युद्धकाण्डम् - काव्य ७५१ ते ८००

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


मां जेतुं कोऽपि ज गति क्षमो नास्ति निशाचर !
वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ! ॥७५१॥
अंतर्हितेन य स्तुच्छ ! भवताचरितस्तदा
तस्कराचरितो मार्गो नैष वीरनिषेवितः. ॥७५२॥
पुरतस्तेऽस्म्य रा तेऽहं स्थितो मार्गणगोचरे
दर्शयस्वाद्य तत्तेजो वाचा किं त्वं विकत्थसे ? ’ ॥७५३॥
इत्युक्तः सो‍त्य म र्षेण रावनिः समितिंजयः
युद्धं चकार तुमुलं तेन सौमित्रिणा सह. ॥७५४॥
भन्गे शतांगे श्री मान्त्स लंकां गत्वा नवं रथम्
समास्थायाभ्ययात्तूर्णं परैरनुपलक्षितः. ॥७५५॥
रक्षोबलं श रा सारैः प्रममर्द बिभीषणः
चतुर्भिः सचिवैः सार्धं मारुतिश्च द्रुमोपलैः. ॥७५६॥
शस्त्रैरस्त्रैः स म र्थस्तं युद्धं कृत्वा स लक्ष्मणः
ऐंद्रास्त्रेण जघानाजाविंद्रशत्रुं महाबलम्. ॥७५७॥
कृते शिरोंबु ज च्छेदे रावणेरमाधिपः
मुमुदे सह लोकेशैर्नेदुर्दुंदुभयो दिवि. ॥७५८॥
पुष्पवृष्टिर्वि य त्संस्थैः कृता लक्ष्मणमूर्धनि
ननृतुश्चाप्सरोमुख्या गंधर्वा ललितं जगुः. ॥७५९॥
पादार्पितशि रा भ्राता रामेणालिंगितो मुदा
बिभीषणेनेंद्रजितो वधस्तस्मै निवेदितः. ॥७६०॥
मूर्ध्न्यु पाघ्राय म र्माणि व्रणितानि पराशुगैः
पस्पर्श सदयं साश्रु श्रीरामो भ्रातृवत्सलः. ॥७६१॥
अंकमारोप्य ज नकः प्रियं पुत्रमिवानुजम्
रामोऽब्रवी‘दहोरात्रैस्त्रिभिः कृच्छ्राद्धतो रिपुः. ॥७६२॥
निरमित्रोऽहं य शस्वी कृतोऽस्म्यद्य त्वया ध्रुवम्
त्वया नाथेन दुष्प्रापा सीता भूश्च न लक्ष्मण ! ’ ॥७६३॥
इत्युक्त्वा मनु ज श्रेष्ठः सुषेणं हरिमबवीत्,
‘ विशल्यः क्रियतां क्षिप्रं सौमित्रिर्मित्रवत्सलः ’ ॥७६४॥
एवमुक्तः प्र य त्नेन स पटुर्हरियूथपः
लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्. ॥७६५॥
गंधमाघ्राय रा जीवलोचनस्तस्य तत्क्षणम्
निर्वेदनो विशल्यश्च समपद्यत लक्ष्मणः. ॥७६६॥
ते च प्लवंग म श्रेष्ठाः सामात्यश्च बिभीषणः
कृता विशल्या मुदिताः सुषेणेन महात्मना. ॥७६७॥
रामोऽतिहृष्टः श्री दस्य भ्राता शोकाकुलोऽभवत्
सीतां हंतुं प्रगृह्यासिमशोकवनिकां ययौ. ॥७६८॥
सीता दृष्ट्वा ख रा सिं तं भीता सस्मार राघवम्
आर्यां शुशोत्त कौसल्यां मंथरां च निनिंद प्ता. ॥६७९॥
सुपार्श्वो नाम म तिमानमात्यः शीलवांस्तदा
वारयामास तं सीतावधात्सूक्तिशतैर्मतैः. ॥७७०॥
ततो ज्येष्ठात्म ज स्यातिशोकव्याकुलमानसः
राक्षसान्प्रेषयायामास हंतुं दाशरथी रणे. ॥७७१॥
चलच्छिलोच्च य निभा महोत्साहा महौजसः
दशाननप्रिये युक्ता मुक्ताश्चापादिवेषवः. ॥७७२॥
लब्धलक्षाः सु रा णां ये युद्धे कज्जलमेचकाः
नरमांसशनाः क्रूराः शूराः परिघबाहवः. ॥७७३॥
चतुरंगेण म हता बलेन परिवारिताः
महाबलाः कवचिनः सर्वामरसुदुःखहाः. ॥७७४॥
ते रावणस्यां ज लिना प्रहिता अहिता दिवः
त्यक्तप्राणा विनिर्गत्य युयुधुर्विविधायुधाः. ॥७७५॥
तानाजावज य न्कीशा दाशरथ्योश्च मार्गणाः
गता यमक्षयं सर्वे मत्ताः सत्तापहेतवः. ॥७७६॥
तन्योन्यमेव ज घ्नुस्ते रामसादृश्यमोहिताः
गांधर्वास्त्रे संप्रयुक्ते राक्षसा विलयं गताः. ॥७७७॥
बाणैः कौसल्ये य मुक्तैर्मुहूर्तद्वयतो रणे
सप्तकोट्यस्तथैकोनत्रिंशल्लक्षाणि सद्रथाः. ॥७७८॥
हताश्च कुंज रा मत्तास्ते सहस्राणि विंशतिः
तथा द्वादश लक्षणि तथैव दश कोटयः. ॥७७९॥
षष्टिस्तुरंग म वराः सहस्राण्यथ विंशतिः
लक्षाणि ते दशशतकोटिसंख्याः प्रमर्दिताः. ॥७८०॥
पदातयश्च श्री शेन निहताः शतकोटयः
पंचचत्वारिंशदष्टाशीतिर्लक्षाणि चाहवे. ॥७८१॥
सिद्धर्षयः सु रा श्चैव गंधर्वाश्चारणास्तथा
साधु साध्विति रामस्य तत्कर्म समपूजयन्. ॥७८२॥
उवाच रामो म धुरं सुग्रीवादीन्प्रति प्रभुः,
‘ एतदस्त्रबलं भीमं मम वा त्र्यंबकस्य वा. ’ ॥७८३॥
हत्वा रक्षोरा ज सेना शस्त्रास्त्रेषु जितक्लमः
संस्तूयते स्म त्रिदशै रामो हृष्टैर्महर्षिभिः. ॥७८४॥
राक्षसानां क्ष या स्तेन रावणेन श्रुतो महान्
विलापो राक्षसीनां च शोकार्तानां सुदुःसहः. ॥७८५॥
शोकक्रोधप रा धीनो दशकंठस्ततः स्वयम्
नगरान्निर्ययौ हंतुं सबलौ रामलक्ष्मणौ. ॥७८६॥
वृतः सैन्येन म हता रथारूढो महाबलः
महोदरमहापार्श्वविरूपाक्षैः समन्वितः. ॥७८७॥
स्यंदनेन प्र ज वितप्रवराष्टहयेन सः
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ. ॥७८८॥
तदोत्पाता भ य स्यारात्सूचका बहवोऽभवन्
निष्प्रभोऽर्कः शिवा नेदुश्चस्खलुश्चास्य वाजिनः. ॥७८९॥
राजराजानु ज मरिं दृष्ट्वायातं प्लवंगमाः
विनेदुर्यातुधानाश्च घोरमंभोधरा इव. ॥७९०॥
रावणेन क्ष य श्चक्रे कपीनां भूयसां शरैः
परैः सोदुं न ये शक्या यैः सुरा विजिताः खरैः. ॥७९१॥
सुग्रीवो वान रा धीशः प्रतापी पादपायुधः
प्रतस्थेऽभिमुखं सार्धं यूथपैर्दशकंधरम्. ॥७९२॥
ननर्द युधि म न्यूग्रः स्वरेण महता महान्
पोथयन् राक्षसान् शिष्टान् दशग्रीवपुरःसरान्. ॥७९३॥
रक्षोबलेषु श्री मान्त्स वृष्टिं चक्रे महीभृताम्
ममर्द तान्महावातः प्रवृद्धानगमानिव. ॥७९४॥
विरूपाक्षं दु रा पांतं कपिकंपप्रदायुधम्
वानरेंद्रो व्यसुं चक्रे तं च वीरं महोदरम्. ॥७९५॥
महापार्श्वत्य म थनं वालिनस्तनयोऽकरोत्
चकार कोपं तद्दृष्ट्वा राक्षसानामधीश्वरः. ॥७९६॥
तामसास्त्रेण ज यतो विधात्रा निर्मितेन सः
हत्वा विद्राव्य च कपीन्बहून् राममुपाययौ. ॥७९७॥
सुमित्रातन य स्तेन रावणेन सह स्वयम्
युयुधे प्रथमं वीरो राहुणेव निशाकरः. ॥७९८॥
ततैः शतैः श रा णां तं व्याकुलीकृत्य लक्ष्मणम्
व्यसृजच्छरवर्षाणि राममासाद्य रावणः. ॥७९९॥
भल्लैश्चिच्छेद म हतः शरौघांस्तस्य राघवः
विव्याध रामं स पुनः शरैर्दर्शितलाघवः. ॥८००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP