मुमुक्षुवैराग्यप्रकरणम् - सर्ग अकरावा
‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.
श्रीविश्वामित्र उवाच ॥
एवं चेत्तन्महाप्राज्ञा भवन्तो रघुनन्दनम् । इहानयन्तु त्वरिता हरिणं हरिणा इव ॥१॥
एष मोहो रघुपतेर्नापद्भ्यो न च रागतः । विवेकवैराग्यवतो बोध एव महोदयः ॥२॥
इहायातु क्षणाद्राम इह चैव वयं क्षणात् । मोहं तस्यापनेष्यामो मारुतोद्रेर्घनं यथा ॥३॥
एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः । विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे ॥४॥
सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् । पीनतां वरवर्णत्वं पीतामृत इवैष्यति ॥५॥
निजां च प्रकृतामेव व्यवहारपरंपराम् । परिपूर्णमना मान्य आचरिष्यत्यखण्डितम् ॥६॥
भविष्यति महासत्त्वो ज्ञातलोकपरावरः । सुखदुःखदशाहीनः समलोष्ठाश्मकाञ्चनः ॥७॥
इत्युक्ते मुनिनाथेन राजा संपूर्णमानसः । प्राहिणोद्राममानेतुं भूयो दूतपरंपराम् ॥८॥
एतावताथ कालेन रामो निजगृहासनात् । पितुः सकाशमागन्तुमुत्थितोर्क इवाचलात् ॥९॥
वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां च जगाम ह । तत्पुण्यं स्वपितुः स्थानं स्वर्गं सुरपतेरिव ॥१०॥
दूरादेव ददर्शासौ रामौ दशरथं तदा । वृत्तं राजसमूहेन देवौघेनेव वासवम् ॥११॥
वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर्द्वयोः । सर्वशात्रार्थतज्ज्ञेन मन्त्रिवृन्देन मालितम् ॥१२॥
चारुचामरहस्ताभिः कान्ताभिः समुपासितम् । ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् ॥१३॥
वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः । ददृशू राघवं दूरादुपायान्तं गुहोपमम् ॥१४॥
सत्त्वावष्टबधगर्भेण शैत्येनेव हिमाचलम् । श्रितं सकलसेव्येन गम्भीरेण स्फुटेन च ॥१५॥
सौम्यं समं शुभाकारं विनयोदारमानसम् । कान्तोंपशान्तवपुषं परस्यार्थस्य भाजनम् ॥१६॥
समुद्यदौवनारम्भं वृद्धोपशमशोभनम् । अनुद्विग्नमनानन्दं पूर्णप्रायमनोरथम् ॥१७॥
विचारितजगद्यात्रं पवित्रगुणगोचरम् । महासत्त्वैकलोभेन गुणैरिव समाश्रितम् ॥१८॥
उदारमार्यमापूर्णमन्तःकरणकोटरम् । अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम् ॥१९॥
एवंगुणगणाकीर्णॊ दूरादेव रघूद्वहः । परिमेयस्मिताच्छाच्छस्वहाराम्बरपल्लवः ॥२०॥
प्रणनाम चलच्चारुचूडामणिमरीचिना । शिरसा वसुधाकम्पलोलदेवाचलश्रिया ॥२१॥
एवं मुनीन्द्रे ब्रुवति पितुः पादाभिवन्दनम् । कर्तृमभ्याजगामाथ रामः कमललोचनः ॥२२॥
प्रथम पितरं पश्चान्मुनी मान्यैकमानितौ । ततो विप्रांस्ततो बन्धूंस्ततो गुरुगणान्सुहृत् ॥२३॥
जग्राह च ततो दृष्ट्या मनाङ्मुर्ध्रा तथा गिरा । राजलोकेन विहितां तां प्रणामपरंपराम् ॥२४॥
विहिताशी र्मुनिभ्यां तु रामः सुसममानसः । आससाद पितुः पुण्य समीपं सुरसुन्दरः ॥२५॥
पादाभिवन्दनपरं तमथासौ महीपतिः । शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः ॥२६॥
शत्र्घ्नं लक्ष्मणं चैव तथैव परवीरहा । आलिलिङ्ग घनस्नेहो राजहंसोम्बुजे यथा ॥२७॥
उत्सङ्गे पुत्र तिष्ठेति वदत्यथ महीपतौ । भूमौ परिजनास्तीर्णे सोंशुकेथ न्यविक्षत ॥२८॥
राजोवाच ॥
पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् । जडवज्जीर्णया बुद्ध्या खेदायात्मा न दीयताम् ॥२९॥
वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता । पदमासाद्यते पुण्यं न मोहमनुधावता ॥३०॥
तावदेवापदो दूरे तिष्ठन्ति परिपेलवाः । यावदेव न मोहस्य प्रसरः पुत्र दीयते ॥३१॥
श्रीवसिष्ठ उवाच ॥
राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया । दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः ॥३२॥
किमतज्ज्ञ इवाज्ञानां योग्ये व्यामोहसागरे । विनिमज्जसि कल्लोलबहुले जाड्यशालिनि ॥३३॥
विश्वामित्र उवाच ॥
चलन्नीलोत्पलव्यूहसमलोचनलोलताम् । ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि ॥३४॥
किंनिष्ठाः के च ते केन कियन्तः कारंणेन ते । आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः ॥३५॥
मन्ये नानुचितानां त्वमाधीनां पदमुत्तमम् । आपत्सु चाप्रयोज्यं ते निहीना अपि चाधयः ॥३६॥
यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ । सर्वमेव पुनर्येन भेत्स्यन्ते त्वां तु नाधयः ॥३७॥
इत्युक्तमस्य सुमते रघुवंशकेतुराकर्ण्य वाक्यमुचितार्थ्विलासगर्भम् । तत्याज खेदमभिगर्जति वारिवाहे बर्ही यथा त्वनुमिताभिमतार्थसिद्धिः ॥३८॥
[ ३९९ ] इत्यार्षे विसिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे राघवसमाश्वासनंनामैकादशः सर्गः ॥११॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP