सिद्धसिद्धान्तपद्धतिः - चतुर्थोपदेशः
सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.
The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath.
अथपिण्डाधारः कथ्यते ॥
अस्ति काचिदपरम्परा संवित्स्वरूपा
सर्वपिण्डाधारत्वेन नित्यप्रबुद्धा निजा शक्तिः
प्रसिद्धा कार्यकारणकर्तृणामुत्थान - दशांकुरोन्मीलनेन
कर्तारं करोति अतएवाधारशक्तिरिति कथ्यते ।
अत्यन्तं निजप्रकाश - स्वसंवेदानुभवैक्यगम्यमान - शास्त्र
लौकिक - साक्षात्कार - साक्षिणी सा पराचिद्रूपिणी
शक्तिर्गीयते । सैव शक्ति र्यदा सहजेन स्वस्मिन्नुन्मीलिन्यां
निरुत्थानदशायां वर्तते तदा शिवः सैव भवति ॥१॥
अतएव कुलाकुलस्वरूपा सामरस्य - निज - भूमिका निगद्यते ॥२॥
कुलमिति । परासत्ताहन्ता - स्फुरत्ता - कलास्व -
रूपेण सैव पञ्चधा विश्वस्याधारत्वेन तिष्ठति ॥३॥
अतएव परापरा निराभासावभासकात्प्रकाशस्वरूपा या सा परा ॥४॥
अनादि - संसिद्धा परमाद्वैत - परमेकमेवास्तीति या
अङ्गीकारं करोति सा सत्ता ॥५॥
अनादिनिधनोsप्रमेय - स्वभावः किरणानन्दोsस्म्यहमि -
त्यहं - सूचनशीला या सा पराsहन्ता ॥६॥
स्वानुभव - चिच्चमत्कार - निरुत्थान - दशां प्रस्फुटी
करोति या सा स्फुरत्ता ॥७॥
नित्य - शुद्ध - बुद्ध - स्वरूपस्य स्वयं प्रकाशत्वमाकलयतीति
या सा पराकलेति उच्यते ॥८॥
अकुलमिति । जातिवर्ण - गोत्राद्यखिल - निमित्तत्वेनैकमेवास्तीति
प्रसिद्धं ।
तथा चोक्तमुमामहेश्वरसंवादे :-
निरुत्तरेsनन्यत्वादखण्डत्वादद्वयत्वादनन्यांश्रयत्वाद्
निर्धामत्वादनामत्वादकुलं स्यान्निरुत्तरमिति ॥९॥
एवं कुलाकुल - सामरस्य - प्रकाश - भूमिका - स्फुटीकरणे एकैव समर्था या साsपरम्परा शक्तिरेवावशिष्यते । अपरम्परं निखिल -
विश्वप्रपञ्चजालं परं तत्त्वं सम्पादयत्येकीकरोत्य -
परम्पराशक्तिराशावती प्रसिद्धा ॥१०॥
उक्तं ललित - स्वच्छन्दे :-
अकुलं कुलमाधत्ते कुलं चाकुलमिच्छति ।
जल - बुद्बुदवद्-न्यायादेकाकारः परः शिवः ॥११॥
अतएवैकाकार एवानन्त - शक्तिमान् निजानन्दतयावस्थि -
तोsपि नानाकारत्वेन विलसन् स्वप्रतिष्ठां स्वयमेव भजतीति
व्यवहारः ।
उक्तं प्रत्यभिज्ञायाम् :-
अलुप्त - शक्तिमान्नित्यं सर्वाकारतया स्फुरन् ।
पुनः स्वेनैव रूपेण एक एवावशिष्यते ॥१२॥
अतएव परमकारणं परमेश्वरः परात्परः शिवः
स्वरूपतया सर्वतोमुखः सर्वाकारतया स्फुरितुं शक्नोतीत्यतः शक्तिमान् ।
उक्तं वामकेश्वरतन्त्रे :-
शिवोsपि शक्तिरहितः शक्तः कर्तुं न किञ्चन ।
स्वशक्त्या सहितः सोsपि सर्वस्याभासको भवेत् ॥१३॥
अतएवानन्त - शक्तिमान् परमेश्वरः विश्वसंवित्स्वरूपी विश्वमयो
भवतीति प्रसिद्धं सिद्धानां च परापर - स्वरूपा कुण्डलिनी
वर्तते । अतस्ते पिण्डसिद्धाः प्रसिद्धाः । सा कुण्डलिनी प्रबुद्धाsप्रबुद्धा
चेति द्विधा । अप्रबुद्धेति तत्तत्पिण्डे चेतन - रूपा ( स्वभावेन नाना -
चिन्ता - व्यापारोद्यमप्रपंचरूपा ) कुटिल - स्वभावा कुण्डल्लिने ख्याता ।
सैव योगिनां तत्तद्विलसितविकाराणां निवारणोद्यम - स्वरूपा
कुण्डलिन्यूर्ध्वगामिनी सुप्रसिद्धा भवति ॥१४॥
ऊध्वमिति । सर्वतत्वान्यापि स्व - स्वरूपमेवेत्यूर्ध्वे वर्तते अतएव
सा विमर्शरूपिणी योगिनः स्व - स्वरूपमगच्छन्तीति
सुप्रसिद्धा ॥१५॥
तथा चोक्तमेवरूलके :-
मध्यशक्ति - प्रबोधेन अधः - शक्ति - निकुञ्चनात् ।
ऊर्ध्व - शक्ति - निपातेन प्राप्यते परमं पदम् ॥१६॥
एकैव सा मध्योर्ध्वधः प्रभेदेन त्रिधा भिन्ना शक्तिरभि -
धीयते ॥१७॥
बाह्येन्द्रिय - व्यापार - नाना - चिन्तामया सैवाधः - शक्तिरुच्यते ।
अतएव ये योगिनः तस्या आकुञ्चनं मूला - धार - बन्धनात्
सिद्धं स्यात् । यस्माच्च चराचरं जगदिदं चिदचिदात्मकं
प्रभवति । तदेव मूलाधारं संवित्प्रसरं प्रसिद्धम् ॥१८॥
उक्तं शिवानन्दाचार्यैः :-
सर्व- शक्ति - प्रसर - संकोचाभ्यां जगत्सृष्टिः
संहृतिश्च भवत्येव न सन्देहः तस्मात्तां मूलमि -
त्युच्यते । अतः प्रायेण सर्वसिद्धाः मूलाधार - रता भवन्ति ॥१९॥
तरङ्गित्त - स्वभावं जीवात्मानं वृथा भ्रमन्तमपि स्वप्रकाशमध्ये
स्व - स्वरूपतया सर्वदा धारयितुं समर्था या सा मध्याशक्तिः
कुण्डलिनी गीयते ।
स्थूल - सूक्ष्म - रूपेण महासिद्धान्तं प्रतीयते इति निश्चयः ॥२०॥
स्थूलेति निखिल - ग्राह्याधार - ग्राह्यस्वरूपापि पदार्थन्तरै -
र्भ्राम्यमाणा इव तद्रूपा वर्तते सा कुण्डलिनी साकार -
स्थूला पुनस्त्वियमेव स्व - प्रसार - चातुर्यतया वर्तमाना योगिनां
परानन्दतया कुण्डलिनी या निश्चयभूता वर्तते सा सूक्ष्मा
निराकारा प्रबुद्धा महासिद्धानां मते प्रसिद्धा ॥२१॥
उक्तं तत्त्वसारे :-
सृष्टिः कुण्डलिनी ख्याता द्विधा भावगता तु सा ।
एकधा स्थूलरूपा च लोकानां प्रत्यया ( गा ) त्मिका ॥२२॥
अपरा सर्वगा सूक्ष्मा व्याप्तिव्यापक - वर्जिता ।
तस्या भेदं न जानाति मोहितः प्रत्ययेन तु ॥२३॥
तस्मात्सूक्ष्मा परा संवित्स्वरूपा मध्याशक्तिः कुण्डलिनी
योगिभिर्देह - सिध्यर्थं सद्गुरु - मुखाज्ज्ञात्वा स्व - स्वरूप - दशायां
प्रबोधनीया ॥२४॥
अथ ऊर्ध्व - शक्तिनिपातः कथ्यते ।
सर्वेषां तत्त्वानामुपरि - वर्तमानत्वन्निर्नाम
परमं पदमेव ऊर्ध्वं प्रसिद्धं तस्याः
स्व - संवेदन - नाना - साक्षात्कारसूचनशीला या ऊर्ध्व -
शक्तिरभिधीयते । तस्याः निपातनमिति स्व - स्वरूप - द्विधा -
भास - निरासः किन्तु स्व - स्वरूपाखण्डत्वेन भवति ॥२५॥
उक्तं च -
शिवस्याभ्यन्तरे शक्तिः शक्तेरभ्यन्तरः शिवः ।
अन्तरं नैव जानीयाच्चन्द्रचन्द्रिकयोरिव ॥२६॥
अत ऊर्ध्व - शक्ति -प निपातेन महासिद्ध - योगिभिः परमपदः
प्राप्यत इति सिद्धम् ॥२७॥
उक्तञ्च :-
सत्त्वे सत्त्वे सकलरचना राजते संविदेका ।
तत्त्वे तत्त्वे परम - महिमा संविदेवावभाति ॥२८॥
भावे भावे बहुल तरला लम्पटा संविदेषा ।
भासे भासे भजन - चतुरा बृंहिता संविदेव ॥२९॥
किमुक्तं भवति परापर - विमर्शरूपिणी संविन्नाना - शक्ति -
रूपेण निखिल - पिण्डाधारत्वेन वर्तते इति सिद्धान्तः ॥३०॥
॥ इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ पिण्डाधारो नाम चतुर्थोपदेशः ॥४॥
N/A
References : N/A
Last Updated : November 25, 2016
TOP