संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग सत्ताविसावा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग सत्ताविसावा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग सत्ताविसावा Translation - भाषांतर श्रीराम उवाच ॥अन्यच्च तातातितरामरम्येमनोरमे चेह जगत्स्वरूपे । न किंचिदायाति तदर्थजातं येनातिविश्रान्तिमुपैति चेतः ॥१॥बाल्ये गते कल्पितकेलिलोले मनोमृगे दारदरीषु जीर्णे । शरीरके जर्जरतां प्रयाते विदूयते केवलमेव लोकः ॥२॥जरातुषाराभिहतां शरीरसरोजिनीं दूरतरे विमुच्य । क्षणाद्गते जीवितचञ्चरीके जनस्य संसारसरोवशुष्कम् ॥३॥यदा यदा पाकमुपैति नूनं तदा तदेयं रतिमातनोति । जराभरानल्पनवप्रसूना विजर्जरा कायलता नराणाम् ॥४॥तृष्णानदी सारतरप्रवाहग्रस्ताखिलानन्तपदार्थजाता । तटस्थसंतोषसुवृक्षमूलनिकाषदक्षा वहतीह लोके ॥५॥शारीरनौश्चर्मनिबन्धबद्धा भवाम्बुधावालुलिता भ्रमन्ती । प्रलोड्यते पञ्चभिरिन्द्रियाख्यैरघोभवन्ती मकरैरधीरा ॥६॥तृष्णालताकाननचारिणोमी शाखाशतं काममहीरुहेषु । परिभ्रमन्तः क्षपयन्ति कालं मनोमृगा नो फलमाप्नुवन्ति ॥७॥ कृच्छ्रेषु दूरास्तविषादमोहाः स्वास्थ्येषु नोत्सिक्तमनोभिरामाः । सुदुर्लभाः संप्रति सुंदरीभिरनाहतान्तःकरणा महान्तः ॥८॥तरन्तिमातङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः । शूरास्त एवेह मनस्तरङ्गं देहेन्द्रियाम्भोधिमिमं तरन्ति ॥९॥अक्लिष्टपर्यन्तफलाभिरामा न दृश्यते कस्यचिदेव काचित् । क्रिया दुराशाहतचित्तवृत्तिर्यामेत्य विश्रान्तिमुपैति लोकः ॥१०॥कीर्त्या जगद्दिक्कुहरं प्रतापैः श्रिया गृहं सत्त्वबलेन लक्ष्मीम् । ये पूरयन्त्यक्षतधैर्यबन्धा न ते जगत्यां सुलभा महान्तः ॥११॥अप्यन्तरस्यं गिरिशैलभित्तेर्वज्रालयाभ्यन्तरसंस्थितं वा । सर्वं समायान्ति ससिद्धिवेगाः सर्वाः श्रियः संततमापदश्च ॥१२॥पुत्राश्च दाराश्च धनं च बुद्ध्या प्रकल्प्यते तात रसायनाभम् । सर्वं तु तन्नोपकरोत्यथान्ते यत्रा तिरम्या विषमूर्च्छनैव ॥१३॥विषादयुक्तो विषमामवस्थामुपागतः कायवयोवसाने । भावान्स्मरन्स्वानिह धर्मरिक्ताञ्जन्तुर्जरावानिह दह्यतेन्तः ॥१४॥कामार्थधर्माप्तिकृतान्तराभिः क्रियाभिरादौ दिवसानि नीत्वा । चेतश्चलद्बर्हिणपिच्छलोलं विश्रान्तिमागच्छतु केन पुंसः ॥१५॥पुरोगत्तैरप्यनवाप्तरूपैस्तरङ्गिणीतुङ्गतरङकल्पैः । क्रियाफलैर्दैववशादुपेतैर्विडम्ब्यते भिन्नरुचिर्हि लोकः ॥१६॥इमान्यमूनीति विभावितानि कार्याण्यपर्यन्तमनोरमाणि । जनस्य जायाजनरञ्जनेन जवाज्जरान्तं जरयन्ति चेतः ॥१७॥पर्णानि जीर्णानि यथा तरूणां समेत्य जन्माशु लयं प्रयान्ति । तथैव लोकाः स्वविवेकहीनाः समेत्य गच्छन्ति कृतोप्यहोभिः ॥१८॥इतस्ततो दूरतरं विहृत्य प्रविश्य गेहं दिवसावसाने । विवेकिलोकाश्रयसाधुकर्मरिक्तेह्नि रात्रौ क उपैति निद्राम् ॥१९॥विद्राविते शत्रुजने समस्ते समागतायामभितश्च लक्ष्म्याम् । सेव्यन्त एतानि सुखानि यावत्तावत्समायाति कुतोपि मृत्युः ॥२०॥कुतोपि संवर्धिततुच्छरूपैर्भावैरमीभिः क्षणनष्टदृष्टैः । विलोड्यमाना जनता जगत्यां न वेत्त्युपायातमहो न पातम् ॥२१॥प्रियासुभिः कालमुखं क्रियन्ते जनैडकास्ते हतकर्मबद्धाः । यैः पीनतामेव बलादुपेत्य शरीरबाधेन न ते भवन्ति ॥२२॥अजस्रमागच्छति सत्वरैवमनारतं गच्छति सत्वरैव । कुतोपि लोला जनता जगत्यां तरङ्गमाला क्षणभङ्गुरेव ॥२३॥प्राणापहारैकपरा नराणां मनो मनोहारितया हरन्ति । रक्तच्छदाश्चञ्चलषट्पदाक्ष्यो विषद्रुमा लोललताः स्त्रियश्च ॥२४॥इतोन्यतश्चोपगता मुधैव समानसंकेतनिबद्ध भावाः । यात्रा समासङ्गसमा नराणां कलत्रमित्रव्यवहारमाया ॥२५॥प्रदीपशान्तिष्विवभुक्तभूरिदशास्वतिस्नेहनिबन्धनीषु । संसारमालासु चलाचलासु न ज्ञायते तत्त्वमतात्त्विकीषु ॥२६॥संसारसंरम्भकुचक्रियेयं प्रावृट्पयोबुद्बुदभङ्गुरापि । असावधानस्य जनस्य बुद्धौ चिरस्थिरप्रत्ययमातनोति ॥२७॥शोभोज्ज्वला दैववशाद्विनष्टा गुणाः स्थिताः संप्रति जर्जरत्वे । आश्वासतादूरतरं प्रयाता जनस्य हेमन्त इवाम्बुजस्य ॥२८॥पुनःपुनर्दैववशादुपेत्य स्वदेहभारेण कृतोपकारः । विलूयते यत्र तरुः कुठरैराश्वासने तत्र हि कः प्रसङ्गः ॥२९॥मनोरमस्याप्यतिदोषवृत्तेरन्तर्विघाताय समुत्थितस्य । विषद्रुमस्येव जनस्य सङ्गदासाद्यते संप्रति मूर्च्छनैव ॥३०॥कास्ता दृशो यासु न सन्ति दोषाः कास्ता दिशो यासु न दुःखदाहः । कास्ताः प्रजा यसु न भङ्गुरत्वं कास्ताः क्रिया यासु न नाम माया ॥३१॥कल्पाभिधानक्षणजीविनो हि कल्पौघसङ्ख्याकलने विरिञ्च्याः । अतः कलाशालिनि कालजाले लघुत्वदीर्घत्वधियोप्यसत्याः ॥३२॥सर्वत्र पाषाणमया महीघ्रा मृदा मही दारुभिरेव वृक्षाः । मांसैर्जनाः पौरुषबद्धभावा नापूर्वमस्तीह विकारहीनम् ॥३३॥आलोक्यते चेतनयानुविद्धा पयोनुबद्धोस्तनयो नभः स्थाः । पृथग्विभागेन पदार्थलक्ष्म्या एतज्जगन्नेतरदस्ति किंचित् ॥३४॥चमत्कृतिश्चेह मनस्विलोकचेतश्चमत्कारकरी नराणाम् । स्वप्नेपि साधो विषयं कदाचित्केषांचिदभ्येति न चित्ररूपा ॥३५॥अद्यापि यातेपि च कल्पनाया आकाशवल्लीफलवन्महत्त्वे । उदेति नो लोभल वाहतानामुदारवुत्तान्तमयी कथैव ॥३६॥आदातुमिच्छन्पदमुत्तमानां स्वचेतसैवापहतोद्य लोकः । पतत्यशङ्कं पशुरद्रिकूटादानीलवल्लीफलवाञ्च्छयैव ॥३७॥ अवान्तरन्यस्तनिरर्थकांशच्छायालतापत्रफलप्रसूनाः । शरीर एव क्षतसंपदश्च श्वभ्रद्रुमा अद्यतना नराश्च ॥३८॥क्कचिज्जना मार्दवसुन्दरेषु क्कचित्कठोरेषु च संचरन्ति । देशान्तरालेषु निरन्तरेषु वनान्तखण्डेष्विव कृष्णसाराः ॥३९॥धातुर्नवानि दिवसं प्रति भीषणानि रम्याणि वा विलुलितान्ततमाकुलानि । कार्याणि कष्टफलपाकहतोदयानि विस्मापयन्ति न शवस्य मनांसि केषाम् ॥४०॥जनः कामासक्तो विविधकुकलाचेष्टनपरः स तु स्वप्नेप्यस्मिञ्जगति सुलभो नाद्य सुजनः । क्रियादुःखासङ्गविधुरविधुरा नूनमखिला न जाने नेतव्या कथमिव दशा जीवितमयी ॥४१॥[ ९७३ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये० निःश्रेयसविरोधिभावानित्यताप्रतिपादनं नाम सप्तविंशतितमः सर्गः ॥२७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP