संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम्

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् ।
गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥१॥
भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः ।
अपाररभसारब्धनर्तनः स्यामहं कदा ॥२॥
त्वदेकनाथो भगवन्नियदेवार्थये सदा ।
त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः ॥३॥
अहो सुधानिधे स्वामिन् अहो मृष त्रिलोचन ।
अहो स्वादो विरूपाक्षेत्येव नृत्येयमारटन् ॥४॥
त्वपादपद्मसंस्पर्शपरिमीलितलोचनः ।
विजृम्भेय भवद्भक्तिमदिरामदघूर्णितः ॥५॥
चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा ।
निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसां ॥६॥
यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् ।
बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे ॥७॥
समुल्लसन्तु भगवन् भवद्भानुमरीचयः ।
विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥८॥
प्रसीद भगवन् येन त्वत्पदे पतितं सदा ।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥९॥
प्रहर्षाद्वाथ शोकाद्वा यदि कुड्याद्धटादपि ।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥१०॥
बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे ।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥११॥
त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम् ।
कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥१२॥
निवेदितमुपादत्स्व रागादि भगवन्मया ।
आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैःसमम् ॥१३॥
अशेषभुवनाहारनित्यतृप्तः सुखासनम् ।
स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥१४॥
अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः ।
नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि ॥१५॥
अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् ।
पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥१६॥
आकाङ्क्षणीयमपरं येन नाथ न विद्यते ।
तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता ॥१७॥
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते ।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥१८॥
तत्तदपूर्वामोद -
त्वच्चिन्ताकुसुमवासना दृढताम् ।
एतु मम मनसि याव -
न्नश्यतु दुर्वासनागन्धः ॥१९॥
क्व नु रागादिषु रागः
क्व च हरचरणाम्बुजेषु रागित्वम् ।
इत्थं विरोधरसिकं
बोधय हितममर मे हृदयम् ॥२०॥
विचरन्योगदशास्वपि
विषयव्यावृत्तिवर्तमानोऽपि ।
त्वच्चिन्तामदिरामद -
तरलीकृतहृदय एव स्याम् ॥२१॥
वाचि मनोमतिषु तथा
शरीरचेष्टासु करणरचितासु ।
सर्वत्र सर्वदा मे
पुरःसरोल भवतु भक्तिरसः ॥२२॥
शिव - शिव - शिवेति नामनि
तव निरवधि नाथ जप्यमानेऽस्मिन्
आस्वादयन् भवेयं
कमपि महारसमपुनरुक्तम् ॥२३॥
स्फुरदनन्तचिदात्मकविष्टपे
परिनिपीतसमस्तजडाध्वनि ।
अगणितापरचिन्मयगण्डिके
प्रविचरेयमहं भवतोऽर्चिता! ॥२४॥
स्ववपुषि स्फुटभासिनि शाश्वते
स्थितिकृते न किमप्युपयुज्यते ।
इति मतिः सुदृढा भवतात् परं
मम बह्वच्चरणाब्जरजः शुचेः ॥२५॥
किमपि नाथ कदाचन चेतसि
स्फुरति तद्भवदंघ्रितलस्पृशाम् ।
गलति यत्र समस्तमिदं सुधा -
सरसि विश्वमिदं दिश मे सदा ॥२६॥

पांचवां स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP