सह प्रभुः. ॥३१९॥
ते सुवेलस्य ज गतीधरस्य शिखरे स्थिताः
ददृशुर्यूथपा व्योम्नि रचितामिव तां पुरीम्. ॥३२०॥
प्राकारवल य स्थैस्तैर्नीलवर्णैर्निशाचरैः
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्. ॥३२१॥
तान् दृष्ट्वा ते वि ज यिनो राक्षसान् युद्धकांक्षिणः
मुमुचिर्विविधान्नादान् वानरा रामसन्निधौ. ॥३२२॥
वानरैः प्रल य प्रोद्यद्धनैरिव महारवैः
लंका प्रकंपिता सर्वा धीः श्रीश्चामरविद्विषाम्. ॥३२३॥
सततं भ्रम रा लुब्धाः सौगंधिक इवांबुजे
अमराः समरापास्तस्वरिपोर्यशसि प्रभोः. ॥३२४॥
ततोस्तमग म त्सूर्यः संधय्या प्रतिरंजितः
पूर्णचंद्रप्रदीप्ता च क्षपा समभिवर्तत. ॥३२५॥
सौवर्णमेकं श्री मत्ते त्रिकूटशिखरं वरम्
ददृशुस्तत्र तां लंकां निर्मिता विश्वकर्मणा. ॥३२६॥
वित्तित्रां भास्व रा कारां प्रासादैरुपशोभिताम्
दशयोजनविस्तीर्णामद्भुतां द्विगुणायताम्, ॥३२७॥
वनैर्मनोर म गुणैः समंतादुपशोभिताम्
प्रातर्विलोक्य हरयो रम्याण्युपवनानि ते ॥३२८॥
विविशुर्वायु ज वनाः सुग्रीवस्य निदेशतः
जग्मुर्दिशो भयात्तेषां नागाः सिंहाः खगा मृगाः. ॥३२९॥
ततो रामो वि य त्युच्चैः सुवेलस्य महागिरेः
आरुरोह ससुग्रीवश्चित्रं शृंगं द्वियोजनम्. ॥३३०॥
तत्र स्थितः स रा जेंद्रो दिशः सर्वा विलोकयन्
ददर्श लंकां कनकप्राकारेण विराजिताम्. ॥३३१॥
दशकंठं चा मराभ्यां श्वेतच्छत्रेण शोभितम्
तस्या गोपुरशृंगस्थं ददर्श सुदुरासदम्. ॥३३२॥
तं कुबेरानु ज न्मानं दृष्ट्वाऽशु स कपीश्वरः
उत्थाय पुप्लुवे क्रोधात्प्रभो रामस्य पश्यतः. ॥३३३॥
सुग्रीवो निर्भ य स्वांतस्तृणीकृत्य दधाननम्
पतितो गोपुरे स्थाने सोऽब्रवीत्परुषं वचः ॥३३४॥
‘ भर्तू रामस्य ज गतां सखा दासोऽस्मि राक्षस !
न मया मोक्ष्यसेऽद्य त्वं पार्थिवेंद्रस्य तेजसा. ’ ॥३३५॥
इत्युक्त्वा सर य स्तार्क्ष्य इव तस्योपरि द्विषः
पपाताकृष्य मुकुटं पातयामास भूतले. ॥३३६॥
तमाह र क्षो रा जो, ‘ रे ! निर्मर्याद प्लवंगम !
सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि. ’ ॥३३७॥
ततः प्लवंग म पतिर्निशाचरपतिर्बले
नियुद्धं चक्रतुर्घोरं विश्वविस्मयकारकम्. ॥३३८॥
कृत्वा नियुद्धं श्री दस्य भ्रात्रा तेन सहातुलम्
सुवेलस्य पुनः शृंगमाजगाम महायशाः. ॥३३९॥
तमुवाच न रा धीशः, ‘ सखे ! सुग्रीव ! साहसम्
कर्तुं नार्हसि भूयस्त्वं मम प्राणो बहिश्चरः. ’ ॥३४०॥
अथावरुह्य म हतः सुवेलाग्राद्रघूत्तमः
रुरोध, तानि लंकाया द्वाराणि, प्रबलैर्बलैः. ॥३४१॥
अनुस्मरन् रा ज धर्ममाहूयांगदमब्रवीत्,
‘ गत्वा सौम्य ! दशग्रीवं ब्रूहि मद्वचनादिदम्. ॥३४२॥
ऋषिदेवाहि य क्षाणामवलिप्तेन यत्त्वया
त्यक्त्वा ह्रियं दयां नानाप्रकारं पीडनं कृतम्. ॥३४३॥
तद्गोविप्रसु रा रा ते ! दाराहरणकर्षितः
आगतोऽह्गं ससुग्रीवो लंकाद्वारे व्यवस्थितः. ॥३४४॥
गमिष्यसि त्वं म हर्षिराजर्षिपदवीमरे !
मद्बाणैर्निहतो युद्धे भविष्यसि यदि स्थिरः. ॥३४५॥
बलेन येन ज नकतनयां माययाधम !
मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय. ॥३४६॥
सीतां त्वमादा य यदि त्वभ्येषि शरणं न माम्
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः. ॥३४७॥
धर्मात्मा तेऽनु ज न्मायं श्रेष्ठो मां शरणं गतः
लंकैश्वर्यमिदं श्रीमत् ध्रुवं प्राप्नोत्यकटकम्. ॥३४८॥
न राजमन य ज्ञेन भोक्तुं क्षणमपि त्वया
शक्यं मूर्खसहायेन पापेनाविदितात्मना. ॥३४९॥
कृत्वा धृतिं प रा मद्य त्वं युत्ध्यस्व मया सह,
मृतो रणे मद्विशिखैः पाप ! पूतो भविष्यसि. ॥३५०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP