सिद्धसिद्धान्तपद्धतिः - पञ्चमोपदेशः

सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.
The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath.


अथ पिण्डपदयोः समरसकरणं कथ्यते -
महासिद्धयोगिभिः पूर्वोक्तक्रमेण परपिण्डादिस्वपिण्डान्तं
ज्ञात्वां परमपदे समरसं कूर्यात् ॥१॥
परमपदमिति स्वसंवेद्यं अत्यन्ताभासाभासकमयं ॥२॥
उक्तं तत्त्वसंहितायाम् :-
यत्र बुद्धिर्मनो नास्ति तत्त्वविन्नापरा कला ।
ऊहापोहौ न कर्तव्यौ वाचा तत्र करोति किम् ॥
वाग्मिना गुरुणा सम्यक् कथं तत्पदमीयते ।
तस्मादुक्तं शिवेनैव स्वसंवेद्यं परंपदम् ॥३॥
अतएव नानाविध - विचारचातुर्य - वचसा विस्मयं गत्वा
गुरुचरणतत्वात् निर्णीतत्वात् स्वसंवेद्यमेव परमं पदम्
प्रसिद्धमिति सिद्धान्तः ॥४॥
गुरुरत्र सम्यक् सन्मार्गदर्शनशीलो भवति ।
सन्मार्गो योगमार्गस्तदितरः पाषंडमार्गः ।
तदुक्तमादिनाथेन :-
योगमार्गेषु तंत्रेषु दीक्षितास्तांश्च दूषकाः ।
ते हि पाषंडिनः प्रोक्ताः तथा तैः सहवासिनः ॥५॥
यस्मिन् दर्शिते सति तत्क्षणात् स्वसंवेद्यसाक्षात्कारः
समुत्पद्यते । ततो गुरुरेवात्र कारणमुच्यते ॥६॥
तस्माद्गुरुकटाक्षपातात् स्वसंवेद्यतया च महासिद्ध -
योगिभिः स्वकीयं पिण्डं निरुत्थानानुभवेन समरसं क्रियते
इति सिद्धान्तः ॥७॥
तद्यथा - निरुत्थानप्राप्त्युपायः कथ्यते ।
महासिद्धयोगिनः स्वस्वरूपतयानुसन्धानेन निजावेशो भवति
निजावेशान्निपीडित - निरुत्थान - दशा - महोदयः कश्चिज्जायते ।
ततः सच्चिदानन्द - चमत्कारात् अद्भुताकारप्रकाशप्रबोधो जायते ।
प्रबोधादखिलमेतद् द्वयाद्वय - प्रकटतया चैतन्यभासाभासकं परात्परं
पदमेव प्रस्फुटं भवतीति सत्यं ॥८॥
अतं एव महासिद्धयोगिभिः सम्यक् ( उक्त ) गुरुप्रसादं लब्ध्वाs -
वधान - वलेनैक्यं भजमानैस्तत्क्षणात् परमं पदमेवानुभूयते ॥९॥
तदनुभवबलेन स्वकीयं सिद्धं सम्यक् निजपिण्डं परिज्ञात्वा
तमेव परमपदे एकीकृत्य तस्मिन् प्रत्यावृत्यारूढेवाभ्यन्तरे स्वपिण्ड
सिद्धयर्थं महत्त्वमनुभूयते ॥१०॥
निजपिण्डमिति स्वरूपकिरणानन्दोन्मेषमात्रं यस्योन्मेषस्य प्रत्या -
हरणमेव समरसकरणं भवति ॥११॥
अतएव स्वकीयं पिण्डं महारश्मिपुंजं स्वेनैवाकारेण प्रतीयमानं
स्वानुसन्धानेन स्वस्मिन्नुररीकृत्य महासिद्धयोगिनः पिण्डासिद्धयर्थं तिष्ठन्तीति प्रसिद्धम् ॥१२॥
अथ पिण्डसिद्धौ वेषः कथ्यते -
शंखमुद्राधारणञ्च केशरोमप्रधारणम् ।
अमरीपानममलं तथा मर्दनमुत्कटम् ॥१३॥
एकान्तवासो दीक्षा च सन्ध्या जपमाश्रया ।
झानभैरवमूर्तेस्तु तत्पूजा च सुरादिभिः ॥१४॥
शंखाध्यातं सिहंनादं कौपीनं पादुका तथा ।
अङ्गवस्त्रं बहिर्वस्त्रं कम्बलं छत्रमद्भुतम् ॥१५॥
वेत्रं कमंडलुञ्चैव भस्मना च त्रिपुण्ड्रकम् ।
कूर्यादेतान् प्रयत्नेन गुरुवन्दनपूर्वकम् ॥१६॥
तेषां पिण्डसिद्बौ सत्यां सर्वसिद्धयः सन्निधाना भवन्ति ॥१७॥
उक्तञ्च :-
यस्मिन् ज्ञाते जगत्सर्वं सिद्धं भवति लीलया ।
सिद्धयः स्वयमायान्ति तस्माद् ज्ञेयं परमं पदम् ॥१८॥
परं पदं न वेषेण प्राप्यते परमार्थतः ।
देहमूलं हि वेषं स्याल्लोकप्रत्ययहेतुकम् ॥१९॥
लोके निकृष्टमुत्कृष्टं परिगृह्य पृथक् कृतम् ।
तत्स्वधर्म इति प्रोक्तो योगमार्गे विशेषतः ॥२०॥
योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ॥२१॥
शास्त्रेष्वन्येषु सर्वेषु शिवेन कथितः पुरा ।
योगः सन्नहनोपायो ज्ञानसंगतियुक्तिषु ॥२२॥
लोके निकृष्टं सततं यं वा यं वा प्रकुर्वतो ।
तं वा तं वा वर्जयन्ति लोकज्ञानबलेन तु ॥२३॥
मनुष्याणां च सर्वेषां प्राक्संस्कारवशादिह ।
शास्त्र - युक्ति - समाचारः क्रमेण भवति स्फुटम् ॥२४॥
एवं पिण्डे संसिद्धे ज्ञानप्राप्त्यर्थं तच्च परमपदं महासिद्धानां
मतं परिज्ञाय तस्मिन्नहंभावे जीवात्मा च सहजसंयम -
सोपायाद्वैतक्रमेणोपलक्ष्यते ॥२५॥
तत्र सहजमिति ।
विश्वातीतं परमेश्वरं विश्वरूपेणावभासमानमिति
एकमेवास्तीति स्वस्वभावेन यद् ज्ञानं तत्सहजं प्रसिद्धम् ॥२६॥
संयम इति । सावधानानां प्रस्फुरद् - व्यापाराणां निजवृत्तीनां
संयमनं कृत्वा आत्मनि धीयते इति संयमः ॥२७॥
सोपायमिति । स्वयमेव प्रकाशमय स्वेनैव स्वात्मन्येकी -
कृत्य सदा तत्त्वेन स्थातव्यम् ॥२८॥
अद्वैतमिति । अकर्तृतयैव योगी नित्यतृप्तो निर्विकल्पः सदा
निरुत्थानत्वेन तिष्ठति ॥२९॥
उक्तश्च :-
सहजं स्वात्मसंवित्तः संयमः स्वात्मनिग्रहः ।
सोपायः स्वस्य विश्रान्तिरद्वैतं परमं पदम् ॥३०॥
तज्ज्ञेयं सद्गुरोर्वक्त्रात् नान्यथा शास्त्रकोटिभिः ।
न तर्कशब्दविज्ञानान्नाचाराद्वेदपाठनात् ॥३१॥
वेदान्तश्रवणान्नैव तत्त्वमस्यादिबोधनात् ।
न हंसोच्चारणाज्जीवब्रह्मणोरैक्यभावनात् ॥३२॥
न ध्यानान्न लयाल्लीनः सर्वज्ञः सिद्धिपारगः
स्वेच्छो योगी स्वयंकर्ता लीलया चाजरोsमरः ॥३३॥
अवध्यो देवदैत्यानां क्रीडते भैरवो यथा ।
इत्येवं निश्चलो योsसौ क्रमादाप्नोति लीलया ॥३४॥
असाध्याः सिद्धयः सर्वाः सत्यमीश्वरभासितम् ।
प्रथमे त्वरोगतासिद्धिः सर्वलोकप्रियो भवेत् ।
कांक्षते दर्शनं तस्य स्वात्मारूढस्य नित्यशः ॥३५॥
कृतार्थः स्यात्, द्वितीये तु कुरुते सर्वभाषया ।
तृतीये दिव्यदेहस्तु व्यालैर्व्यघ्रैर्न बाध्यते ॥३६॥
चतुर्थे क्षुत्तुषानिद्राशीततापविवर्जितः ।
जायते दिव्ययोगीशो दूरश्रावी न संशयः ॥३७॥
वाक्सिद्धिः पञ्चमे वर्षे परकायप्रवेशनम् ।
षष्ठे न छिद्यते शस्त्रैर्वज्रपातैर्न वाध्यते ॥३८॥
वायुवेगी क्षितित्यागी दूरदर्शी च सप्तमे ।
अणिमादिगुणोपेतस्त्वष्टमे वत्सरे भवेत् ॥३९॥
नवमे वज्रकायः स्यात् खेचरो दिक्चरो भवेत् ।
दशमे पवनाद्वेगी यत्रेच्छा तत्र धावति ॥४०॥
सम्यगेकादशे वर्षे सर्वज्ञः सिद्धिभाग्भवेत् ।
द्वादशे शिवतुल्योsसौ कर्ता हर्ता स्वयं भवेत् ॥४१॥
त्रैलोक्ये पूज्यते सिद्धः सत्यं श्रीभैरवो यथा ।
एवं द्वादशवर्षेषु सिद्धयोगी महाबलः ॥
जायते सद्गुरोः पादप्रभावान्नात्र संशयः ॥४२॥
गुरुकुलसन्तानञ्चेति पञ्चधा प्रोक्तम्
आई - सन्तानं विलेश्वर -प सन्तानं विभूति - सन्तानं नाथ - सन्तानं
योगीश्वर - सन्तानञ्चेति एषामपि सन्तानानां पृथक् पृथक् वैशिष्ट्यं वर्तते ॥४३॥
परमार्थतः सर्वं पाञ्चभौतिकं । तज्जाताः पुरुषाः । ( स्ववोघ ) सम्बोध -
मात्रैकरूपः सः शिवः । तदितरत्सर्वमज्ञानमव्यक्तं भवति तत्र
शिवस्तु ज्ञानं ॥४४॥
एतेषामपि सन्तानानां केचित्स्वरूपपराड्मुखाः वेश -
मात्रसम्पन्नाः क्रयविक्रयादिकं कुर्वन्ति सन्तानभेदं
प्रत्यन्योsन्यमधः कुर्वन्ति योगमार्गं द्वेषयन्ति ॥४५॥
रजसा घोरसंकल्पाः कामुकाः अतिमन्यवः ।
दाम्भिकाः मानिनः पापाः धिक्कुर्वन्त्यीश्वरप्रियान् ॥४६॥
साधुसङ्गम - सच्छास्त्र - परमानन्द - लक्शितान् ।
स्वेच्छाचारविहारैक - ज्ञानविज्ञानसंयुतान् ॥४७॥
यूयं दुष्टा वयं शिष्टा भ्रष्टा यूयं वयं तथा ।
इत्येवं परिवदन्ति संप्रमोहे निरन्तरम् ॥४८॥
पृथ्वी जलं तथा वह्निः वायुराकाशमेव च ।
एते सन्तानोदयास्तु सम्यगेव प्रकीर्तिताः ॥४९॥
काठिन्यञ्चार्द्रता तेजो धावनं स्थिरता खलु ।
गुणान्येतानि पञ्चैव सन्तानानां क्रमात् स्मृताः ॥५०॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः
एताश्च देवताः प्रोक्ताः सन्तानानां क्रमेण तु ॥५१॥
स्थूल - सूक्ष्म - कारणं तूर्यं तूर्यातीतमिति पञ्चवस्थाः क्रमेण
लक्ष्यन्ते । एतेषामपि सर्वेषां विज्ञाता यः स योगी स सिद्ध -
पुरुषः स योगीश्वरेश्वर इति परमरहस्यं प्रकाशितम् ॥५२॥
अतएव सम्यक् निजविश्रान्तिकारकं महायोगिनं सद्गुरुं सेव -
यित्वा सम्यक् सावधानेन परमं पदं सम्पाद्य तस्मिन् निज -
पिण्डे ( पिण्डं ) समरसभावं कृत्वाsत्यन्तं निरुत्थानेन सर्वानन्दतत्त्वे
निश्चलं स्थातव्यम् । ततः स्वयमेव महासिद्धो भवतीति
सत्यम् ॥५३॥
न विधिर्नैव वर्ण्श्च न वर्ज्यावर्ज्यकल्पना ।
न भेदो निधनं किञ्चिनाशौचं नोदकक्रिया ॥५४॥
योगीश्वरेश्वरस्यैवं नित्यतृप्तस्य योगिनः ।
चित्स्वात्मसुखाविश्रान्तिभावलब्धस्य पुण्यतः ॥५५॥
सम्यक् स्वभावविज्ञानात् क्रमाभ्यासान्न चासनात् ।
न वैराग्यान्न नैराश्यान्नहार - प्राण - धारणात् ॥५६॥
न मुद्रा - धारणाद्योगान्न मानकर्म - समाश्रयात् ।
न विरक्तौ वृथायासान्न कायक्लेशधारणात् ॥५७॥
न जपान्न तपोध्यानान्न यज्ञात्तीर्थसेवनात् ।
न देवार्चनाश्रयाद्भक्त्या नाश्रमाणाञ्च पालनात् ॥५८॥
न षङ्दर्शनकेशादिधारणान्न च मुण्डनात् ।
नानन्तोपाययन्तेभ्यः प्राप्यते परम पदम् ॥५९॥
एतानि साधनानि सर्वाणि दैहिकानि परित्यज्य परमपदेsदैहिके
स्थीयते सिद्धपुरुषैरिति ॥६०॥
तत्कथं । गुरुदृक्पातनात् प्रायो दृढानां सत्यवादिनां सा स्थिति -
र्जायते ॥६१॥
कथनाच्छक्तिपाताद्वा पादावलोकनात् ।
प्रसादात् स्वगुरोः सम्यक् प्राप्यते परमं पदम् ॥६२॥
अतएव शिवेनोक्तम् -
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ॥६३॥
वाड्मात्राद्वाथदृक्पातात् यः करोति च तत्क्षणात् ।
प्रस्फुटं शाम्भवं वेद्यं स्वसंवेद्यं परं पदम् ॥६४॥
करुनाखड्गपातेन छित्वा पाशाष्टकं शि(प)शोः ।
सम्यगानन्दजनकः सद्गुरुः सोsभिधीयते ॥६५॥
निमिषार्धार्धपाताद्वा यद्वा पादावलोकनात् ।
स्वात्मानं स्थिरमाधत्ते तस्मै श्रीगुरवे नमः ॥६६॥
नाना - विकल्प - विश्रान्तिं कथया कुरुते तु यः ।
सद्गुरुः स तु विज्ञेयो न तु मिथ्या - विडम्बकः ॥६७॥
अतएव परमपदप्राप्त्यर्थं स सद्गुरुः सदा वन्दनीयः
गुरुरिति गृणाति शं सम्यक् चैतन्यविश्रान्तिमुपदिशति ।
विश्रान्त्या स्वयमेव परात्परं परमपदमेव प्रस्फुटं भवति
तत्क्षणात्साक्षात्करो भवति ॥६८॥
अतएव महासिद्धानां मते प्रोक्तं । वाग्मात्रेण वा दृक्पात -
मात्रेण वा सम्यगवलोकनेन वा तत्क्षणान्मुहुर्विश्रान्तिमत्तां
नयतीति ( विश्रान्तियुक्तं करोतीति, ह )
यः स सद्गुरुर्भवति । नो चेन्निजविश्रान्तिं
विना पिण्डपदयोः समरसकरणं न भवतीति सिद्धान्तः ।
तस्मान्निजविश्रान्तिकारकः सद्गुरुरभिधीयते नान्यः ॥
पुनर्वागादि - शास्त्रदृष्टयानुमानतस्तर्क - मुद्रया भ्रामिको
गुरुस्त्याज्यः ॥६९॥
उक्तञ्च :-
ज्ञानहीनो गुरुस्त्याज्यः मिथ्यावादी विडम्बकः ।
स्वविश्रान्तिं न जानाति परेषां स करोति किम् ॥७०॥
शिलया किं परं पारं शिलासंघः प्रतार्यते ।
स्वयं तीर्णो भवेद्योsसौ परान्निस्तारयत्यलम् ॥७१॥
विकल्पसागरात्घोराच्चिन्ताकल्लोलदुस्तरात् ।
प्रपञ्च - वासना - दुष्ट ( ग्रह ) ग्राहजालसमाकुलात् ॥७२॥
वासना - लहरी - वेगाद्यः स्वं तारयितुं क्षमः ।
स्वस्थेनैवोपदेशेन निरुत्थानेन तत्क्षणात् ॥७३॥
तारयत्यैव दृकूपातात् कथनाद्वा विलोकनात् ।
तारिते स्वपदं धत्ते स्वस्वमध्ये स्थिरो भवेत् ॥७४॥
ततः स मुच्यते शिष्यो जन्मसंसारबन्धनात् ।
परानन्दमयो भूत्वा निष्कलः शिवतां व्रजेत् ॥७५॥
कुलानां कोटिकोटीनां तारयत्येव तत्क्षणात् ।
अतस्तं सद्गुरुं साक्षात् त्रिकालमभिवन्दयेत् ॥७६॥
सर्वाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् ।
भजनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ॥७७॥
किमत्र बहुनोक्तेन शास्त्रकोटिशतेन च ।
दुर्लभा चित्ताविश्रान्तिर्विना गुरुकृपां पराम् ॥७८॥
चित्तविश्रान्तिलब्धानां योगिनां दृढचेतसाम् ।
स्वस्वमध्ये निमग्नानां निरुत्थानं विशेषतः ॥७९॥
निमिषात्प्रस्फुटं भाति दुर्लंभ परमं पदम् ।
यस्मिन् पिण्डो भवेल्लीनः सहसा नात्र संशयः ॥८०॥
संवित्क्रिया - विकरणोदय - चिद्विलोल -
विश्रान्तिमेव भजतां स्वयमेव भाति ।
ग्रस्ते स्ववेगनिचये पदपिण्डमैक्यं,
सत्यं भवेत्समरसं गुरुवत्सलानाम् ॥८१॥
॥ इति श्रीगोरक्षनाथकृतौ सिद्धिसिद्धान्तपद्धतौ पिण्डपदयोः समरसकरणं नाम पञ्चमोपदेशः ॥५॥

N/A

References : N/A
Last Updated : November 25, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP