शून्यवादः - श्लोक ७६ ते १००
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
ग्राहकग्रहणेsप्येंवं ग्राह्यसंवेदनं भवेत् ।
शुद्धमेव निराकारं ग्राहकं संवि( १ )दस्ति हि ॥७६॥
ग्राह्यादभिन्नतायां च सा संवित्तिर्न युज्यते ।
ग्राहको वा न गृह्येत तद्ग्राह्याsननुभूतिवत् ॥७७॥
यथावदू ग्राह्यसंवित्तौ ग्राहकग्रहणेsपि वा ।
ग्राह्यग्राहकसंवित्तिर्नास्त्येव स्यादू द्वयोरपि ॥७८॥
स बहिर्देशसंबद्ध इत्यनेन निरूप्यते ।
ग्राह्याssकारस्य संवित्तिर्ग्राहकाsनुभवादृते ॥७९॥
परं प्रति तु ( २ ) साध्यत्वादर्थस्याssआकारसिद्धये ।
बहिर्देशेन सम्बन्धो न हेतुत्वाय कल्पते ॥८०॥
तस्माद्वहिरितीहेदं निष्कृष्टं ग्राहकांशतः ।
संवेद्यं नीलपीतादि ( ३ ) प्रत्यक्षादेरुदाहृतम् ॥८१॥
न पूर्वं ज्ञायते बुद्धिरित्यत्रैतद्वदिष्यते ।
ग्राहकस्यैव संवित्तिर्लक्ष्यते ग्रहणे क्कचित् ॥८२॥
न स्मरामि मया कोsपि गृहीतोsर्थस्तदेति हि ।
स्मरन्ति ग्राहकोत्पादग्राह्यरूपविवर्जितम् ॥८३॥
तस्मादभिन्नतायां च ग्राह्येsपि स्मरणं भवेत् ।
ग्राहकस्मृतिनिर्भासात् तत्राप्येषैव गृह्यते ॥८४॥
तदत्यन्ताsविनाभावान्नैकाssकारं हि जायते ।
अन्वयव्यतिरेकाभ्या सिद्धैवं भिन्नता तयोः ॥८५॥
ग्राह्यांशो ग्राहकांशेन गृह्यते ग्राहकः पुनः ।
गृह्येतेति न वक्तव्यं ग्राहकान्तरवर्जनात् ॥८६॥
ग्राह्यांशेनाsप्यशक्तत्वान्न तस्य ग्रहणं भवेत् ।
ग्राहकत्वेन चैतस्य हीयेतैव द्विरूपता ॥८७॥
ग्राहके गृह्यमाणे च ग्राह्यमात्रप्रसञ्जनम् ।
न स्यादाकार एकश्चेदितरस्यापि नास्तिता ॥८८॥
उद्धवाsभिभवाभ्यां ग्राह्याsग्राह्यत्वदर्शनम् ।
यथा दीपप्रभादीनां रूपमात्रोपलम्भनम् ॥८९॥
दिवा चाsग्नेः समीपस्थैः स्पर्श एवोपलभ्यते ।
गन्धवदूद्रव्यवृत्तौ च गन्धस्यैवोपलम्भनम् ॥९०॥
न गुणान्तरसंवित्तिर्यथाsत्राभिभवात्तथा ।
नाssकारान्तरसंवित्तिर्ग्राह्यग्राहकबुद्धिषु ॥९१॥
ग्राह्यादनन्यभूतोsपि कश्चिन्नैवोपलभ्यते ।
नित्यानित्यादयो धर्माः शब्दादिग्रहणे यथा ॥९२॥
अभेदं वाभ्युपेत्यायं प्रसङ्गो यदि गीयते ।
एकस्मिन् गृह्यमाणेंsशे न गृह्येतापरः कथम् ॥९३॥
तस्माद्यत् स्याद्यदा योग्यं तस्यैव ग्रहणं तदा ।
द्वयं च त्वदुपन्यस्तं शक्त्य भावान्न गृह्यते ॥९४॥
कुतोsयमेकवस्तुत्वे योग्यायोग्यत्वसम्भवः ।
उद्भवाभिभवात्मत्वं कथं चैकस्य कल्पितम् ॥९५॥
एकांशाभिभवे च स्यादितराभिभवोsपि ते ।
तथा तस्याभिभूतत्वादू ग्राह्यत्वं न च युज्यते ॥९६॥
अयोग्यता विकल्प्यैवं दृष्टान्ता येsत्र कीर्तिताः ।
रूपादिभेदात्तत्र स्यादुद्भवाsभिभवाद्यपि ॥९७॥
यदाप्येकान्ततो भेदो रूपादेर्न परस्परम् ।
तदापि द्रव्यरूपस्य परिणामस्तथा तथा ॥९८॥
‘ अभिन्नत्वेsपि न ग्राह्यमिति पच्चाsब्रवीद्भवान् ।
कृतकत्वादिधर्माणां धीभेदेsनन्यता ( १ ) कथम् ॥९९॥
न ह्यन्यत्प्रत्ययादस्ति भिन्नादू ग्राह्यस्य भेदकम् ’ ।
न चेयत्तैव भेदस्य देशतो मूर्तितोsपि वा ॥१००॥
N/A
References : N/A
Last Updated : November 12, 2016
TOP