संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम्
श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली
संग्रहेण सुखदुःखलक्षणं
मां प्रति स्थितमिदं श्रृणु प्रभो ।
सौख्यमेष भवता समागमः
स्वामिना विरह एव दुःखिता ॥१॥
अन्त्रप्यतितरामणीयसी
या त्वदप्रथनकालिकास्ति मे
तामपीश परिमृज्य सर्वतः
स्वं स्वरूपमललं प्रकाशय ॥२॥
तावके वपुषि विश्वनिर्भरे
चित्सुधारसमये निरत्यये ।
तिष्ठतः सततमर्चतः प्रभुं
जीवितं मृतमथान्यदस्तु मे ॥३॥
ईश्वरोऽहमहमेव रूपवान्
पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः ।
मत्समोऽस्ति जगतीति शोभते
मानिता त्वदनुरागिणः परम् ॥४॥
देवदेव भवदद्वयामृता -
ख्यातिसंहरणलब्धजन्मना ।
तद्यथास्तितपदार्थसंविदा
मां कुरुष्व चरणार्चनोचितम् ॥५॥
ध्यायते तदनु दृश्यते ततः
स्पृश्यते च परमेश्वरः स्वयम् ।
यत्र पूजनमहोत्सवः स मे
सर्वदास्तु भवतोऽनुभावतः ॥६॥
यद्यथास्थितपदार्थदर्शनं
युष्मदर्चनमहोत्सवश्च यः ।
युग्ममेतदितरेतराश्रयं
भक्तिशालिषु सदा विजृम्भते ॥७॥
तत्तदिन्द्रियमुखेन सन्ततं
युष्मदर्चनरसायनासवम् ।
सर्वभाववचषकेषु पूरिते -
ष्वापिबन्नपि भवेयमुन्मदः ॥८॥
अन्यवेद्यमणुमात्रमस्ति न
स्वप्रकाशमखिलं विजृम्भते ।
यत्र नाथ भवतः पुरे स्थिति
तत्र मे कुरु सदा तवार्चितुः ॥९॥
दासधाम्नि विनियोजितोऽप्यहं
स्वेच्छयैव परमेश्वर त्वया ।
दर्शनेन न किमस्मि पात्रितः
पादसंवहनकर्मणापि वा ॥१०॥
शक्तिपातसमये विचारणं
प्राप्तमीश न करोषि कर्हिचित् ।
अद्य मां प्रति किमागतं यतः
स्वप्रकाशनविधौ विलम्बसे ॥११॥
तत्र तत्र विषये बहिर्विभा -
त्यन्तरे च परमेश्वरीयुतम् ।
त्वां जगत्त्रितयनिर्भरं सदा
लोकयेय निजपाणिपूजितम् ॥१२॥
स्वामिसौधमभिसन्धिमात्रतो
निर्विबन्धमधिरुह्य सर्वदा ।
स्यां प्रसादपरमामृतासवा -
पानकेलिपरिलब्धनिर्वृतिः ॥१३॥
यत्समस्तसुभगार्थवस्तुषु
स्पर्शमात्रविधिना चमत्कृतिम् ।
तां समर्पयति तेन ते वपुः
पूजयन्त्यचलभक्तिशालिनः ॥१४॥
स्फारयस्यखिलमात्मना स्फुरन्
विश्वमामृशसि रूपमामृशन् ।
यत्स्वयं निजरसेन घूर्णसे
तत्समुल्लसति भावमण्डलम् ॥१५॥
योऽविकल्पमिदमर्थमण्डलं
पश्यतीश निखिलं भवद्वपुः ।
स्वात्मपक्षपरिपूरिते जग -
त्यस्य नित्यसुखिनः कुतो भयम् ॥१६॥
कण्ठकोणविनिविष्टमीश ते
कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपु -
र्भेदवृत्ति यदि रोचते न मे ॥१७॥
त्वत्प्रलापमयरक्तगीतिका -
नित्ययुक्तवदनोपशोभितः ।
स्यामथापि भवदर्चनक्रिया -
प्रेयसीपरिगताशयः सदा ॥१८॥
ईहितं न बत पारमेश्वरं
शक्यते गणयितुं तथा च मे ।
दत्तमप्यमृतनिर्भरं वपुः
स्वं न पातुमनुमन्यते तथा ॥१९॥
त्वामगाधमविकल्पमद्वयं
स्वं स्वरूपमखिलार्थघस्मरम् ।
आविशन्नहमुमेश सर्वदा
पूजयेयमभिसंस्तुवीय च ॥२०॥
तेरहवां स्तोत्र समाप्त
N/A
References : N/A
Last Updated : April 20, 2017
TOP