इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः ।
दिविशत्प्रवराः प्रजज्ञिरे भुवि षङ्शास्त्रविदां सतां कुले ॥१॥
कमलानिलयः कलानिधे -
र्विमलाख्यादजनिष्ट भूसुरात् ॥
भुवि पद्मपदं वदन्ति यं
सविपद्येन विवादिनां यशः ॥२॥
पवमानोऽप्यजनि प्रभाकरा -
त्सवनोन्मीलितकीर्तिमण्डलात् ॥
गलहस्तितभेदवाद्यसौ
किल हप्तामलकाभिधामधात् ॥३॥
पवमानदशांशतोऽजनि
प्लवमानाऽञ्चति यद्यशोम्बुधौ ॥
धरणी मथिता विवादिवा -
क्तरणी येन स तोटकाह्वयः ॥४॥
उदभावि शिलादसूनुना
मदवद्वादिकदम्बनिग्रहैः ॥
समुद्रञ्चितकीर्तिशालिनं
यमुदङ्कं ब्रवते महीतले ॥५॥
विधिरास सुरेश्वरो गिरां
निधिरानन्दगिरिर्व्यजायत ॥
अरुणः समभूत्सनन्दनो
वरुणोऽजायत चित्सुखःह्वयः ॥६॥
अपरेऽप्यभवन्दिवौकसः
स्वपरेर्ष्यापरविद्विषः प्रभोः ॥
चरणं परिसेवितुं जग -
च्छरणं भूसुरपुंगवात्मजाः ॥७॥
चार्वाकदर्शनविधानसरोषधातृ -
शापेन गीष्पतिरभूद्भुवि मण्डनाख्यः ॥
नन्दीश्वरः करुणयेश्वरचोदितः स -
न्नानन्दगिर्यभिधया व्यजनीति केचित् ॥८॥
अथावतीर्णस्य विधेः पुरंध्री
साऽभूद्यदाख्योभयभारतीति ॥
सरस्वती सा खलु वस्तुवृत्त्या
लोकोऽपि तां वक्ति सरस्वतीति ॥९॥
पुरा किलाध्यैषत धातुरन्तिके
सर्वज्ञकल्पा मुनयो निजं निजम् ॥
वेदं तदा दुर्वसनोऽतिकोपनो
वेदानधीयन्क्कचिदस्खलत्स्वरे ॥१०॥
तदा जहासेन्दुमुखी सरस्वती
यदङ्गमर्णोद्भवशब्दसंततिः ॥
चुकोप तस्यै दहनानुकारिणा
निरैक्षताक्ष्णा मुनिरुग्रशासनः ॥११॥
शशाप तां दुर्वेनयेऽवनीतले
जायस्व मर्त्येष्वबिभेत्सरस्वती ॥
प्रसादयामास निसर्गकोपनं
तत्पादमूले पतिता विषादिनी ॥१२॥
दृष्ट्वा विषण्णां मनुयः सरस्वतीं
प्रसादयांचक्रुरिमं तमादरात् ॥
कृतापराधा हगवन्क्षमस्व तां
पितेव पुत्रं विहितागसं मुने ॥१३॥
प्रसादितोऽभूदथ संप्रसन्नो
बाण्या मुनीन्द्रैरपि शापमोक्षम् ॥
ददौ यदा मानुषशंकरस्य
संदर्शनं स्याद्भवितास्यमर्त्या ॥१४॥
सा शोणतीरेऽजनि विप्रकन्या
सर्वार्थवित्सर्वगुनोपपन्ना ॥
यस्या बभूवुः सहजाश्च विद्याः
शिरोगतं के परिहर्तुमीशाः ॥१५॥
सर्वाणि शास्त्राणि षडङ्गवेदा -
न्काव्यादिकान्वेत्ति परं च सर्वम् ॥
तन्नास्ति नो वेत्ति यदत्र बाला
तस्मादभूच्चित्रपदं जनानाम् ॥१६॥
सा विश्वरूपं गुणीनं गुणज्ञा
मनोभिरामं द्विजपुंगवेभ्यः ॥
शुश्राव तां चापि स विश्वरूप -
स्तस्मात्तयोर्दर्शनलालसाऽभूत् ॥१७॥
अन्योन्यसंदर्शनलालसौ तौ
चिन्ताप्रकर्षादधिगम्य निद्राम् ॥
अवाप्य संदर्शनभाषणानि
पुनः प्रबुद्धौ विरहाग्नितप्तौ ॥१८॥
दिदृक्षमाणावपि नेक्षमाणा -
वन्योन्यवार्ताहृतमानसौ तौ ॥
यथोचिताहारविहारहीनौ
तनौ तनुत्वं स्मरणादुपेतौ ॥१९॥
दृष्ट्वा तदीयौ पितरौ कदाचि -
दपृच्छतां तौ परिकर्शिताङ्गौ ॥
वपुः कृशं ते मनसोऽप्यगर्वो
न व्याधिमीक्षे न च हेतुमन्यम् ॥२०॥

N/A

References : N/A
Last Updated : May 18, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP