मुमुक्षुवैराग्यप्रकरणम् - सर्ग सव्विसावा
‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.
श्रीराम उवाच ॥
वृतेस्मिन्नेवमेतेषा कालादीनां महामुने । संसारनाम्नि कैवास्था मादृशानां वदत्विह ॥१॥
विक्रीता इव तिष्ठाम एतैर्देवादिभिर्वयम् । मुने प्रपञ्चरचनैर्मुधा वनमृगा इव ॥२॥
एषोनार्यसमाम्नायः कालः कवलनोन्मुखः । जगत्यविरतं लोकं पातयत्यापदर्णवे ॥३॥
दहत्यन्तर्दुराशाभिर्देवो दारुणचेष्टया । लोकमुष्णप्रकाशाभिर्ज्वालाभिर्दहनो यथा ॥४॥
धृतिं विधुरयत्येषा मर्यादा रूपवल्लभा । स्त्रीत्वात्स्वभावचपला नियतिर्नियतोन्मुखी ॥५॥
ग्रमतेविरतं भूतजालं सर्प इवानिलम् । कृन्तातः कर्कशाचारो जरां नीत्वाजरं वपुः ॥६॥
यमो निर्घृणराजेन्द्रो नार्तं नामानुकम्पते । सर्वभूतदयोदारो जनो दुर्लभतां गतः ॥७॥
सर्वा एव मुने फल्गुविभवा भूतजातयः । दुःखायैव दुरन्तस्य दारुणा भोगभूमयः ॥८॥
आयुरत्यन्तचपलं मृत्युरेकान्तनिष्ठुरः । तारुण्यं चातितरलं बाल्यं जडतया हृतम् ॥९॥
कलाकलङ्कितो लोको बन्धवो भवबन्धनम् । भोगा भवमहारोगास्तृष्णाश्च मृगतृष्णिकाः ॥१०॥
शत्रवश्चेन्द्रियाण्येव सत्यं यातमसत्यताम् । प्रहरत्यात्मनैवात्मा मनसैव मनोरिपुः ॥११॥
अहंकारःकलङ्काय बुद्धयः परिपेलवाः । क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः ॥१२॥
वाञ्छा विषयशालिन्यः सच्चमत्कृतयः क्षताः । नार्यो दोषपताकिन्यो रसा नीरसतां गताः ॥१३॥
वत्स्ववस्तृतया ज्ञातं दत्तं चित्तमहंकृतौ । अभाववेधिता भावा भावान्तो नाधिगम्यते ॥१४॥
तप्यते केवलं साधो मतिराकुलितान्तरा । रागरोगो विलसति विरागो नोपगच्छति ॥१५॥
रजोगुणहता दृष्टिस्तमः संपरिवर्धते । न चाधिगम्यते सत्त्वं तत्त्वमत्यन्तदूरतः ॥१६॥
स्थितिरस्थिरतां याता मृतिरागमनोन्मुखी । धृतिर्वैधुर्यमायाता रतिर्नित्यमवस्तुनि ॥१७॥
मतिर्मान्द्येन मलिना पातैकपरमं वपुः । ज्वलतीव जरा देहे प्रतिस्फुरति दुष्कृतम् ॥१८॥
यत्नेन याति युवता दूरे सज्जनसंगतिः । गतिर्न विद्यते काचित्क्कचिन्नोदेति सत्यता ॥१९॥
मनो विमुह्यतीवान्तर्मुदिता दूरतां गता । नोज्ज्वला करुणोदेति दूरादायाति नीचता ॥२०॥
धीरताधीरतामेति पातोत्पातपरोजनः । सुलभो दुर्जनाश्लेषो दुर्लभः सत्समागमः ॥२१॥
आगमापायिनो भावा भावना भवबन्धिनी । नीयते केवलं क्कापि नित्यं भूतपरंपरा ॥२२॥
दिशोपि हि न दृश्यन्ते देशोप्यन्यापदेशभाक् । शैला अपि विशीर्यन्ते कैवास्था मादृशे जने ॥२३॥
अद्यते सत्तयापि द्यौर्भुवनं चापि भुज्यते । धरापि याति वैधुर्यं कैवास्था मादृशे जने ॥२४॥
शुषन्त्यापि समुद्राश्च शीर्यन्ते तारका अपि । सिद्धा अपि विनश्यन्ति कैवास्था मादृशे जने ॥२५॥
दानवा अपि दीर्यन्ते ध्रुवोप्यध्रुवजीवितः । अमरा अपि मार्यन्ते कैवास्था मादृशे जने ॥२६॥
शक्रोप्याक्रमते वक्त्रैर्यमोपि हि नियम्यते । वायुरप्येत्यवायुत्वं कैवास्था मादृशे जने ॥२७॥
सोमोपि व्योमतां याति मार्तण्डोप्येति खण्डताम् । मग्नतामग्निरप्येति कैवास्था मादृशे जने ॥२८॥
परमेष्ठ्यपि निष्ठावान्ह्रियते हरिरप्यजः । भवोप्यभावमायाति कैवास्था मादृशे जने ॥२९॥
कालः संकाल्यते येन नियतिश्चापि नीयते । स्वमप्यालीयतेनन्तं कैवास्था मादृशे जने ॥३०॥
अश्राव्यावाच्य दुर्दर्शत्त्वेनाज्ञातमूर्तिना । भुवनानि विडम्ब्यन्ते केनचिद्भ्रमदायिना ॥३१॥
अहंकारकलामेत्य सर्वत्रान्तरवासिना । न सोस्ति त्रिषु लोकेषु यस्तेनेह न बाध्यते ॥३२॥
शिलाशैलकवप्रेषु साश्वभूतो दिवाकरः । वनपाषाणवन्नित्यमवशः परिचोद्यते ॥३३॥
धरागोलकमन्तस्थसुरासुरगणास्पदम् । वेष्ट्यते धिष्ण्यचक्रेण पक्काक्षोटमिव त्वचा ॥३४॥
दिवि देवा भुवि नराः पातालेषु च भोगिनः । कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ॥३५॥
कामश्च जगदीशानरणलब्धपराक्रमः । अक्रमेणैव विक्रान्तो लोकमाक्रम्य वल्गति ॥३६॥
वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षणैः । आमोदितककुप्चक्रश्चेतो नयति चामलम् ॥३७॥
अनुरक्ताङ्गनालोललोचनालोकिताकृति । स्वस्थीकर्तुं मनः शक्तो न विवेको महानपि ॥३८॥
परोपकारकारिण्य़ा परार्तिपरितप्तया । बुद्ध एव सुखी मन्ये स्वात्मशीतलया धिया ॥३९॥
उत्पन्नध्वंसिनः कालवडवानलपातिनः । सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधौ ॥४०॥
सर्व एव नरा मोहाहुराशापाशपाशिनः । दोषगुल्मकसारङ्गा विशीर्णा जन्मजङ्गले ॥४१॥
संक्षीयते जगति जन्मपरंपरासु लोकस्य तैरिह कुकर्मभिरायुरेतत् । आकाशपादपलाकृतपाशकल्पं येषां फलं न हि विचारविदोपि विद्मः ॥४२॥
अद्योत्सर्वोयमृतुरेषतथेह यात्रा ते बान्धवःसुखमिदं सविशेषभोगम् । इत्थं मुधैव कलयन्सुविकल्पजालमालोलपेलवमतिर्गलतीह लोकः ॥४३॥
[ ९३२ ] इत्यार्षे० दैवदुर्विलासवर्णनं नाम षङ्विंशः सर्गः ॥२६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP