श्रीमद्गोरक्षनाथविरचितः - अमरौघप्रबोधः

सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.
The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath.


ओं नमोsस्त्वादिनाथाय मीननाथाय वै नमः ।
नमश्चौरङ्गिनाथाय सिद्धबुद्धाय धीमते ॥१॥
लयादिप्रतिपन्नानां कलहोत्सुकचेतसाम् ।
गोरक्षकेण कथितः प्रबोध - प्रत्ययात्मकः ॥२॥
लययोगो हठश्चैव मंत्रयोगस्तृतीयकः ।
चतुर्थो राजयोगश्च द्विधाभवविवर्जितः ॥३॥
यच्चित्तसन्ततलयः स लयः प्रदिष्टः ।
यस्तु प्रभञ्जनविधानरतो हठस्सः ।
यो मंत्रमूर्तिवशगः स तु मन्त्रयोगः ।
यश्चित्तबृत्तिरहितः स तु राजयोगः ॥४॥
ओषध्योsध्यात्मकश्चेति राजयोगो द्विधा क्कचित् ।
हठोsपि द्विविधः क्कापि वायुबिन्दुनिषेवणात् ॥५॥
षट्कर्मप्रतिपत्तिहेतुकमिदं मंत्रं न तद् दृश्यते ।
भ्रूनासादिषु कीटवन्न ( द ) हि मनो मग्नं कथञ्चिद्भवेत ॥
आधारे पवनो न याति विविधादभ्यासतो योगिनाम् ।
नित्यानन्दमयात्प्रभावनिलयाच्छ्रीराजयोगादृते ॥६॥
नित्यं मंत्रयतो लभेन्न नृपतां ( तिः ) नैवाधिपत्यं तथा ।
दिव्यस्त्रीनवसङ्गमोsप्यनुदिनं न ध्यायतो लभ्यते ॥
हस्तिनास्तुरगः खराच्च करभः शाल्योदनं कोद्रवात् ।
जायन्ते हठतः कथं वद विभो स्वीयं प्रभावं विना ॥७॥
केचिन्मूत्रं पिबन्ति प्रमलमशनतः केचिदश्नन्ति लालां ।
केचित्काष्ठीं प्रविष्टा युवतिभगवशाद्विन्दुमूर्ध्वं नयन्ति ॥
केचित्खादन्ति धातून्निखिलतनुसिरा वायुसञ्चारदक्षाः ।
नैतेषां देहसिद्धर्विगतनिजमनो राजयोगादृतेsस्मात् ॥८॥
चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे
एषाsमरोली वज्रोली सहजोली मतेति च ॥९॥
तथाच श्रीसम्पुटे :-
बिभ्राणः पवनं हठान्नियमितं ग्रासोsस्ति मीनोदरे ।
कैवल्यो भगवान्विमुच्य सहसा यावन्नचेतत्यसौ ॥
तं चोक्त्वा गिरिशेन भाषितमिदं कालो न चेतः परं ।
पार्वत्या सह मीननाथमवदनित्यं चिरं जीमहि ॥१०॥
यदि जीवेदोषधीभिः संसारे निरुपद्रवे ।
आमयास्ता जराग्रस्ता म्रियन्ते भिषजः कथम् ॥११॥
चरकानुचरणचतुराश्चटुलधियः सुश्रुतश्रवणलोलाः ।
अमरस्कौषधि.... वा ...ज्या कथमखिलंगतं तत्क्षयो भवति ॥१२॥
बिन्दुनादौ महौषध्यौ विद्येते सर्वजन्तुषु ।
तावविज्ञाय सरेsपि म्रियन्ते गुरुवर्जिताः ॥१३॥
चालयेत्संवृतं वायुं भानुमग्निंच धुक्ष्यति ।
ज्वलन्नसौ चलत्यस्माद्वीजश्चलति पार्वति ॥१४॥
यो जानात्यनयोस्सारं सद्गुरोरुपदेशतः ।
कालक्लेशजराव्याधिपापमृत्युभयं कुतः ॥१५॥
निर्याते चित्तरागे व्रजति खररुचौ मेरुमार्गं समन्तात् ।
दुद्रज्ञे ( ? ) वन्हिभावे स्रवति शशधरे पूरयत्याशुकाये ॥
उद्यत्यानन्दवृन्दे त्यजति तव ममेत्यादि मोहान्धकारे ।
प्रोद्भिन्ने ब्रह्मरन्ध्रे जयति शिव शिवा सङ्गमः कोप्यपूर्वः ॥१६॥
एक एवामरौघो हि राजयोगाभिधानकः ।
लयादिभिस्समायुक्तश्चतुर्थो दीयते कथम् ॥१७॥
मृदुमध्याधिमात्रश्च अधिमात्रतरस्तथा ।
चतुर्धा साधको ज्ञेयस्तत्सोपानमिहोच्यते ॥१८॥
मन्दोत्साही मन्दरागी पराधीनो विदूषकः ।
व्याधिस्थो हीनसत्वश्च ग्र ( गृ ) हवासी मृदुः स्मृतः ॥१९॥
समबुद्धिः समाभ्यासी समकायः समाश्रयः ।
मध्यस्थः सर्वकार्येषु मध्यसत्वोsभिधीयते ॥२०॥
क्षमावीर्यनयैर्युक्तो वयस्थस्सत्त्ववानपि ।
स्वाधीनश्च खरश्शूरस्सोsधिमात्रो निगद्यते ॥२१॥
सर्वशास्त्रकृताभ्यासो मनोज्ञो वीर्यशौर्यवान् ।
निर्मोहस्सर्वसम्पन्नो निर्विकारो महाश्रयः ॥२२॥
अधिमात्रतरस्सोsपि महाकायः प्रवर्तते ।
तरन्ति भवोम्भोधिं तारयन्ति परानपि ॥२३॥
मृदवे दीयते मंत्रो मध्याय लय उच्यते ।
अधिमात्रे हठं दद्यादमरौघो महेश्वरे ॥२४॥
तत्र मंत्रम् :-
अह ( ओ ) मिति एकाक्षरं मंत्रं तच्च सप्रणवादिकम् ।
शिवं शम्भुं हृदि ध्यात्वा द्वादशे भिन्नमण्डले ॥२५॥
एकलक्षजपान्मृत्युं नाशयेदतिदारुणम् ।
दशांशं हवनं कृत्वा क्षौद्रक्षीरघृताम्बुजैः ॥२६॥
अथलय :-
कामरूपे शिवं देवं लिङ्गाभं मणिसन्निभम् ।
स्रवन्तं चामृतरसं यो ध्यायेन्निजविग्रहे ॥२७॥
निरन्तरकृताभ्यासात्षण्मासात् सिद्धिभाग्भवेत् ।
वलीपलितनिर्मुक्तो जीवेदब्दशतत्रयम् ॥२८॥
अथ हठ :-
पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् ।
प्रसारितं पदं धृत्वा कराभ्यां पूरयेन्मुखे ॥२९॥
कण्ठे बन्धं समारोप्याधाराद्वायुमूर्धतः ।
यथा दण्डाहतस्सर्पो दण्डाकारः प्रजायते ॥३०॥
ऋजुभूता तदा शक्तिः कुण्डली सहसा भवेत् ।
तदासौ मरणावस्था जायते द्विपुटाश्रिता ॥३१॥
महारोगा महाक्लेशा जीर्यन्ते मरणादयः ।
महामुद्रांच तेनैनां वदन्ति विबुधोत्तमाः ॥३२॥
महामुद्राकृता येन साधकाय प्रसिध्यति ।
कथ्यतेsसौ महाबन्धो जरामरणनाशकः ॥३३॥
पूरयित्वा मुखे वायुं हृदये चु ( चि ) बुके कृते ।
निभृतं योनिमाकुञ्चेन्मनो मध्ये नियोजयेत् ॥३४॥
अयं च सर्वनाडीनामूर्ध्वं गतिविशोधनः ।
त्रिवेणीसङ्गमं कृत्वा केदारं प्राययेन्मनः ॥३५॥
रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना ।
महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ ॥३६॥
सव्यं प्रसारितं पादं कराभ्यां धारयेद् दृढम् ।
आन्दोलनं ततः कूर्याच्छरीरस्य त्रिमार्गतः ॥३७॥
पुनरास्फालनं कट्यां सुस्थिरं कण्ठमुद्रया ।
वायुना गतिमाहृत्य कृत्वा पूरककुम्भकौ ॥३८॥
समहस्तयुगो भूत्वा समपादयुगस्तथा ।
वेधयेत्क्रमयोगेन चतुष्पीठं तु वायुना ॥३९॥
आस्फालयेन्महामेरू वायुवज्राग्निकोटिभिः ।
पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥४०॥
सोमसूर्याग्निसम्बन्धं जानीयादमृताय वै ।
मृतावस्था समुत्पन्ना ततो मृत्युभयं कुतः ॥४१॥
एतत्त्रयं महागुण्यं जरामृत्युविनाशनम् ।
अष्टधा क्रियते चैतत् यामे यामे दिने दिने ॥४२॥
वह्निवृद्धिकरं चैव अणिमादिगुणप्रदम् ।
पुण्यं सञ्चयसंहारि पापौघभिदुरं सदा ॥४३॥
सम्यगूशिक्षावतामेवं स्वल्पं प्रथमसाधने ।
वह्निस्त्रीपथसेवानामादौ वर्जनमाचरेत् ॥४४॥
आरम्भश्च घटश्चैव प्रत्ययश्च तृतीयकः ।
निष्पत्तिः सर्वयोगेषु योगावस्था चतुर्विधा ॥४५॥
ब्रह्मग्रन्थेर्भवेद् वेधादानन्दानुभवः स्वयम् ।
विचित्रक्वणको देहेsनाहतः श्रूयते ध्वनिः ॥४६॥
द्विव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् ।
सम्पूर्णहृदयश्शूर आरम्भे योगिनो भवेत् ॥४७॥
द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः ।
दृढासनो भवेद्योगी ज्ञानादेव समप्रभः ॥४८॥
विष्णुग्रन्थेस्तथा वेधात् परमानन्दसूचकः ।
अतिशून्ये विमर्दश्च भेरीशब्दस्तथा भवेत् ॥४९॥
तृतीयायां ततो भित्त्वा विपाको ( विहायो ) मर्द्दलध्वनिः ।
महाशून्यं तदा जातं सर्वसन्धि ( सद्धि ) समाश्रयम् ॥५०॥
चित्तानन्दं ततो जित्वासहजानन्दसम्भवः ।
दोषमृत्यु - जरा - दुःख - क्षुधा - निद्राविवर्जितः ॥५१॥
रुद्रग्रन्थिं ततो भित्त्वा सत्वपीठगतोsनिलः ।
निष्पत्तौ वैणवश्शब्दः क्वणन्वीत ( न्निव ) क्वणो भवेत् ॥५२॥
एकीभूतं तदा चित्तं राजयोगाभिधानकम्
स्रुष्टिसंहारकर्ताsसौ योगीश्वरसमोभवेत् ॥५३॥
न नादो न च बिन्दुश्च न चेतो नाप्यचेतनः ।
नाभ्यासदुस्तरं किञ्चित् राजयोगो निगद्यते ॥५४॥
लीनं यत्र चराचरं लयवशात् तल्लिङ्गमित्युच्यते ।
सा शक्तिर्यदचिन्त्यरूपगहनाल्लोकत्रयोद्भासिनी ॥
तद्ध्यानं यदशेषवस्तुविषयव्यापारहीनं मनः ।
तत्क्षात्र ( ? तत्क्षेत्रं ) यदसीमकालपटलध्यानासनं हेलया ॥५५॥
पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः ।
काठिन्यात्पृथिवी ज्ञेया पानीयं यद् द्रवाकृतिः ॥५६॥
दीपनं तु भवेत्तेजः स्पर्शे वायोस्तथा भवेत् ।
आकाशे चेतनं सर्वं ज्ञातव्यं योगमिच्छता ॥५७॥
षट्च्छातान्यधिकान्यत्र सहस्राण्येकविशतिः ।
अहोरात्रं वहेच्छ्वासो वायुमण्डलरेचनात् ॥५८॥
तत्पृथ्वीमण्डले क्षीणे बलिरायाति देहिनाम् ।
तोये क्षीणे तृणानीव चिकुराः पाण्डुराः क्रमात् ॥५९॥
तेजःक्षीणे क्षुधाक्लान्तिर्नश्यते मारुते श्लथे ।
वेपथुश्च भवेन्नित्यं साहसेनैव जीवति ॥६०॥
इत्थंभूतक्षयान्मृत्युर्जीवितं भूतधारणात् ।
प...ञ्चेद्वर्षशते लक्ष्येन्नान्यथा मरणं भवेत् ॥६१॥
यामाष्टककृताभ्यासात्सर्वाञ्छ्वासान् ग्रसत्यसौ ।
स षोडशकलोपेतश्शशी तिष्ठति पूरकान् ( त् ) ॥६२॥
निस्तरङ्गे स्थिरे चित्ते वायुर्भवति मध्यगः ।
रविरूर्ध्वपदं याति विन्दुना याति वश्यताम् ॥६३॥
आनन्दपूरितो योगी जायते शिवसन्निभः ।
तदेश्वरगुणास्सर्वे दृश्यन्ते दशमासतः ॥६४॥
इत्यमरौघसंसिद्धौ गोरक्षेण प्रकाशितः ।
लयाद्युपायकौशल्यप्रबोधप्रत्ययात्मकः ॥६५॥
सर्वचिन्तां परित्यज्य दिनमेकं परीक्ष्यताम् ।
यदि तत्प्रत्ययो नास्ति तदा मे तु मृषा वचः ॥६६॥
रुमो ( ? ) मरीचि खद्योत दीपज्वालेन्दु भास्कराः ।
अमी कला महाबिम्बं विश्वबिम्बं प्रकाशते ॥६७॥
प्रबोधं यो न जानाति सोsमरौघं न विन्दति ।
समीभावे समुत्पन्ने चित्ते द्वैतविवर्जिते ॥६८॥
अहं ममेत्यपीत्युक्त्वा सोsमरौघं विचिन्तयेत् ।
चित्तं जीवितमित्याहुरचित्तं मरणं विदुः ॥६९॥
चित्ताचित्ते समीभूते जीवन्मुक्तिरिहोच्यते ।
यत्र स्वभावसद्भावो भाषितुं नैव शक्यते ॥७०॥
न जीवति ततः कोsपि न च कोsपि मरिष्यति ।
राजयोगं पदं प्राप्य सर्वसत्त्ववशङ्करम् ॥७१॥
सर्वं कूर्यान्न कूर्याद्वा यथारुचि विचेष्टितम् ।
नग्नः कोsपि गुहासु दिव्यवसनः कौपीनवासाः क्कचित् ।
दिव्यस्त्रीसुरतान्वितोsपि कुहचित्स ब्रह्मचारी क्वचित् ।
भिक्षाहाररतः क्कचित् क्कचिदपि प्राप्नोति भोगास्पदम् ।
सर्वत्राप्रतिबद्धवृत्तिरखिलक्लेशापहा योगिराट् ॥७२॥
श्रीमद्गोरक्षनाथेन सदामरौघवर्तिना ।
लयमंत्रहठाः प्रोक्ताः राजयोगाय केवलम् ॥७३॥
कायेनैव परीक्षेत वाक्पटुः किं करिष्यति ।
चिकित्सापाठमात्रेण रोगिणः किं करिष्यति ॥७४॥
॥ इति श्रीमद्गोरक्षनाथविरचितं - अमरौघप्रबोधं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 25, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP