मा भूदयं मम सुता कलहः कुमारीं
पृच्छाव सा वदति यं भविता वरोऽस्याः ॥
एवं विधाय समयं पितरौ कुमार्या
अभ्याशमीयतुरितो गदितेष्टकार्यौ ॥४१॥
श्रीविश्वरूपगुरुणा प्रहितौ द्विजाती
कन्यार्थिनौ सुतनु किं करवाव वाच्यम् ॥
तस्याः प्रमोदनिचयो न ममौ शरीरे
रोमाञ्चपूरमिपतो बहिरुज्जगाम ॥४२॥
तेनैव सा प्रतिवचः प्रददौ पितृभ्यां
तनैव तावपि तयोर्युगलाय सत्यम् ॥
आदाय विप्रमपरं पितृगेहतोऽस्या -
स्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥४३॥
अस्माच्चतुर्दशदिने भविता दशम्यां
यामित्रभादिशुभयोगयुतो मुहूर्तः ॥
एवं विलिख्य गणितादिषु कौशल्यास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥४४॥
तौ हृष्टपुष्टमनसौ विहितेष्टकार्यौ
श्रीविश्वरूपगुरुमुत्तममैक्षिषाताम् ॥
सिद्धं समीहितमिति प्रथितानुभावो
दृष्ट्वै तन्मुखमसावथ निश्चिकाय ॥४५॥
अन्यः स्वहस्तगतपत्रमदात्स पत्रं
दृष्ट्वा जहास सुखवारिनिधौ ममज्ज ॥
विप्रान्यथोचितमपूपुजदागतांस्ता -
न्नत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥४६॥
पित्राऽनुशिष्टवसुधासुरशंसितेन
विज्ञापितः सुखमवाप स विश्वरूपः ॥
कार्याण्यथाऽऽह पृथगात्मजनान्समेता -
न्बन्धुप्रियः परिणयोचितसाधनाय ॥४७॥
मौहूर्तिकैर्बहुभिरेत्य मुहूर्तकाले
संदर्शिते द्विजवरैर्बहुविद्भिरिष्टैः ॥
माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्यः
स प्रापदक्षततनुः पृथुशोणतीरम् ॥४८॥
शोणस्य तीरमुपयातमुपाशृणोत्स
जामातरं बहुविधं कुल विष्णुमित्रः ॥
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन
प्रावीविशद्गृहममुं बहुवाद्यघोषैः ॥४९॥
दत्त्वाऽऽसनं मृदु वचः समुदीर्य तस्मै
पाद्यं ददौ समधुपर्कमनर्घपात्रे ॥
अर्घ्यं ददावहमियं तनया गृहास्ते
गावो हिरण्यमखिलं भवदीयमूचे ॥५०॥
अस्माकमद्य पवितं कुलमादृताः स्मः
संदर्शनं परिणयव्यपदेशतोऽभूत् ॥
नो चेद्भवान्बहुविदग्रसरः क्क चाहं
भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥५१॥
यद्यद्गृहेऽत्र भगव्वन्निह रोचते ते
तत्तन्निवेद्यमखिलं भवदीयमेतत् ॥
वक्ष्यामि सर्वमभिलाशपदं त्वदीयं
युक्तं हि संततमुपासितवृद्धपूगे ॥५२॥
एवं मिथः परिनिगद्य विशेषमृद्या
वाचा युतौ मुदमवापतुरुत्तमां तौ ॥
अन्ये च संमुमुदिरे प्रियसत्कथाभिः
स्वेच्छाविहारहसनैरुभये विधेयाः ॥५३॥
कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ
दृष्ट्वोभयेऽपि परिकर्म विलम्बमानाः ॥
चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते
शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥५४॥
एतत्प्रभाप्रतिहतात्मविभूतिभावा -
दाकल्पजातमपि नातिशयं वितेने ॥
लोकप्रसिद्धिमनुसृत्य विधेयबुद्ध्या
भूषां व्यधुस्तदुभये न विशेषबुद्ध्या ॥५५॥
मौहूर्तिका बहुविदोऽपि मुहूर्तकाल -
मप्राक्षुरक्षातधियं खिलती सखीभिः ॥
पश्चात्तदुक्तशुभयोगयुते शुभांशे
मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥५६॥
जग्राह पाणिकमलं हिममित्रसूनुः
श्रीविष्णुमित्रदुहितुः करपल्लवेन ॥
भेरीमृदङ्गपटहाध्ययनाब्जघोषै -
र्दिङ्मण्डले सुपरिमूर्छति दिव्यकाले ॥५७॥
यं यं पदार्थमभिकामयते पुमान्य -
स्तं तं प्रदाय समतूतुषतां तदीड्यौ ॥
देवद्रुमाविव महासुमनस्त्वयुक्तौ
संभूषितौ सदसि चेरतुरात्मलाभौ ॥५८॥
आधाय वह्निमथ तत्र जुहाव सम्य -
ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ॥
लाजाञ्जुहाव च वधूः परिजिघ्रति स्म
धूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ॥५९॥
होमावसानपरितोषितविप्रवर्यः
प्रस्थापिताखिलसमागतबन्धुवर्गः ॥
संरक्ष्य वह्निमनया सममग्निगेहे
दीक्षाधरो दिनचतुष्कमुवास हृष्टः ॥६०॥

N/A

References : N/A
Last Updated : May 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP