चर्वणाभिधानं विंशं स्तोत्रम्
श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली
नाथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् ।
उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे ॥१॥
नौमि निजतनुविनिस्सरदंशुकपरिवेषधवलपरिधानम् ।
विलसत्कपालमालाकल्पितन्रुत्तोत्सवाकल्पम् ॥२॥
वन्दे तान् दैवतं येषां हरश्चेष्टा हरोचिताः ।
हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम् ॥३॥
क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत् ।
इष्टमात्रघटितेष्ववदानेष्वात्मना परमुपायमुपैमि ॥४॥
त्वद्धाम्नि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति ।
तव नाथ कियान् भूयान्नानन्दरससम्भवः ॥५॥
कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः ।
हरोऽपि मा भूदथ किं गौर्याः परमवल्लभः ॥६॥
ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम् ।
संविल्लतास्तथारूपास्तस्य कस्यापि सत्तरोः ॥७॥
भक्तिकण्डूसमुल्लासावसरे परमेश्वर ।
महानिकषपाषाणस्थूणा पूजैव जायते ॥८॥
सदा सृष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥९॥
न क्वापि गत्वा हित्वापि न किंचिदिदमेव ये ।
भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥१०॥
भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।
एतया वा दरिद्राणां किमन्यदुपयाचितम् ॥११॥
दुःखान्यपि सुखायन्ते विषमप्यमृतायते ।
मोक्षायते च संसारो यत्र मार्गः स शाङ्करः ॥१२॥
मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषाम् ।
तथापि वयमीशान सीदामः कथमुच्यताम् ॥१३॥
ज्ञानयोगादिनान्येषामप्यपेक्षितुमर्हति ।
प्रकाशः स्वैरिणामेव भवान् भक्तिमतां प्रभो ॥१४॥
भक्तानां नार्तयो नाप्यस्त्याध्यानं स्वात्मनस्तव ।
तथाप्यस्ति शिवेत्येतत्किमप्येषां बहिर्मुखे ॥१५॥
सर्वाभासावभासो यो विमर्शवलितोऽखिलम् ।
अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते ॥१६॥
वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ।
ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥१७॥
सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा ।
एवमेवोद्यते नाथ त्वया संहारलीलया ॥१८॥
ध्यातमात्रमुपतिष्ठत एव
त्वद्वपुर्वरद भक्तिधनानाम् ।
अप्यचिन्त्यमखिलाद्भुतचिन्ता -
कर्तृतां प्रति च ते विजयन्ते ॥१९॥
तावकभक्तिरसासव -
सेकादिव सुखितमर्ममण्डलस्फुरितैः ।
नृत्यति वीरजनो निशि
वेतालकुलैः कृतोत्साहः ॥२०॥
बीसवां स्तोत्र समाप्त
N/A
References : N/A
Last Updated : April 20, 2017
TOP