अविच्छेदभङ्गाख्यं दशमं स्तोत्रम्
श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली
न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् ।
माहेश्वराश्च लोकानामितरेषां समाश्च यत् ॥१॥
ये सदैवानुरागेण भवत्पादानुगामिनः ।
यत्र तत्र गता भोगांश्ते कांश्चिदुपभुञ्जते ॥२॥
भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः ।
तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥३॥
क्षणमात्रसुखेनापि विभुर्ये नासि लभ्यसे ।
तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥४॥
आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि ।
सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः ॥५॥
बलिं यामस्तृतीयाम नेत्रायास्मै तव प्रभो ।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥६॥
तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति ।
कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥७॥
येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव ।
आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥८॥
त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम् ।
ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥९॥
आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् ।
त्वद्दूशणकथा येषां त्वदृते नोपपद्यते ॥१०॥
बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः ।
त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥११॥
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः ।
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः ॥१२॥
अपीत्वापि भवद्भक्तिसुधामनवलोक्य च ।
त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः ॥१३॥
भृत्या वयं तव विभो तेन त्रिजगतां यथा ।
बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम् ॥१४॥
परानन्दामृतमये दृष्टेऽपि जगदात्मनि ।
त्वयि स्पर्शरसेऽत्यन्ततरमुत्कण्ठितोऽस्मि ते ॥१५॥
देव दुःखान्यशेषाणि यानि संसारिणामपि ।
धृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम् ॥१६॥
सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये ।
सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथा ॥१७॥
त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि ।
नृत्यन्ति पवनोद्धूताः कार्पासपिचवो यथा ॥१८॥
यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः ।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥१९॥
वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि ।
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥२०॥
महाप्रकाशवपुष्हि विस्पष्टे भवति स्थिते ।
सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥२१॥
अविभागो भवानेव स्वरूपममृतं मम ।
तथापि मर्त्यधर्माणामहमेवैकमास्पदम् ॥२२॥
महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् ।
प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥२३॥
सदसच्च भवानेव येन तेनाप्रयासतः ।
स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥२४॥
शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् ।
तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥२५॥
हन्नाभ्योरन्तरालस्थः प्रणिनां पित्तविग्रहः ।
ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम् ॥२६॥
दसवां स्तोत्र समाप्त
N/A
References : N/A
Last Updated : April 19, 2017
TOP