युद्धकाण्डम् - काव्य ८५१ ते ९००
युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
मूर्तिमानम रा धीशो रविः सुरगणे स्थितः
रामं ‘ दशाननं हंतुं त्वरस्वे’ति वचोऽब्रवीत्. ॥८५१॥
रामोऽथ शत म न्योस्तं सारथिश्रेष्ठमब्रवीत्,
‘ मातले ! पश्य संरब्धमापतंतं रथं रिपोः. ॥८५२॥
तिष्ठाप्रमादो ज न्येऽस्मिन्प्रत्युद्गच्छ रथं रिपोः
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्. ॥८५३॥
रथं प्रचोद य क्षिप्रमि’त्युक्तः स तथाऽकरोत्
चक्रसंभूतरजसा रावणं व्यवधूनयत्. ॥८५४॥
स चापमैंद्रं ज ग्राह शरांश्चार्ककरप्रभान्
युद्धं तयोस्तदारब्धं दृप्तयोरिव सिंहयोः. ॥८५५॥
देवाश्च मुन य श्चैव वारना रजनीचराः
युद्धं समागता द्रष्टुं विस्मिताश्चित्रवत्स्थिताः. ॥८५६॥
तदा बभूव रा ज्ञोस्तद्वैरथं परमाद्भुतम्
रामरावणयोर्युद्धं रामरावणयोरिव. ॥८५७॥
जेतव्यमिति म र्त्येशो मर्तव्यमिति रावणः
धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा. ॥८५८॥
रामः शरेण श्री मंतं ध्वजं चिच्छेद रक्षसः
तेन तन्मनसि क्रोधः प्रजज्वाल सुदुःसहः. ॥८५९॥
वृष्टिं चक्रे श रा णां स क्रुद्धो युद्धोद्यतः प्रभौ
नानाविधायुधानां च गिरीणां भूरुहामपि. ॥८६०॥
तां वृष्टिं पर म प्राज्ञो रामश्चिच्छेद सायकैः
ततस्तस्य शिरोऽच्छिंदच्छ्रीमज्ज्वलितकुंडलम्. ॥८६१॥
तस्य शीर्षांबु ज च्छेदे हृष्टा देवर्षयो भृशम्
अन्यत्तेनैव सदृशं रावणस्योत्थितं शिरः. ॥८६२॥
छिन्नं तदपि य त्नेन प्रभुणा क्षिप्रकारिणा
छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते. ॥८६३॥
एवमेव सु रा रातेस्तुल्याकारं शिरःशतम्
छिन्नं रामेण समरे क्षिप्रहस्तेन मार्गणैः. ॥८६४॥
दशकंठस्य म रणमपश्यन् राघवो रणे
चिंतयामास बाणानाममोघानां विपर्ययम्. ॥८६५॥
सप्तरात्रम ज स्रं तत्तर्योर्युद्धमभून्महत्
उवाच मातली राम ‘ मस्त्रं पैतामहं प्रभो ! ॥८६६॥
अस्य प्रणाशा य रिपोर्विसृज त्वं रघूत्तम !’
स्मारितः शक्रसूतेन रामो वीरशिरोमणिः, ॥८६७॥
यमगस्त्यो द्वि ज श्रेष्ठो ददौ पूर्वं महाशुगम्
अभिमंत्र्य तमेवाशु चिक्षेप ब्रह्मनिर्मितम्. ॥८६८॥
स तस्य हृद य स्येषुर्भेदं कृत्वा महाद्विषः
भुवस्तलं विवेशाथो तूणीरं च विनीतवत्. ॥८६९॥
गतप्रानो ध रा यां स राक्षसेंद्रो दशाननः
पपात पापो वज्रेण हतो वृत्र इवाहितः. ॥८७०॥
दृष्ट्वा पतित म त्यार्ता हतशेषा निशाचराः
हतनाथा भयग्रस्ता लंकामभ्यपतन् द्रुतम्. ॥८७१॥
निशाचरास्ते श्री मद्भिर्नदद्भिर्जितकाशिभिः
वानरैर्मर्दिताः क्रुद्धैर्घना इव समीरणैः. ॥८७२॥
विजये रघु रा जस्य व्यनदद्देवदुंदुभिः
दिव्यगंशवहस्तत्र मारुतः सुसुखो ववौ. ॥८७३॥
वृष्टिस्तदा सु म नसां दिव्यानां निपपात खात्
सुरर्षिभिः कृता पुण्या स्तुती रामस्य शुश्रुवे ॥८७४॥
मरुद्गणाः प्र ज ग्मुस्ते शमं स्वर्गायना जगुः
अगुः स्वास्थ्यं च लोकेशाः सुप्रभोऽभूत्सहस्रगुः ॥८७५॥
