शून्यवादः - श्लोक १ ते २५
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
एवमुक्ते sनुमानस्य ज्ञानमाश्रित्य दूषणे ।
ज्ञानप्रवृत्त्यशक्त्या तु परः प्रत्यवतिष्ठते ॥१॥
‘ यत्तावन्मन्यमानेन प्रत्यक्षं भवतोच्यते ।
दूषणं तद्विरोधादि तदिदानीं परीक्ष्यताम् ॥२॥
प्रवर्तितुं हि किं शक्तं स्तम्भाद्यर्थे बहिः स्थिते ।
अथ वाssत्मांश एवैतदू ग्राह्ये त्तीणं न वस्तुनि ’ ॥३॥
तद्यद्येतेन बाह्योsर्थो गृह्यते दूषणं ततः ।
त्वदुक्तं सर्वमात्भांशे ग्राह्ये तन्नोपपद्यते ॥४॥
तत्र तावदिदं सिद्धं सर्वप्राणभृतामपि ।
ग्राह्यत्वं नीलपीतादिदीर्घाद्याकारवस्तुनः ॥५॥
न चाsप्याकारभेदेन ज्ञानज्ञेयाsवधारणा ।
न चाsन्यतरधर्मत्वं विस्पष्टं तत्र ( १ ) गृह्यते ॥६॥
गृह्यमाणस्य चाsस्तित्वं नाsग्राह्यस्याsप्रमाणकम् ।
तस्मादाकारवदू वस्तु ग्राह्यत्वाद्विद्यते ध्रुवम् ॥७॥
‘ अतः परीक्षमाणानां ज्ञानमाकारवद्यदि ।
तन्मात्रे च प्रमा क्षीणा ततो नास्त्यर्थकल्पना ॥८॥
यदि वा ss कारवत्ता स्याद्बाह्यस्यैवेह वस्तुनः ।
तदस्ति गृह्यमाणत्वात्तत्सिद्ध्यैवास्तिधीरपि ’ ॥९॥
किं तावदत्र युक्तं स्यात् ? ज्ञानमाकारवत्, कुतः ?
एकमाकारवद्वस्तु ग्राह्यम्त्यध्यगीष्महि ॥१०॥
तद्यद्याssकारवानर्थो बाह्यः कल्प्येत तस्य च ।
ग्राह्यत्वमन्यथा न स्यादिति ग्राहककल्पना ॥११॥
तेनाssकारवतः क्लृप्तादू ग्राह्यादाकारवर्जितम् ।
वस्त्वन्तरं प्रकल्प्यं स्वादू ग्राहकं निष्प्रमाणकम् ॥१२॥
तस्याsकल्पनमिच्छंश्चेदर्थे ग्राहकतां वदेः ।
संज्ञामात्रे विसंवादः सिद्धा त्वेकाsर्थकल्पना ॥१३॥
ग्राह्यग्राहकयोरैक्यं सर्वथा प्रतिपाद्यते ।
बाह्याभ्यन्तररूपश्च परिकल्प्यो मृषेष्यते ॥१४॥
‘ मत्पक्षे यद्यपि स्वच्छो ( १ ) ज्ञानात्मा परमार्थतः ।
तथाsप्यनादौ संसारे पूर्वज्ञानप्रसूतिभिः ॥१५॥
चित्राभिश्चित्रहेतुत्वाद्वासानभिरुपप्लवात् ।
स्वानुरूप्येण नीलादि ग्राह्यग्राहकदूषितम् ( २ ) ॥१६॥
प्रविभक्तमिवोत्पन्नं नाsन्यमर्थमपेक्षते ’ ।
अन्योन्यहेतुता चैव ज्ञानशक्त्योरनादिका ॥१७॥
अनेककल्पनायाश्च ज्यायसी ह्येककल्पना ।
शक्तिमात्रस्य भेदश्च वस्तुभेदाद्विशिष्यते ॥१८॥
‘ तस्मादुभयसिद्धत्वाज् ज्ञानस्याssकारकल्पना ।
ज्यायसी ’ भवतस्त्वर्थं कल्पयित्वा भवेदियम् ॥१९॥
तदसिद्धावशक्तत्वात् तेनैवं विप्रकृष्टता ।
प्रत्यासन्नं च सम्बद्धं ( १ ) ग्राह्यं मम भविष्यति ॥२०॥
इतश्चाssकारवज्ज्ञानं यस्मात्तद्वत्प्रकाशकम् ।
स्वयं प्रकाशहीनस्य बाह्यस्योपासनं मतम् ( १ ) ॥२१॥
न चाsगृहीते ज्ञानाख्ये ( २ ) प्रकाश्योsर्थोवधार्यते ।
तदधीनप्रकाशत्वाद्दीपाssभासे ( ३ ) यथा घटः ॥२२॥
‘ उत्पन्नेष्वपि चाsर्थेषु प्रकाशाभावतः ( ४ ) क्कचित् ।
प्रतिबन्धकयोगाद्वा संवित्तिर्नोपजायते ॥२३॥
ज्ञानस्योत्पद्यमानस्य प्रतिबन्धो न कश्चन ।
न चाsप्रकाशरूपत्वं येनास्याsग्रहणं भवेत ॥२४॥
प्राक् चाsर्थग्रहणादिष्टा तस्योत्पत्तिस्तदैव च ।
संवेदनं भवेदस्यं ’ न चेत् कालान्तरेsपि न ॥२५॥
N/A
References : N/A
Last Updated : November 12, 2016
TOP