सिद्धसिद्धान्तपद्धतिः - द्वितीयोपदेशः
सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.
The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath.
अथ पिण्डविचारः कथ्यते ॥
पिण्डे नवचक्राणि ॥ आधारे ब्रह्मचक्रं
त्रिधावर्तं भगमण्डलाकारं तत्र मूलकन्दः तत्र शक्तिं
पानाकारां ध्यायेत् तत्रैव कामरूपं पीठं सर्वकामप्रदं भवति ॥१॥
द्वितीयं स्वाधिष्ठानचक्रं तन्मध्ये पश्चिमाभिमुखं लिङ्गं प्रवाला -
ङ्कुरसदृशं ध्यायेत् तत्रैवोड्यानपीठं जगदाकर्षणं भवति ॥२॥
तृतीयं नाभिचक्रं पञ्चावर्तं सर्पवत्कुण्डलाकारं तन्मध्ये
कुण्डलिनीं शक्तिं बालार्ककोटिसदृशीं ध्यायेत् सा मध्या
शक्तिः सर्वसिद्धिदा भवति ॥३॥
चतुर्थं हृदयाधारमष्टदलकमलमधोमुखं तन्मध्ये कर्णिकायां
लिङ्गाकारां ज्योतिर्ध्यायेत् सैव हंसकला सर्वेन्द्रियवश्या भवति ॥४॥
पञ्चमं कण्ठचक्रं चतुरंगुलं तत्र वामे इडा चन्द्रनाडी दक्षिणे
पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां ध्यायेत् सैवानाहतकला
अनाहतसिद्धिर्भवति ॥५॥
षष्ठं तालुचक्रं तत्रामृतधाराप्रवाहः घंटिकालिङ्गं मूलरन्ध्रं
राजदन्तं शंखिनीविवरं दशमद्वारं तत्र शून्यं ध्यायेत् चित्त -
लयो भवति ॥६॥
सप्तमं भूचक्रं मध्यमाङ्गुष्ठमात्रं ज्ञाननेत्रं दीपशिखाकारं
ध्यायेत् वाचां सिद्धिर्भवति ॥७॥
अष्टमं ब्रह्मरन्ध्रनिर्वाणचक्रं सूचिकाग्रवेध्यं धूमशिखाकारं
ध्यायेत् तत्र जालन्धरपीठं मोक्षप्रदं भवति ॥८॥
नवममाकाशचक्रं षोडशदलकमलमूर्ध्वमुखं तन्मध्ये
कर्णिकायां त्रिकूटाकारां तदूर्ध्वशक्तिं तां परमशून्यां ध्यायेत्
तत्रैव पूर्णगिरिपीठं सर्वेच्छासिद्धिर्भवति ॥९॥
इति नवचक्रस्य विचारः ।
अथ षोडशाधारः कथ्यते ॥
तत्र प्रथमं पादाङ्गुष्ठाधारं तत्राग्रतस्तेजोमयं ध्यायेत् दृष्टिः
स्थिरा भवति ॥१०॥
द्वितीयं मूलाधारं सूत्रं वामपार्ष्णिना निपीड्य स्थातव्यं तत्राग्नि -
दीपनं भवति ॥११॥
तृतीयं गुदाधारं विकाससंकोचं निराकुञ्चयेत् अपानवायुः
स्थिरो भवति ॥१२॥
चतुर्थं मेढ्राधारं लिङ्गसंकोचनेन ब्रह्मग्रंथित्रयं भित्त्वान भ्रमर -
गुहायां विश्रम्य तत ऊर्ध्वमुखे बिन्दुस्तम्भनं भवति । एषा
वज्रौली प्रसिद्धा ॥१३॥
पञ्चममोड्याणा धारयोर्बन्धना न्मलमूत्रसंकोचनं भवति ॥४॥
षष्ठे नाभ्याधारे ॐकारमेकचित्तेनोच्चारिते नादलयो भवति ॥१५॥
सप्तमे हृदयाधारे प्राणं निरोधयेत् कमलविकासो भवति ॥१६॥
अष्टमे कण्ठाधारे कण्ठमूलं चिबुकेन निरोधयेत् इडापिंगलयोर्वायुः
स्थिरो भवति ॥१७॥
नवमे घण्टिकाधारे जिह्वाग्रं धारयेत् अमृतकला स्रवति ॥१८॥
दशमे ताल्वाधारे ताल्वन्तगर्भे लंबिकां चालनदोहनाभ्यां
दीर्घीकृत्वा विपरीतेन प्रवेशयेत् काष्ठी भवति ॥१९॥
एकादशमथ जिह्वाधारं तत्र जिह्वाग्रं धारयेत् सर्वरोगनाशो
भवति ॥२०॥
द्वादशं भ्रूमध्याधारं तत्र चन्द्रमन्डलं ध्यायेत् शीतलतां याति ॥२१॥
त्रयोदशं नासाधारं तस्याग्रं लक्षयेत् मनः स्थिरं भवति ॥२२॥
चतुर्दशे नासामूलं कवाटाधारं तत्र दृष्टिं धारयेत् षण्मासाज्ज्योतिः -
पुंजं पश्यति ॥२३॥
पञ्चदशे ललाटाधारं तत्र ज्योतिःपुंजं लक्षयेत् तेजस्वी भवति ॥२४॥
अवशिष्टे ब्रह्मरन्ध्रे आकाशचक्रं तत्र श्रीगुरुचरणाम्बुजयुग्मं
सदावलोकयेत् आकाशवत्पूर्णो भवति । इतिषोडशाधारः ॥२५॥
अथ लक्ष्यत्रयं ॥
मूलकन्दाद्दण्डलग्नां ब्रह्मनाडीं श्वेतवर्णां ब्रह्म -
रन्ध्रपर्यतं गतां संस्मरेत् तन्मध्ये कमलतन्तुनिभां विद्युत्कोटि -
प्रभामूर्ध्वगामिनीं तां मूर्तिं मनसा लक्षयेत् तत्र सर्व -
सिद्धिदा भवति ॥२६॥
अथवा ललाटोर्ध्वे कोलोलाटमण्डपे स्फुरत्काराकारं
लक्षयेत् । अथवा भ्रमरगुहामध्ये आरक्तभ्रमराकारं
लक्षयेदथवा कर्णद्वयं तर्जनीभ्यां निरोधयेत् ततः शिरो -
मध्ये धूं धूं कारं नादं श्रृणोति अथवा चक्षुर्मध्ये नीलज्योति -
रूपं पुतल्याकारं लक्षयेदित्यन्तर्लक्ष्यम् ॥२७॥
बहिर्लक्ष्यं कथ्यते ॥
नासाग्रात् बहिरंगुलचतुष्टये नीलज्योतिः -
संकाशं लक्षयेत् । अथवा नासाग्रात् षडंगुल अधोवायु -
तत्त्वं धूम्रवर्णं लक्षयेदथवा अष्टांगुले आरक्तं तेजस्तत्वं
लक्षयेत् अथवा दशाङ्गुले कल्लोलवदापस्तत्वं
लक्षयेत् । अथवा नासाग्रात् द्वादशाङ्गुले पीतवर्णं
पार्थिवतत्त्वं लक्षयेदथवा आकाशमुखं दृष्ट्वावलोकयेत्
किरणानुकुलितं पश्यति एवं निर्मलीकरणम् । अथवोर्ध्व -
दृष्ट्यान्तरालं लक्षयेत् ज्योतिर्मुखानि पश्यति अथवा यत्र
तत्राकाशं लक्षयेदाकाशसदृशं चित्तं मुक्तिप्रदं भवति अथवा
दृष्ट्यान्तस्तप्तकांचनसंनिभां भूमिं लक्षयेत् दृष्टिः स्थिरा
भवति । इत्यनेकविधं बहिर्लक्ष्यम् ॥२८॥
अथ मध्यमं लक्ष्यं कथ्यते ॥
श्वेतवर्णं वा रक्तवर्णं वा कृष्णवर्णं
वा अग्निशिखाकारं वा ज्योतिरूपं वा विद्युदाकारं सूर्यमण्डलाकारं
वा अर्द्धचन्द्राकारं वा यथेष्टस्वपिण्डमात्रं
स्थानवर्जितं मनसा लक्षयेत् इत्यनेकविधं मध्यमं लक्ष्यम् ॥२९॥
अथ व्योमपञ्चकं लक्षयेत् ॥ आकाशं पराकाशं महाकाशं
तत्त्वाकाशं सूर्याकाशमिति व्योमपञ्चकम् । बाह्याभ्यन्तरेsत्यन्तं
निर्मलं निराकारमाकाशं लक्षयेत् । अथवा बाह्याभ्यन्तरेs -
त्यन्तान्धकारनिभं पराकाशमवलोकयेत् । बाह्याभ्यन्तरे
कालानलसंकाशं महाकाशमवलोकयेत् । बाह्याभ्यन्तरे
निजतत्त्वस्वरूपं तत्वाकाशमवलोकयेत् । अथवा बाह्याभ्यन्तरे
सूर्यकोटिसदृशं सूर्याकाशमवलोकयेत् । एवं व्योम -
पञ्चकावलोकनेन व्योमसदृशो भवति ॥३०॥
उक्तञ्च :-
नवचक्रं कलाधारं त्रिलक्ष्यं व्योमपञ्चकम् ।
सम्यगेतन्न जानाति स योगी नामधारकः ॥३१॥
अथ अष्टाङ्ग योगः ।
यमनियमासनप्राणायामप्रत्याहार -
धारणाध्यानसमाधयोsष्टाङ्गानि । यम इति उपशमः
सर्वेन्द्रियजयः आहार - निद्रा - शीत - वातातपजयश्चैवं
शनैः शनैः साधयेत् ॥३२॥
नियम इति मनोवृत्तीनां नियमनमिति एकान्तवासो निःसंगतौ -
दासीन्यं यथा - प्राप्ति - सन्तुष्टिर्वैरस्यं गुरुचरणावरूढत्वामिति
नियमलक्षणम् ॥३३॥
आसनमिति स्वस्वरूपे समासन्नता । स्वस्तिकासनं पद्मासनं
सिद्धासनमेतेषां मध्ये यथेष्टमेकं विधाय सावधानेन
स्थातव्यं इत्यासनलक्षणम् ॥३४॥
प्राणायाम इति प्राणस्य स्थिरता रेचक - पूरक - कुम्भक -
संघट्टकरणानि चत्वारि प्राणायाम - लक्षणम् ॥३५॥
प्रत्याहारमिति चैतन्यतरङ्गाणां प्रत्याहरणं यथा नानाविकारग्रसनोत्पन्न -
विकारस्यापि निवृत्तिः निर्भातीति प्रत्याहारलक्षणम् ॥३६॥
धारणेति सबाह्याभ्यन्तर एकमेव निजतत्त्वस्वरूपमेवान्तः -
करणेन साधयेत् यथा यद्यदुत्पद्यते तत्तन्निराकारे धारयेत्
स्वात्मानं निर्वातदीपमिव धारयेदिति धारणालक्षणम् ॥३७॥
अथ ध्यानमिति ॥ अस्ति कश्चन परमाद्वैतस्य भावः स
एव आत्मेति यथा यद्यत्स्फुरति तत्तत्स्वरूपमेवेति भावयेत्
सर्वभूतेषु समदृष्टिश्चेति ध्यानलक्षणम् ॥३८॥
अथ समाधिलक्षणम् । सर्वतत्त्वानां समावस्था निरुद्यमत्वमनायास -
स्थितिमत्त्वमिति समाधिलक्षणम् ॥ इति अष्टाङ्गयोगलक्षणम् ॥
॥ इति श्रीगोरक्षणाथकृतौ सिद्धसिद्धान्तपद्धतौ पिण्डविचारो नाम द्वितीयोपदेशः ॥२॥
N/A
References : N/A
Last Updated : November 25, 2016
TOP