रामः प्राप्तज य स्तत्र मुमुदे सकपीश्वरः
भ्रातरं निहतं दृष्ट्वा विललाप बिभीषणः. ॥८७६॥
सांत्वितः स गिरा माध्व्या श्रीरामेण महात्मना
बिभीषणस्तं संस्कर्तुं प्रार्थयामास राघवम्. ॥८७७॥
‘ शांतिर्वैरस्य म रणं, निवृत्तं नः प्रयोजनम्
क्रियतामस्य संस्कारो ममाप्येष यथा तव. ’ ॥८७८॥
इत्युवाच त्रि ज गतां नाथो रघुकुलोत्तमः
तमःप्रशमकृन्नामा सर्वभूतेषु यः समः. ॥८७९॥
अथ सर्वा स्त्रि य स्तस्य मृतं श्रुत्वा तमीश्वरम्
मंदोदरीप्रभृतयो विलापं चक्रुराकुलाः. ॥८८०॥
अंतःपुराद्रा ज भार्या विनिष्पेतुः शुचार्दिताः
रणपांसुषु चेष्टंत्यो मुक्तकेश्यो हतेश्वराः. ॥८८१॥
ददृशुस्ताः प्रिय तमं पतितं रणपांसुषु
आलिंग्य रुरुदुः सर्वाः सा च मंदोदरी भृशम्. ॥८८२॥
‘ इंद्रियाणि पु रा जित्वा जितं त्रिभुवनं त्वया
स्मरद्भिरिव तद्वैरमिंद्रियैस्त्वं विनिर्जितः. ॥८८३॥
तं चापि काम म प्राप्य मैथिलीसंगमे कृतम्
पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ! ॥८८४॥
सीता सतीयं श्री रेव रामो विष्णुर्न मानुषः
हतोऽस्यतिक्रमान्नीतेर्धर्मस्य त्वं महानपि. ॥८८५॥
मैथिली सह रा मेण विशोका विहरिष्यति
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे. ’ ॥८८६॥
इत्यार्ता तस्य म हिर्षी तामन्याश्च बिभीषणः
सांत्वयामास बहुधा रुदतीः सुदतीः प्रियाः. ॥८८७॥
श्रीकौसल्यात्म ज स्तासां सांत्वनाय बिभीषणम्
रावणस्य च संस्कारं कर्तुमाज्ञापयत्तदा. ॥८८८॥
‘ नाहं पापाश य स्यास्य परदाराभिमर्शिनः
कर्तुमिच्छामि संस्कारमि’त्युवाच बिभीषणः. ॥८८९॥
‘ मैवं ब्रूह्यद्य रा ज्ञस्त्वं संस्कारं कर्तुमर्हसि
मरणांतानि वैरानि ममाप्येष यथा तव. ’ ॥८९०॥
इत्युक्तः स स म र्थेन श्रीरामेण बिभीषणः
विधिवत्तस्य संस्कारं चकार विधिकोविदः ॥८९१॥
सांत्वितास्तेन ज ग्मुस्ताः स्त्रियः सर्वाह स्वकान् गृहान्.
बिभीषणो रामपार्श्वे समतिष्ठद्विनीतवत्. ॥८९२॥
आज्ञां दत्त्वा ‘ न य रथं शक्रपार्श्वमि’ति प्रभुः
मातलिं पूजयामास सखायं तं शतक्रतोः. ॥८९३॥
रामचंद्रोऽनु ज मथ प्रोवाच शुभलक्षणम्,
‘ बिभीषणमिमं सौम्य ! लंकायामभिषेचय. ॥८९४॥
कामो मे हृद य स्थोऽयं परमो यद्बिभीषणम्
पुरेऽभिषिक्तं पश्येयं प्रियं पूर्वोपकारिणम्. ’ ॥८९५॥
सौमित्रिर्वान रा न्दत्वा घटान्हैमान्मनोजवान्
व्यादिदेश समुद्रेभ्यः सलिलानयनं द्रुतम्. ॥८९६॥
जलैः प्लवंग म श्रेष्ठैरानीतैस्तं बिभीषणम्
अभ्यषिंचत्प्रसन्नात्मा लक्ष्मणः परमासने. ॥८९७॥
अथाद्भुतैक श्री रामः प्रभुर्मारुतिमब्रवीत्,
‘ बिभीषणमनुज्ञाप्य कुशलं पृच्छ जानकीम्. ॥८९८॥
वैदेह्या वान रा धीशं कुशलं लक्ष्मणं च माम्.
आचक्ष्व वदतां श्रेष्ठ ! रावणं च हतं रणे. ॥८९९॥
प्रियमुक्त्वा स म ग्रं त्वं ततस्तस्या हरीश्वर !
प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि. ’ ॥९००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP